अक्षर आकार:

नवरत्नमालिका अम्बिकास्तुतिः

Navaratnamalika Ambikastutih

नवरत्नमालिका अम्बिकास्तुतिः

(श्रीकालहस्तिक्षेत्रस्थज्ञानप्रसूनाम्बिकास्तुतिः) श्रीनरकण्ठीरवशास्त्रिविरचिता । श्रीनाकनाथमुखनानासहस्रसुरसेनाग्रमौलिवलभी- सूनावलीबहुललीनालिनीमधुरगानाञ्चिताङ्घ्रिनलिना । मानातिलङ्घिमहिमानादिरानतजनानामनेकफलदा ज्ञानाम्बिका भवतु दीनावनी कुशलदानाय मे भगवती ॥ १॥ राकाशशाङ्करुचिराकारचारुपादना(पतदा)काशसिन्धुलहरी- नीकाशसूक्तिसरणीकारिणी प्रकृतिमूकात्मनामपि नृणाम् । पाकाहितप्रमुखनाकालयप्रकरशोकापनोदनचणा श्रीकालहस्तिनगरैकायनावतु पिनाकायुधस्य दयिता ॥ २॥ श्रेणीभवद्दिविषदेणीदृगुल्लसितवेणीपिनद्धसुमनो- द्रोणीमरन्दरसवेणीप्रसारभृशशोणीकृताङ्घ्रिकमला । श्रोणीनटत्सरकृपाणीमनोज्ञघनवेणी कृपार्द्रहृदया क्षोणीधरेन्द्रतनयाणीयसीमपि च वाणीं प्रगल्भयतु मे ॥ ३॥ केलीसमाकलिततालीदलश्रवणपालीविभूषणमणी- वा(पा)ली मदोद्धतमरालीगतिर्दिंशतु नालीकदीर्घनयना । चूलीतलाभरणनालीकवैरिशकलालीभवत्सुरवधूःऽ काली गिरं मृदु मृणालीभुजा मम मधूलीरसोर्मिमधुराम् ॥ ४॥ हृद्यानवद्यतरगद्यानुबद्धमृदुपद्याभिरूपकवितां दद्याज्जगन्महितविद्यां त्रयीशिखरवेद्या हिमाद्रितनया । आद्या परा मम शरद्यामिनीशभृदविद्याविलासशमनी विद्याधरी समभिवाद्या ज्वलन्मणिनिषद्यायमाणरशना ॥ ५॥ हालामदाकलितहेलालसद्बहुललोलारुणाक्षियुगली लीलापिनद्धसुरसालावलीप्रसवमालासुगन्धचिकुरा । कैलासनाथहितशीला कराञ्चितशुकालापलोलहृदया वेलातिलङ्घिशुभजालाय मे भवतु शैलाधिनाथतनया ॥ ६॥ चण्डापदानयुतचण्डाभिधासुरपिचण्डावदारणचणा भण्डासुरोग्रभुजदण्डाग्रनिर्दलनशौण्डायुधोद्धतकरा । शुण्डानुकारिकरकाण्डावदीर्णजगदण्डाट्टहासभयदा दण्डायुधाय शशिखण्डावतंसितशिखण्डा न चार्पयतु माम् ॥ ७॥ हुङ्कारनिर्गलदशङ्कापतद्विषदहङ्कारमारतिमिरां अङ्कान्तलम्बिसितक्ङ्कालहारसदलङ्कारबन्धुरगलाम् । ह्रीङ्कारिणीं भयदटङ्कारकार्मुककरां कालहस्तिनिलयां पङ्कापहामपकलङ्कावतंसहरिणाङ्कां भजे भगवतीम् ॥ ८॥ कण्ठारवोद्यदुपकण्ठारिदुर्विषहकण्ठीरवेन्द्रगमनो- त्कण्ठा निकामशितिकण्ठानुकर्षिकलकण्ठानुलापललिता । शुण्ठीभवद्दनुजकण्ठीरवप्रकरकुण्ठीकृतिक्षमबला कुण्ठीकरोतु नरकण्ठीरवाख्यकविकण्ठीरवस्य दुरितम् ॥ ९॥ श्रीकालहस्तिनिलयज्ञानप्रसवाम्बिकामुदे रचिता । नरकण्ठीरवकृतिना नवरत्नस्तुतिरियं चिरं जयतु ॥ १०॥ ॥ इति श्रीनरकण्ठीरवशास्त्रिविरचिता नवरत्नमालिका समाप्ता ॥ श्रीनरकण्ठीरवशास्त्रि कविरयं आन्ध्रो वट्टियल्लिवंशीयः १९-शतकान्ते मद्रास-नगरान्नतिदवीयसि कार्वेटिनगरनाम्नि स्थले तदधीशस्य बोम्मराजस्यास्थानकविरासीत् । अस्य पौत्रा अद्यापि जीवन्ति । अस्य कृतय - १ अभिनवासवदत्ता (सुबन्धुकृत-वासवदत्तागद्यकाव्यस्य पद्यैः सङ्ग्रहः), २ यतिसार्वभौमोपहारः (श्रीशङ्कराचार्यपारम्पर्यवर्णनम्) ३ कपिलेश्वरस्तुतिः (तिरुप्पतिक्षेत्रस्थशिवस्तुतिः); गैर्वाण्यां (४-११, १५-११-६६) मुद्रिता ।- ४ ज्ञानप्रसूनाम्बिका नवरत्नमालिका (अत्र मुद्र्यमाणा)। एता अद्य उपलभ्यन्ते । केचन शास्त्रग्रन्थाश्चानेन रचिताः । नवरत्नमालिकाया मातृका अड्यार-कोशागारेऽप्युपलभ्यते । इयं क्वचिदन्यत्र मुद्रितेति श्रूयते, किन्तु अप्रसिद्धा दुर्लभा च ।