अक्षर आकार:

श्रीनर्मदासहस्रनामस्तोत्रम्

Narmadasahasranamastotram

श्रीनर्मदासहस्रनामस्तोत्रम्

श्री गुरुभ्यो नमः । ॐ श्री गणेशाय नमः । श्री नर्मदायै नमः । विनियोगः अस्य श्रीनर्मदासहस्रनामस्तोत्रमालामन्त्रस्य रुद्र ऋषिर्विराट्छन्दः श्रीनर्मदादेवता ह्रीं बीजं श्रीशक्तिः स्वाहाकीलकं श्रीनर्मदाप्रसादसिद्ध्यर्थे पठने पूजने सहस्रार्चने च विनियोगः । ऋष्यादि न्यासः रुद्रऋषये नमः । शिरसि विराट्छन्दसे नमः । मुखे श्रीनर्मदादेवतायै नमः । हृदये ह्रीं बीजायै नमः । गुह्ये श्रीं शक्तये नमः । पादयोः स्वाहा कीलकाय नमः । नाभौ श्रीनर्मदाप्रसादसिद्धयर्थे विनियोगाय नमः । सर्वाङ्गे कराङ्गन्यासः ॐ ह्रीं श्रीं नर्मदायै स्वाहा इति नवार्णमन्त्रणे । अथवा ॐ नमः अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ह्रीं नमः तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ नमः मध्यमाभ्यां नमः । शिखायै वषट् । नर्मदायै नमः अनामिकाभ्यां नमः । कवचाय हुम् । स्वाहा नमः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ ह्रीं श्रीं नर्मदायै स्वाहा करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । मूलेन त्रिर्व्यापकम् । ध्यानम् ध्याये श्री सिद्धनाथां गणवहसरितां नर्मदां शर्म्मदात्रीं श्यामां बालेव नीलाम्बरमुखनयनाम्भोजयुग्मैकमिन्दुम् । चूडाञ्चाभीतिमालां वरजलकरकां हस्तयुग्मे दधानां तीर्थस्थां छत्रहस्तां झषवरनृपगां देशिकस्यासनाग्रे ॥ १॥ नर्मदे हरसम्भूते हरलिङ्गार्चनप्रिये । हरलिङ्गाञ्चिततटे जयाघं हर नर्मदे ॥ २॥ इति ध्यात्वा यन्त्रेऽथवा प्रवाहे मानसोपचारैः सम्पूज्य नामस्तोत्रपाठं प्रत्येक नाममन्त्रेण पूजनं वा समाचरेत्, यन्त्रस्वरूपं यथा श्रीनर्मदायै नमः । अथ सहस्रनामस्तोत्रम् । नर्मदा नमनीया च नगेज्या नगरेश्वरी । नगमालावृततटा नगेन्द्रोदरसंसृता ॥ १॥ नदीशसङ्गता नन्दा नन्दिवाहनसन्नता । नरेन्द्रमालिनी नव्या नक्रास्या नर्मभाषिणी ॥ २॥ नरार्तिघ्ना नरेशानी नरान्तकभयापहा । नरकासुरहन्त्री च नक्रवाहनशोभना ॥ ३॥ नरप्रिया नरेन्द्राणी नरसौख्यविवर्धिनी । नमोरूपा च नक्रेशी नगजा नटनप्रिया ॥ ४॥ नन्दिकेश्वरसम्मान्या नन्दिकेशानमोहिनी । नारायणी नागकन्या नारायणपरायणा ॥ ५॥ नागसन्धारिणी नारी नागास्या नागवल्लभा । नाकिनी नाकगमना नारिकेलफलप्रिया ॥ ६॥ नादेयजलसंवासा नाविकैरभिसंश्रिता । निराकारा निरालम्बा निरीहा च निरञ्जना ॥ ७॥ नित्यानन्दा निर्विकारा निःशङ्का निश्रयात्मिका । नित्यरूपा निःस्पृहा च निर्लोभा निष्कलेश्वरी ॥ ८॥ निर्लेपा निश्चला नित्या निर्धूताननुमोदिनी । निर्मला निर्मलगतिर्निरामयसुवारिणी ॥ ९॥ नितम्बिनी च निर्दंष्ट्रा निर्धनत्वनिवारिणी । निर्विकारा निश्चयिनी निर्भ्रमा निर्जरार्थदा ॥ १०॥ निष्कलङ्का निर्जरा च निर्दोषा निर्झरा निजा । निशुम्भशुम्भदमनी निघ्ननिग्रहकारिणी ॥ ११॥ नीपप्रिया नीपरता नीचाचरणनिर्दया । नीलक्रान्ता नीरवाहा नीलालकविलासिनी ॥ १२॥ नुतिपात्रा नुतिप्रिया नुतपापनिवारिणी । नूतनालङ्कारसन्धात्री नूपुराभरणप्रिया ॥ १३॥ नेपथ्यरञ्जिता नेत्री नेदीयःस्वरभाजिनी । नैसर्गिकानन्ददात्री नैरुज्यकारिवारिणी ॥ १४॥ नन्दवर्धिनी नन्दयित्री नन्दकी नन्दरूपिणी । परमा परमेशाना पराधारा परमेश्वरी ॥ १५॥ पद्माभा पद्यनयना पद्मा पद्मदलप्रिया । पद्माक्षी पद्मवदना पद्ममालाविमूषिणी ॥ १६॥ पक्षाधारा पक्षिणी च पक्षेज्या परमेश्वरी । पशुप्रिया पशुरता पयःसम्मोहकारिणी ॥ १७॥ पथिप्रिया पथिरता पथिनी पथिरक्षिणी । पङ्ककर्करकूला च पङ्कग्राहसुसंयुता ॥ १८॥ प्रभावती प्रगल्भा च प्रभाजितजगत्तमा । अकृत्रिमप्रभारूपा परब्रह्मस्वरूपिणी ॥ १९॥ पापात्मानां पावयित्री पापजालनिवारिणी । पाकशासनवन्द्या च पापसन्तापहारिणी ॥ २०॥ पिकरूपा पिकेशी च पिकवाक् पिकवल्लभा । पीयूषाढ्यप्रपानीया पीतश्वेतादिवर्णिनी ॥ २१॥ पुरन्दरी पुण्ड्रधारी पुरुहूताभिवन्दिता । पुण्डरीकविशालाक्षी पुरुषार्थप्रदायिनी ॥ २२॥ पूता पूतोदका पूर्णा पूर्वगङ्गा च पूरिता । पञ्चमी पञ्चप्रेमा च पण्डिता पङ्कजेश्वरी ॥ २३॥ फलदा फलरूपा च फलेज्या फलवर्धिनी । फणिपाला फलेशी च फलावर्ज्या फणिप्रिया ॥ २४॥ बला बाला ब्रह्मरूपा ब्रह्मविष्णुशिवात्मिका । बदरीफलसन्दोहसंस्थिता बदरीप्रिया ॥ २५॥ बदर्याश्रमसंस्था च बकदाल्भ्यप्रपूजिता । बदरीफलसंस्नेहा बदरीफलतोषिणी ॥ २६॥ बदरीफलसम्पूज्या बदरीफलभाविता । बर्हिभीरञ्जिता चैव वहुला वहुमार्गगा ॥ २७॥ बाहुदण्डविलासिनी ब्राह्मी बुद्धिविवर्धिनी । भवानी भयहर्त्री च भवपाशविमोचिनी ॥ २८॥ भस्मचन्दनसंयुक्ता भयशोकविनाशिनी । भगा भगवती भव्या भगेज्या भगपूजिता ॥ २९॥ भावुका भास्वती भामा भ्रामरी भासकारिणी । भारद्वाजर्षिसम्पूज्या भासुरा भानुपूजिता ॥ ३०॥ भालिनी भार्गवी भासा भास्करानन्ददायिनी । भिक्षुप्रिया भिक्षुपाला भिक्षुवृन्दसुवन्दिता ॥ ३१॥ भीषणा भीमशौर्या च भीतिदा भीतिहारिणी । भुजगेन्द्रशयप्रीता भुविष्ठा भुवनेश्वरी ॥ ३२॥ भूतात्मिका भूतपाला भूतिदा भूतलेश्वरी । भूतभव्यात्मिका भूरिदा भूर्भूरिवारिणी । ३३॥ भूमिभोगरता भुमिर्भूमिस्था भूधरात्मजा । भूतनाथसदाप्रीता भूतनाथसुपूजिता ॥ ३४॥ भूदेवार्चितपादाब्जा भूधरावृतसत्तटा । भूतप्रिया भूपश्रीर्भूपरक्षिणी भूरिभूषणा ॥ ३५॥ भृशप्रवाहा भृतिदा भृतकाशाप्रपूरिता । भेदयित्री भेदकर्त्री भेदाभेदविवर्जिता ॥ ३६॥ भैरवप्रीतिपात्री च भैरवानन्दवर्धिनी । भोगिनी भोगदात्री च भोगकृद्भोगवर्धिनी ॥ ३७॥ भौमप्राणिहिताकाङ्क्षी भौमौषधिविवर्धिनी । महामाया महादेवी महिला च महेश्वरी ॥ ३८॥ महामोहापहन्त्री च महायोगपरायणा । मखानुकूला मखिनी मखभूस्तरभूषणा ॥ ३९॥ मनस्विनी महाप्रज्ञा मनोज्ञा मनोमोहिनी । मनश्चाञ्चल्यसंहर्त्री मनोमलविनाशिनी ॥ ४०॥ मदहन्त्री मथुमती मधुरा मदिरेक्षणा । मणिप्रिया मनःसंस्था मदनायुधरूपिणी ॥ ४१॥ var मनीषिणी मत्स्योदरी महागर्ता मकरावासरूपिणी । मानिनी मानदा मान्या मानैक्या मानमानिनी ॥ ४२॥ मार्गदा मार्जनरता मार्गिणी २०० मार्गणप्रिया । मितामितस्वरूपिणी मिहिका मिहिरप्रिया ॥ ४३॥ मीढुष्टमस्तुतपदा मीढुष्टा मीरगामिनी । मुक्तप्रवाहा मुखरा मुक्तिदा मुनिसेबिता ॥ ४४॥ मूल्यवद्वस्तुगर्भा च मूलिका मूर्तरूपिणी । मृगदृष्टिर्मृदुरवा मृतसञ्जीववारिणी ॥ ४५॥ मेधाविनी मेघपुष्टिर्मेघमानातिगामिनी । मोहिनी मोहहन्त्री च मोदिनी मोक्षदायिनी ॥ ४६॥ मन्त्ररूपा मन्त्रगर्भा मन्त्रविज्जनसेविता । यक्षिणी यक्षपाला च यक्षप्रीतिविवद्धिनी ॥ ४७॥ यक्षवारणदक्षा च यक्षसम्मोहकारिणी । यशोधरा यशोदा च यदुनाथविमोहिनी ॥ ४८॥ यज्ञानुकूला यज्ञाङ्गा यज्ञेज्या यज्ञवर्धिनी । याज्यौषधिसुसम्पन्ना यायजूकजनैःश्रिता ॥ ४९॥ यात्राप्रिया यात्रिकैः संव्याप्तभूर्यात्रिकार्थदा । युवती युक्तपदवी युवतीजनसन्नुता ॥ ५०॥ योगमाया योगसिद्धा योगिनी योगवर्धिनी । योगिसंश्रितकूला च योगिनां गतिदायिनी ॥ ५१॥ यन्त्रतन्त्रज्ञसञ्जुष्टा यन्त्रिणी यन्त्ररूपिणी । रमारूपा च रमणी रतिगर्वविभञ्जिनी ॥ ५२॥ रतिपूज्या रक्षिका च रक्षोगणविमोहिनी । रमणीयविशालाङ्गा रङ्गिणी रभसोगमा ॥ ५३॥ रघुराजार्चितपदा रघुवंशविवर्धिनी । राकेशवदना राज्ञी राजभोगविलासिनी ॥ ५४॥ राजकेलिसमाक्रान्ता रागिणी राजतप्रमा । रसप्रिया रासकेलिवर्धिनी रासरञ्जिनी ॥ ५५॥ रिक्थरेणुकणाकीर्णा रञ्जिनी रतिगामिनी । रुचिराङ्गा रुच्यनीरा रुक्माभरणमूषिता ॥ ५६॥ रूपातिसुन्दरा रेवा रैःप्रदायिनी रैणवी । रोचिष्मती रोगहर्त्री रोगिणाममृतोपमा ॥ ५७॥ रौक्ष्यहर्त्री रौद्ररूपा रंहगा रंहणप्रिया । लक्ष्मणा लक्षिणी लक्ष्मीर्लक्षणा ललिताम्बिका ॥ ५८॥ ललितालापसङ्गीता लवणाम्बुधिसङ्गता । लाक्षारुणपदा लास्या लावण्यपूर्णरूपिणी ॥ ५९॥ लालसाधिकचार्वङ्गी लालित्यान्वितभाषिणी । लिप्सापूर्णकरा लिप्सुवरदा च लिपिप्रिया ॥ ६०॥ लीलावपुर्धरा लीला लीलालास्यविहारिणी । ललिताद्रिशिरःपङ्क्तिर्लूतादिहारिवारिणी ॥ ६१॥ लेखाप्रिया लेखनिका लेख्यचारित्रमण्डिता । लोकमाता लोकरक्षा-लोकसङ्ग्रहकारिणी ॥ ६२॥ लोलेक्षणा च लोलाङ्गा लोकपालाभिपूजिता । लोभनीयस्वरूपा च लोभमोहनिवारिणी ॥ ६३। लोकेशमुख्यवन्द्या च लोकबन्धुप्रहर्षिणी । वपुष्मद्वररूपा च वत्सला वरदायिनी ॥ ६४॥ वर्धिष्णुवारिनिवहा वक्रावक्रस्वरूपिणी । वरण्डकसुपात्रा च वनौषधिविवर्धिनी ॥ ६५॥ वज्रगर्मा वज्रधरा वशिष्ठादिमुनिस्तुता । वामा वाचस्पतिनुता वाग्मिनी वाग्विकासिनी ॥ ६६॥ var वाग्देवी वाद्यप्रिया च वाराही वाग्यतप्रियकूलिनी । वाद्यवर्धनपानीया वाटिकावर्धिनीतटा ॥ ६७॥ वानप्रस्थजनावासा वार्वटश्रेणिरञ्जिता । विक्रया विकसद्वक्त्रा विकटा च विलक्षणा ॥ ६८॥ विद्या विष्णुप्रिया विश्वम्भरा विश्वविमोहिनी । विश्वामित्रसमाराध्या विभीषणवरप्रदा ॥ ६९॥ विन्ध्याचलोद्भवा विष्टिकर्त्री च विबुधस्तुता । वीणास्यवर्णितयशा वीचिमालाविलोलिता ॥ ७०॥ वीरव्रतरता वीरा वीतरागिजनैर्नुता । वेदिनी वेदवन्द्या च वेदवादिजनैः स्तुता ॥ ७१॥ वेणुवेलासमाकीर्णा वेणुसंवादनप्रिया । वैकुण्ठपतिसम्प्रीता वैकुण्ठलग्नवामिका ॥ ७२॥ वैज्ञानिकधियोर्लक्ष्या वैतृष्ण्यकारिवारिणी । वैधात्रनुतपादाब्जा वैविध्यप्रियमानसा ॥ ७३॥ शर्वरी शवरीप्रीता शयालुः शयनप्रिया । शत्रुसम्मोहिनी शत्रुबुद्धिघ्नी शत्रुघातिनी ॥ ७४॥ शान्भवी श्यामला श्यामा शारदाम्बा च शार्ङ्गिणी । शिवा शिवप्रिया शिष्टा शिष्टाचारानुमोदिनी ॥ ७५॥ शीघ्रा च शीतला शीतगन्धपुष्पादिमण्डिता । शुभान्वितजनैर्लभ्या शुनासीरादिसेविता ॥ ७६॥ शूलिनी शूलघृक्पूज्या शूलादिहरवारिणी । श‍ृङ्गाररञ्जिताङ्गा च श‍ृङ्गारप्रियनिम्नगा ॥ ७७॥ शैवलिनी शेषरूपा शेषशाय्यभिपूजिता । शोभना शोभनाङ्गा च शोकमोहनिवारिणी ॥ ७८॥ शौचप्रिया शौरिमाया शौनकादिमुनिस्तुता । शंसाप्रिया शङ्करी शङ्कराचार्यादिसेविता ॥ ७२॥ शंवर्धिनी षडारातिनिहन्त्री षट्कर्मिसंश्रया । सर्वदा सहजा सन्ध्या सगुणा सर्वपालिका ॥ ८०॥ सर्वस्वरूपा सर्वेज्या सर्वमान्या सदाशिवा । सर्वकर्त्रीं सर्वपात्री सर्वस्था सर्वधारिणी ॥ ८१॥ सर्वधर्मसुसन्धात्री सर्ववन्द्यपदाम्बुजा । सर्वकिल्बिषहन्त्री च सर्वभीतिनिवारिणी ॥ ८२॥ सावित्री सात्त्विका साध्वी साधुशीला च साक्षिणी । सिताश्मरप्रतीरा च सितकैरवमण्डिता ॥ ८३॥ सीमान्विता सीकराम्भःसीत्काराश्रयकूलिनी । सुन्दरी सुगमा सुस्था सुशीला च सुलोचना ॥ ८४॥ सुकेशी सुखदात्री च सुलभा सुस्थला सुधा । सुवाचिनी सुमाया च सुमुखा सुव्रता सुरा ॥ ८५॥ सुधार्णवस्वरूपा च सुधापूर्णा सुदर्शना । सूक्ष्माम्बरधरा सूतवर्णिता सूरिपूजिता ॥ ८६॥ सृष्टिवर्धिनी च सृष्टिकर्तृभिः परिपूजिता । सेवाप्रिया सेवधिनी सेतुबन्धादिमण्डिता ॥ ८७॥ सैकतक्षोणिकूला च सैरिभादिसुखप्रिया । सोमरूपा सोमदात्री सोमशेखरमानिता ॥ ८८॥ सौरस्यपूर्णसलिला सौमेधिकजनाश्रया । सौशील्यमण्डिता सौम्या सौराज्यसुखदायिनी ॥ ८९॥ सौजन्ययुक्तसुलभा सौमङ्गल्यादिवर्धिनी । सौभाग्यदाननिपुणा सौख्यसिन्धुविहारिणी ॥ ९०॥ संविधानपरा संवित्सम्भाव्यपददायिनी । संश्लिष्टाम्बुधिसर्वाङ्गा सन्निधेयजलाश्रया ॥ ९१॥ हरिप्रिया हंसरूपा हर्वसंवर्धिनी हरा । हनुमत्प्रीतिमापन्ना हरिद्भूमिविराजिता ॥ ९२॥ हाटकालङ्कारभूषा च हार्यसद्गुणमण्डिता । हितसंस्पर्शसलिला हिमांशुप्रतिबिम्बिता ॥ ९३॥ हीरकद्युतियुक्ता च हीनकर्मविगर्हिता । हुतिकर्तृद्विजाधारा हूश्छर्दनक्षयकारिणी ॥ ९४॥ हृदयालुस्वभावा च हृद्यसद्गुणमण्डिता । हेमवर्णाभवसना हेमकञ्चुकिधारिणी ॥ ९५॥ होतृणां प्रियकूला च होम्यद्रव्यसुगर्भिता । हंसा हंसस्वरूपा च हंसिका हंसगामिनी ॥ ९६॥ क्षमारूपा क्षमापूज्या क्षमापृष्ठप्रवाहिनी । क्षमाकर्त्री क्षमोद्धर्त्री क्षमादिगुणमण्डिता ॥ ९७॥ क्षररूपा क्षरा चैव क्षरवस्त्वाश्रया तथा । क्षपाकरकरोल्लासिनी क्षपाचरहारिणी ॥ ९८॥ क्षान्ता क्षान्तिगुणोपेता क्षामादिपरिहारिणी । क्षिप्रगा क्षित्यलङ्कारा क्षितिपालसमाहिता ॥ ९९॥ क्षीणायुर्जनपीयूषा क्षीणकिल्बिषसेविता । क्षेत्रियादिनियन्त्री च क्षेमकार्यसुतत्परा ॥ १००॥ क्षेत्रसंवर्धिनी चैव क्षेत्रैकजीवनाश्रया । क्षोणीभृदावृतपदा क्षौमाम्बरविभूषिता ॥ १०१॥ क्षन्तव्यगुणगम्भीरा क्षन्तुकर्मैकतत्परा । ज्ञप्तिवर्धनशीला च ज्ञस्वरूपा ज्ञमातृका ॥ १०२॥ ज्ञानस्वरूपव्यक्ता च ज्ञातृसंवर्धिनी तथा । अम्बाशोकाऽञ्जना चैव अनिरुद्धाग्निस्वरूपिणी ॥ १०३॥ अनेकात्मस्वरूपा चामरेश्वरसुपूजिता । अव्ययाक्षररूपा चापाराऽगाधस्वरूपिणी ॥ १०४॥ अव्याहतप्रवाहा च ह्यविश्रान्तक्रियात्मिका । आदिशक्तिरादिमाया आकीर्णनिजरूपिणी ॥ १०५॥ आदृतात्मस्वरूपा चामोदपूर्णवपुष्मती । आसमन्तादार्षपादा ह्यामोदनसुपूर्णभूः ॥ १०६॥ आतङ्कदारणगतिरालस्यवाहनस्थिता । इष्टदानमहोदारा इष्टयोग्यसुभूस्तुता ॥ १०७॥ इन्दिरारमणाराध्या इन्दुधृक्पूजनारता । इन्द्राद्यमरवन्द्याङ्घ्रिरिङ्गितार्थप्रदायिनी ॥ १०८॥ ईश्वरी चेतिहन्त्री च ईतिभीतिनिवारिणी । ईप्सूनां कल्पवल्लरिरुक्थशीलवती तथा ॥ १०९॥ उत्तानगतिवाहा चोच्चोच्चावचपदापगा । उत्साहिजनसंसेव्या चोत्फुल्लतरुकूलिनी ॥ ११०॥ ऊर्जस्विनी चोर्जिता च ऊर्ध्वलोकप्रदायिनी । ऋणहर्तृस्तोत्रतुष्टा ऋद्धितार्णनिवारिणी ॥ १११॥ ऐष्टव्यपदसन्धात्री ऐहिकामुष्मिकार्थदा । ओजस्विनी ह्योजोवती ह्यौदार्यगुणभाजिनी ॥ ११२॥ कल्याणी कमला कञ्जधारिणी कमलावती । कमनीयस्वरूपा च कटकाभरणान्यिता ॥ ११३॥ काशी काञ्ची च कावेरी कामदा कार्यवर्धिनी । कामाक्षी कामिनी कान्तिः कामातिसुन्दराङ्गिका ॥ ११४॥ कार्तवीर्यक्रीडिताङ्गा कार्तवीर्यप्रबोधिनी । किरीटकुण्डलालङ्कारार्चिता किङ्करार्थदा ॥ ११५॥ कीर्तनीयगुणागारा कीर्तनप्रियमानसा । कुशावर्तनिवासा च कुमारी कुलपालिका ॥ ११६॥ कुरुकुल्ला कुण्डलिनी कुम्भा कुम्भीरवाहिनी । कूपिका कूर्दनवती कूपा कूपारसङ्गता ॥ ११७॥ कृतवीर्यविलासाढ्या कृष्णा कृष्णगताश्रया । केदारावृतमूभागा केकीशुकपिकाश्रया ॥ ११८॥ कैलासनाथसन्धात्री कैवल्यदा च कैटभा । कोशला कोविदनुता कोमला कोकिलस्वना ॥ ११९॥ कौशेयी कौशिकप्रीता कौशिकागारवासिनी । कञ्जाक्षी कञ्जवदना कञ्जपुष्पसदाप्रिया ॥ १२०॥ कञ्जकाननसञ्चारी कञ्जमालासुसन्धृता ॥ खगासनप्रिया खड्गपाणिनी खर्परायुधा ॥ १२१॥ खलहन्त्री च खट्वाङ्गधारिणी खगगामिनी । खादिपञ्चमहाभूतरूपा खवर्धनक्षमा ॥ १२२॥ गणतोषिणी गम्भीरा गणमान्या गणाधिपा । गणसंरक्षणपरा गणस्था गणयन्त्रिणी ॥ १२३॥ गण्डकी गन्धसलिला गङ्गा च गरुडप्रिया । गलगण्डापहर्त्री च गदहारिसुवारिणी ॥ १२४॥ गायत्री चैव तस्याग्रे गाधेयार्चितसत्पदा । गाथाप्रिया गाढवहा गारुत्मततटाकिनी ॥ १२५॥ गिरिजा गिरीशतनया गिरीशप्रेमवर्धिनी । गीर्वाणी गीष्पतिनुता गीतिकाप्रियमानसा ॥ १२६॥ गुडाकेशार्चनपरा गुरूरहःप्रवाहिनी । गेही सर्वार्थदात्री च गेयोत्तमगुणान्यिता ॥ १२७॥ गोधना गोपना गोपी गोपालकसदाप्रिया । गोत्रप्रिया गोपवृता गोकुलावृतसत्तटा ॥ १२८॥ गौरी गौराङ्गिणी गौरा गौतमी गौतमप्रिया । घनप्रिया घनरवा घनौघा घनवर्धिनी ॥ १२९॥ घनार्तिहर्त्री घनरुक्परिहर्त्री घनद्युतिः । घनपापौघसंहर्त्री घनक्लेशनिवारिणी ॥ १३०॥ घनसारार्तिकप्रीता घनसम्मोहहारिणी । घर्माम्बुपरिहर्त्री च घर्मान्तघर्महारिणी ॥ १३१॥ घर्मान्तकालसङ्क्षीणा घनागमसुहर्षिणी । घट्टद्विपार्श्वानुगता घट्टिनी घट्टभूषिता ॥ १३२॥ चतुरा चन्द्रवदना चन्द्रिकोल्लासचञ्चला । चम्पकादर्शचार्वङ्गी चपला चम्पकप्रिया ॥ १३३॥ चलत्कुण्डलचिन्मौलिचक्षुषी चन्दनप्रिया । चण्डमुण्डनिहन्त्री च चण्डिका चण्डविक्रमा ॥ १३४॥ चारुरूपा चारुगात्री चारुचन्द्रसमानना । चार्वीक्षणा चारुनासा चारुपट्टांशुकावृता ॥ १३५॥ चारुचन्दनलिप्ताङ्गा चार्वलङ्कारमण्डिता । चामीकरसुशोभाढ्या चापखर्परधारिणी ॥ १३६॥ चारुनक्रवरस्था च चातुराश्रम्यजीविनी । चित्रिताम्बरसम्भूषा चित्रा चित्रकलाप्रिया ॥ १३७॥ चीनकार्तिक्यसम्प्रीता चीर्णचारित्रमण्डना । चुलुम्बकरणासक्ता चुम्बनास्वादतत्परा ॥ १३८॥ चूडामणिसुशोभाढ्या चूडालङ्कृतपाणिनी । चूलकादिसुभक्ष्या च चूष्यास्वादनतत्परा ॥ १३९॥ चेतोहरस्वरूपा च चेतोविस्मयकारिणी । चेतसां मोदयित्री च चेतसामतिपारगा ॥ १४०॥ चैतन्यघटिताङ्गा च चैतन्यलीनभाविनी । चोक्ष्यव्यवहारवती चोद्यप्रकृतिरूपिणी ॥ १४१॥ चोक्ष्यस्वरूपा चोक्ष्याङ्गी चोक्ष्यात्मनां समीपिनी । छत्ररूपा छटाकारा छर्दिनी छत्रकान्विता ॥ १४२॥ छत्रप्रिया छन्नमुखी छन्दोनुतयशस्विनी । छान्दसाश्रितसत्कूला छायाग्राह्या छिद्रात्मिका ॥ १४३॥ var चिदात्मिका जनयित्री च जननी जगन्माता जनार्तिहा । जयरूपा जगदद्धात्री जवना जनरञ्जना ॥ १४४॥ जगज्जेत्री च जगदानन्दिनी जगदम्बिका । जनशोकहरा जन्तुजीविनी जलदायिनी ॥ १४५॥ जडताघप्रशमनी जगच्छान्तिविधायिनी । जनेश्वरनिवासिनी जलेन्धनसमन्विता ॥ १४६॥ जलकण्टकसंयुक्ता जलसङ्क्षोभकारिणी । जलशायिप्रिया जन्मपाविनी जलमूर्तिनी ॥ १४७॥ जलायुतप्रपाता च जगत्पालनतत्परा । जानकी जाह्नवी जाड्यहन्त्री जानपदाश्रया ॥ १४८॥ जिज्ञासुजनजिज्ञास्या जितेन्द्रियसुगोचरा । जीवानां जन्महेतुश्च जीवनाधाररूपिणी ॥ १४९॥ झषसङ्ख्याकुलाधानी झषराजायुताकुला । झञ्झनध्यनिप्रीता च झञ्झानिलसमर्दिता ॥ १५०॥ टट्टरश्रवणप्रीता ठक्कुरश्रवणप्रिया । डयनारोहसञ्चारी डमरीवाद्यसत्प्रिया ॥ १५१॥ डाङ्कृतध्वनिसम्प्रीता डिम्बिकाग्रहणोद्यता । ढुण्ढिराजप्रियकरा ढुण्ढिराजप्रपूजिता ॥ १५२॥ तन्तुवाद्यप्रिया तन्त्री तन्त्रिणी तपमानिनी । तरङ्गिणी च तटिनी तरुणी च तपस्विनी ॥ १५३॥ तपिनी च तमोहन्त्री तपती तत्त्ववेदिनी । तत्त्वप्रिया च तन्वङ्गी तपोऽर्थीयसुभूमिका ॥ १५४॥ तपश्चर्यावतां त्रात्री तपिष्णुजनवारिणी । तन्द्रादिविघ्नसंहर्त्री तमोजालनिवारिणी ॥ १५५॥ तापत्रितयसंहर्त्री तापापहारिवारिणी । तितिक्षुजनसंवासा तितिक्षावृत्तिवर्धिनी ॥ १५६॥ तीव्रस्यन्दा तीव्रगा च तीर्थभूस्तीर्थिकाश्रया । तुङ्गकेशरकूलाढ्या तुरासाहादिभिर्नुता ॥ १५७॥ तुर्यार्थदाननिपुणा तूर्णिनी तूर्णरंहिणी । तेजोमयी तेजसोऽब्धिरिति नामसमर्चिता ॥ १५८॥ तैजसानामथिष्ठात्री तैतिक्षूणां सहायिका । तोषवार्धिश्च तोषैकगुणिनी तोषभाजिनी ॥ १५९॥ तोषिकान्वितभूयुक्तपृष्ठिनीपदसंयुता । दत्तहस्ता दर्पहरा दमयन्ती दयार्णवा ॥ १६०॥ दर्शनीया दर्शयित्री दक्षिणोत्तरकूलिनी । दस्युहन्त्री दुर्भरिणी दयादक्षा च दर्शिनी ॥ १६१॥ दानपूज्या तथा चैव दानमानसुतोषिता । दारकौघवती दात्री दारुणार्तिनिवारिणी ॥ १६२॥ दारिद्र्यदुःखसंहर्त्री दानवानीकनाशिनी । दिण्डीरस्वनसन्तुष्टा दिवौकससमर्चिता ॥ १६३॥ दीनानां धनसन्दात्री दीनदैन्यनिवारिणी । दीप्तदीपोल्लासवती दीपाराधनसत्प्रिया ॥ १६४॥ दुरारातिहरा दुःखहन्त्री दुर्वासःसन्नुता । दुर्लभा दुर्गतिहरा दुःखार्तिविनिवारिणी ॥ १६५॥ दुर्वारवारिनिवहा दुर्गा दुर्भिक्षहारिणी । दुर्गरूपा च दुरन्तदूरा दुष्कृतिहारिणी ॥ १६६॥ दूनदुःखनिहन्त्री च दूरदर्शिनिषेविता । धन्या धनेशमान्या च धनदा धनवर्धिनी ॥ १६७॥ धरणीधरमान्या च धर्मकर्मसुवर्धिनी । धामिनी धामपूज्या च धारिणी धातुजीविनी ॥ १६८॥ धाराधरी धावका च धार्मिका धातुवर्धिनी । धात्री च धारणारूपा धावल्यपूर्णवारिणी ॥ १६९॥ धिप्सुकापट्यहन्त्री च धिषणेन सुपूजिता । धिष्ण्यवती धिक्कृतांहा धिक्कृताततकर्दमा ॥ १७०॥ धीरा च धीमती धीदा धीरोदात्तगुणान्विता । धुतकल्मषजाला च धुरीणा धुर्वहा धुनी ॥ १७१॥ धूर्तकैतवहारिणी धूलिव्यूहप्रवाहिनी । धूम्राक्षहारिणी धूमा धृष्टगर्वापहा धृतिः ॥ १७२॥ धृतात्मनी धृतिमती धृतिपूज्यशिवोदरा । धेनुसङ्गतसर्वाङ्गा ध्येया धेनुकजीविनी ॥ १७३॥ नानारूपवती नानाधर्मकर्मस्वरूपिणी । नानार्थपूर्णावतारा सर्वनामस्वरूपिणी ॥ १७४॥ ॥ ॐ श्रीनर्मदार्पणमस्तु ॥