अक्षर आकार:

श्रीमङ्गलनायिकाष्टकम्

Shri Mangalanayika Ashtakam

श्रीमङ्गलनायिकाष्टकम्

अम्बामम्बुजधारिणीं सुरनुतामर्धेन्दुभूषोज्ज्वलां आधारादि समस्तपीठनिलयामम्भोजमध्यस्थिताम् । नित्यं सज्जनवन्द्यमानचरणां नीलालकश्रोणितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे । १॥ आद्यामागमशास्त्ररत्नविनुतामार्यां परां देवतां आनन्दाम्बुधिवासिनीं परशिवामानन्दपूर्णाननाम् । आब्रह्मादि पिपीलिकान्तजननीमाखण्डालाद्यर्चितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ २॥ इन्द्राण्यादि समस्तशक्तिसहितामिन्दीवरश्यामलां इन्द्रोपेन्द्रवरप्रदामिननुतामिष्टार्थसिद्धिप्रदाम् । ईकाराक्षररूपिणीं गिरिसुतामीकारवर्णात्मिकां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ३॥ उद्यद्भानुसहस्रकोटिसदृशीं केयूरहारोज्ज्वलां ऊर्ध्वस्वन्मणिमेखलां त्रिनयनामूष्मापहारोज्ज्वलाम् । ऊहापोहविवेकवाद्यनिलयामूढ्याणपीठस्थितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ४॥ ऋक्षाधीशकलान्वितामृतुनुतामृद्‍ध्यादिसंसेवितां नृणानां पापविमोचिनीं शुभकरीं वृत्रारिसंसेविताम् । लिङ्गाराधनतत्परां भयहारां क्लीङ्कारपीठस्थितां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ५॥ एनःकूटविनाशिनीं विधिनुतामेणाङ्कचूडप्रियां एलाचम्पकपुष्पगन्धिचिकुरामेकातपत्रोज्वलाम् । ऐकाराम्बुजपीठमध्यनिलयामैन्द्रादिलोकप्रदां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ६॥ ओघैरप्सरसां सदा परिवृतामोघत्रयाराधितां ओजोवर्द्धनतत्परां शिवपरामोङ्कारमन्त्रोज्ज्वलाम् । औदार्याकरपादपद्मयुगलामौत्सुख्यदात्रीं परां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ७॥ अर्काम्भोरुहवैरिवह्निनयनामक्षीणसौभाग्यदां अङ्गाकल्पितरत्नभूषणयुतामण्डौघसंसेविताम् । आज्ञाचक्रनिवासिनीं झलझलन्मञ्जीरपादाम्बुजां श्रीमन्मङ्गलनायिकां भगवतीं ताम्रातटस्थां भजे ॥ ८॥ श्रीमङ्गलाम्बा परदैवतं नः श्रीमङ्गलाम्बा परं धनं नः । श्रीमङ्गलाम्बा कुलदैवतं नः श्रीमङ्गलाम्बा परमा गतिर्नः ॥ अज्ञानिना मया दोषानशेषान्विहितान्शिवे । क्षमस्व त्वं क्षमस्व त्वं शैलराजसुतेऽम्बिके ॥ यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् । यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥ इति श्रीमङ्गलनायिकाष्टकं सम्पूर्णम् । Goddess Sri Mangalambal Temple is at Palamadai,Tirunelveli. Sri Neelakanda Dikshithar Adhisthanam is at Palamadai (Neelakanda samudram) which is a small village in TirunelveIi, A Saint (Name Unknown) 4th generation of Sri Neelakanda Dikshithar, has composed this Ashtakam upon Goddess Mangalambal.