अक्षर आकार:

मन्त्रमानसिकस्नानस्तोत्रम्

Mantramanasikasnana Stotram

मन्त्रमानसिकस्नानस्तोत्रम्

सङ्कल्पम् । ॐ अलिनीलघनश्यामं नलिनायतलोचनम् । स्मरामि पुण्डरीकाक्षं तेन स्नातो भवाम्यहम् ॥ ध्यानम् । अनन्तादित्य सङ्काशं वासुदेवं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ श्यामलं शान्तहृदयं प्रसन्नवदनं शुभम् । दिव्यचन्दनलिप्ताङ्गं चारुहासं सुवीक्षणम् । वनमालापरिवृतं नारदादिभिरर्चितम् ॥ सुवर्णकङ्कणैर्दीप्तं किङ्किणीभिर्विराजितम् । केयूरहारिणं देवं सुवर्णमकुटोज्ज्वलम् । अनेकरत्नसञ्छन्न स्फुरन्मकरकुण्डलम् ॥ पादपद्मसुशोभितम् । तत्पादपङ्कजाद्गङ्गां प्रवहन्तीं स्वमूर्धनि । चिन्तये ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकां तनुम् ॥ तया संक्षालये देहं बाह्यमाभ्यन्तरं मलम् । अन्तर्बहिश्च शुद्ध्यन्तं बाह्यमभ्यन्तराणि च ॥ मन्त्रम् । ॐ - नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्त्रिपथगामिन्यै मन्त्रमूर्त्यै नमो नमः ॥ अच्युतो हमनन्तो हं गोविन्दो हमहं हरिः । आनादो हमशेषो हं अजो हममृतो स्म्यहम् ॥ नित्यो हं निर्विकल्पो हं निराकारो हमव्ययः । सच्चिदानन्दरूपो हं परिपूर्णो स्म्यहं सदा ॥ परिभाषा - इडा भागीरथी गङ्गा पिङ्गला यमुना स्मृता । तयोर्मध्ये गता नाडी सुषुम्नाऽऽख्या सरस्वती ॥ ध्यानह्रदे ज्ञानजले रागद्वेषमलापहे । यो स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ फलश्रुतिः - इदं मानसिकस्नानं प्रोक्तं हरिहरादिभिः । सार्धत्रिकोटि तीर्थेषु स्नानात्कोटिगुणाधिकम् ॥ यो नित्यमाचरेदेवं स वै नारायणः स्मृतः । कालमृत्युमतिक्रम्य जीवत्येव न संशयः ॥ इति मन्त्रमानसिकस्नानस्तोत्रं सम्पूर्णम् ।