अक्षर आकार:

नर्मदाष्टकम्

Narmadashtakam

नर्मदाष्टकम्

श्रीनर्मदे सकल-दुःखहरे पवित्रे ईशान-नन्दिनि कृपाकरि देवि धन्ये । रेवे गिरीन्द्र-तनयातनये वदान्ये धर्मानुराग-रसिके सततं नमस्ते ॥ १॥ विन्ध्याद्रिमेकलसुते विदितप्रभावे शान्ते प्रशान्तजन-सेवितपादपद्मे । भक्तार्तिहारिणि मनोहर-दिव्यधारे सोमोद्भवे मयि निधेहि कृपाकटाक्षम् ॥ २॥ आमेकलादपर-सिन्धु-तरङ्गमाला यावद् बृहद् -विमल -वारि-विशालधारा । सर्वत्र धार्मिकजनाऽऽप्लुततीर्थदेशा श्रीनर्मदा दिशतु मे निजभक्तिमीशा ॥ ३॥ सर्वाः शिला यदनुषङ्गमवाप्य लोला विश्वेशरूपमधिगम्य चमत्कृताङ्गाः । पूज्या भवन्ति जगतां स-सुराऽसुराणां तस्यै नमोऽस्तु सततं गिरिशाङ्गजायै ॥ ४॥ यस्यास्तटीमुभयतः कृतसन्निवेशा देशाः समीर-जलबिन्दु-कृताभिषेकाः । सोत्कण्ठ-देवगण-वर्णितपुण्यमालाः श्रीभारतस्य गुणगौरवमुद्गृणन्ति ॥ ५॥ स्वास्थ्याय सर्वविधये धन-धान्य-सिध्यै वृद्धिप्रभावनिधये जनजागरायै । दिव्यावबोधविभवाय महेश्वरायै भूयो नमोऽस्तु वरमञ्जुलमङ्गलायै ॥ ६॥ कल्याण-मङ्गल-समुज्ज्वल-मञ्जुलायै पीयूषसार-सरसीरुह-राजहंस्यै । मन्दाकिनी-कनक-नीरज-पूजितायै स्तोत्रार्चनान्यमर-कण्टक-कन्यकायै ॥ ७॥ श्यामां मुग्धसुधा-मयूरवदनां रत्नोज्जवलालङ्कृतिं रामां फुल्ल-सहस्रपत्रनयनां हासोल्लसन्तीं शिवाम् । वामां बाहुविशाल-वल्लिवलया-लोलाङ्गुलीपल्लवां लालित्योल्लसितालकावलिकलां श्रीनर्मदां भावये ॥ ८॥ श्रीनर्मदाङ्घ्रि-सरसीरुह-राजहंसी स्तोत्राष्टकावलिरियं कलगीतवंशी । संवाद्यतेऽनुदिनमेकसमां भजद्भि- र्यैस्ते भवन्ति जगदम्बिकयाऽनुकम्प्याः ॥ ९॥ काशीपीठाधिनाथेन शङ्कराचार्यभिक्षुणा । कृता महेश्वरानन्द-स्वामिनाऽऽस्तां सतां मुदे ॥ १०॥ इति काशीपीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-स्वामि- श्रीमहेश्वरानन्द-सरस्वती-विरचितं नर्मदाष्टकं सम्पूर्णम् ।