अक्षर आकार:

श्रीमेनकानन्दिनीस्तोत्रम्

Shri MenaKAnandinistotram

श्रीमेनकानन्दिनीस्तोत्रम्

गीर्वाणाखिलसम्पदम्बुजवनप्रोन्मूलनाकौतुकि- प्रौढोन्मत्तकरीन्द्रसैरिभवधक्रीडाप्रसन्नानना । देवैराप्तमनोरथैरतिगतक्लेशैर्मुहुर्वन्दिता विश्वत्राणपरायणा विजयते श्रीमेनकानन्दिनी ॥ १॥ निःशेषामरवाहिनीकरिघटाशार्दूलविक्रीडित- प्रौढाहङ्कृतिचण्डमुण्डहननेनाह्लादयन्ती सुरान् । भक्ताभीष्टविधानकल्पलतिका कारुण्यवारान्निधिः श्रीश्रीकण्ठगृहप्रभा विजयते श्रीमेनकानन्दिनी ॥ २॥ लीलोन्मूलितदानवारिनिकराखण्डप्रतापोन्मदो- द्गर्जच्छुम्भनिशुम्भदैत्यमृगयाहर्षस्मितास्याम्बुजा । इन्द्रोपेन्द्रसमर्चिताङ्घ्रिकमला वन्दारुचिन्तामणिः श्रीमच्छम्भुकुटुम्बिनी विजयते श्रीमेनकानन्दिनी ॥ ३॥ या शक्तिर्मधुकैटभादिहनने विष्णुं चकारास्पदं गीर्वाणाधिपतिं निलिम्पबलभिद्वृत्रादिकोन्मूलने । देवद्रावणविश्रुतासुरवधे दैत्यारिसेनापतिं सा बाधौघविनाशिनी विजयते श्रीमेनकानन्दिनी ॥ ४॥ श्रद्धा तर्कवतां क्षमा बलवतां सम्पद्वतां नम्रता शान्तिः सन्त्यजतां धृतिः प्रयततां भक्तिर्भवे जानताम् । याऽऽपन्नार्तिहरा हराभिलषिता तापत्रयोन्मूलिनी सा सौभाग्यविधायिनी विजयते श्रीमेनकानन्दिनी ॥ ५॥ यामाहुर्निगमाः सदादिवचनैः सृष्टेः पुरा केवलां या चेतोतिगतप्रपञ्चरचनामन्यानपेक्षा व्यधात् । अन्ते स्वात्मनि सन्निवेश्य निखिलं तिष्ठत्यखिन्नप्रभा सा प्रत्यक्चितिरच्युता विजयते श्रीमेनकानन्दिनी ॥ ६॥ शैलेन्द्रजास्तवमिमं व्यदधात्प्रबोधा- नन्दो गिरीन्द्रतनयाकरुणैकपात्रः । आनन्दसन्ततिमयं तनुतान्नराणां गौरीपदाम्बुजमधुव्रतमानसानाम् ॥ ७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं श्रीमेनकानन्दिनीस्तोत्रं समाप्तम् ॥