अक्षर आकार:

मोहिन्यर्गलास्तोत्रम्

mohinyargalAstotram

मोहिन्यर्गलास्तोत्रम्

श्रीगणेशाय नमः ॥ देवा ऊचुः । जय मङ्गलरूपे त्व जय त्वं भक्तवत्सले । जय सौदर्यनिलये जय कारुण्यवारिधे ॥ १॥ महालये भो करुणालये मां त्वं त्राहि दीनार्तिहरे प्रपन्नम् । त्वत्पादपद्मावनतोत्तमाङ्गं प्रसीद नित्यं वरदे शरण्ये ॥ २॥ त्वं विष्णुरूपिणी देवि त्वं च रुद्रस्वरूपिणी । त्वं ब्राह्मी त्वं च शर्वाणी त्वमिन्द्राणीति गीयसे ॥ ३॥ त्वं कल्याणी च श्रीर्वाणी सैंहिकेयविदारिणी । त्वमिन्द्राणी च सौपर्णी काद्रवेयविदारिणी ॥ ४॥ वैकुण्ठपदनिःश्रेणी निर्जराणां तरङ्गिणी । गङ्गाधरस्य रमणी निधिवासप्रवासिनी ॥ ५॥ संहारिणी च विपदां सम्पत्सन्ततिकारिणी । भवपाशमहापाशगेहपाशविदारिणी ॥ ६॥ स्कन्द उवाच । इति ते त्रिदशाः स्तुत्वा जनार्दनमनन्तरम् । स्त्रीरूपेणातिशोभाढ्यं मोहिनीरूपकं जगुः ॥ ७॥ देवा ऊचुः । श‍ृङ्गारलावण्यसमुद्ररूपिणी स्वरूपशोभारतिकोटिजित्वरा । त्वमेव कामीप्सितदातृदानदा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ८॥ प्रतारणाभिज्ञतमा सुरारिणां नमः शिरश्छेदनकारिविक्रमा । स्वरूपसम्मोहितदानवव्रजा देवी मुदा रक्षतु दैत्यमोहिनी ॥ ९॥ ददाति दोर्भ्यामपि या चतुर्भुजा श्रियं हितत्रेतिविभूषणाङ्कनैः । आपत्तिदारिद्र्यविनाशकारिणी देवी मुदा रक्षनु दैत्यमोहिनी ॥ १०॥ पीयूषदात्री सुतनुर्दिवौकसां दितेः सुतानां च सुराप्रदात्री । गृहीतमाया मयकामिनीवपुर्देवी मुदा रक्षतु दैत्यमोहिनी ॥ ११॥ सुवर्णपङ्केरुहकेतकीश्रियं शरीरवर्णेन च जित्वरा प्रसूः । स्वकण्ठधिक्कारितवल्लकीगुणा देवी मुदा रक्षतु दैत्यमोहिनी ॥ १२॥ स्वदीप्तकोटीन्दुकृतप्रभाश्रया प्रभाविनी दैवतकामपूरिणी । अखण्डमाखण्डलनिर्जरस्तुता देवी मुदा रक्षतु दैत्यमोहिनी ॥ १३॥ यस्याः प्रभावं द्विसहस्रजिह्वः सहस्रवक्त्रोऽप्युरगाधिराजः । वक्तुं प्रभुर्न क्व तदेतरे जना देवी मुदा रक्षतु दैत्यमोहिनी ॥ १४॥ स्कन्द उवाच । इति स्तुता तैस्त्रिदशैः स्वभावैः सा मोहिनीरूपमधोक्षजस्य । उवाच वाक्यं विनयप्रसन्ना श्लक्ष्णं तदा तान्प्रणतानुदारान् ॥ १५॥ मोहिन्युवाच । आदौ पुरुषरूपेण संस्तुतोऽहं जनार्दनः । ततः सीमन्तिनीरूपा भवद्भिर्मोहिनी स्तुता ॥ १६॥ अथ चैष महापुण्यपुरुषप्रकृतिस्तवः । य एनं पठते नित्यं प्रातरुत्थाय मानवः ॥ १७॥ मत्समीपे विशेषेण शुचिर्भूत्वा धृतव्रतः । न दारिद्र्यं भवेत्तस्य न सङ्कटमवाप्नुयात् ॥ १८॥ आरोग्यं सततं गच्छेन्न स रोगैः प्रबाधते । भूतप्रेतपिशाचानां न बाधाभिः स भूयते ॥ १९॥ मरणेऽपि शुभाँल्लोकान्प्राप्नोतीति विनिश्चितम् । इदं क्षेत्रं महापुण्यं वृद्धातीरमिति श्रुतम् ॥ २०॥ विशेषेणाधुना जातं युष्मत्पङ्क्तिनिषेवणात् । महालयेति विख्यातिं याताऽहं मोहिनी स्वयम् ॥ २१॥ वसाम्यत्र सुराः सर्वे भवन्तोऽपि वसिष्यथ । त्रिरात्रं मत्समीपे यो मोहिन्या अर्गलास्तवम् ॥ २२॥ सदा पठति सश्रद्धस्तस्याहं वाञ्छितप्रदा । मद्दर्शनकृतां पुंसां मुक्तिरेव न संशयः ॥ २३॥ इति श्रीमोहिन्यर्गलास्तोत्रं सम्पूर्णम् ।