अक्षर आकार:

मणिकर्णिकाष्टकम्

Hymn to River Manikarnika

मणिकर्णिकाष्टकम्

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात् तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ १॥ इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन र्जायन्ते मनुजास्ततोपि पशवः कीटाः पतङ्गादयः । ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ २॥ काशी धन्यतमा विमुक्तनगरी सालंकृता गङ्गया तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी । स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ ३॥ गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः । देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं पूर्वोपार्जितपुण्यपुञ्जगमकं पुण्यैर्जनैः प्राप्यते ॥ ४॥ दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृतिः ज्ञात्वा तद्वि विरिञ्चिना विरचिता वाराणसी शर्मदा । लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगान्तपातप्रदाः काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५॥ एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः योऽप्येकः किल शंकरो विषधरो गङ्गाधरो माधवः । ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६॥ त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाध्यते शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः । आयान्तं सविता सहस्रकिरणैः प्रत्युग्दतोऽभूत्सदा पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥ ७॥ मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः । योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारंगतः त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८॥ कृच्छैर्ः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् । स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मणिकर्णिकाष्टकं सम्पूर्णम् ॥