अक्षर आकार:

श्रीमन्दाकिनीस्तोत्रम्

Shri Mandakini Stotram

श्रीमन्दाकिनीस्तोत्रम्

(रागः मारवा) जयतु जयतु मन्दाकिनि तव सलिलं धवलम् । नय विलयं भागीरथि नम दुरितं निखिलम् ॥ ध्रु ॥ शं तनु शन्तनुदयिते सदया भव भवपतिते शमय विषयमलमलिनं मे जननि मानसम् ॥ १॥ सुर-तटिनी सुर-सुखदा वसुजननी त्वं वसुधा अघनाशिनि सुखदा त्वं भवसि जननि सततम् ॥ २॥ मीना ये तव सलिले तरवस्तव ये पुलिने अमरा अपि काङक्षन्ते तद्भाग्यं विपुलम् ॥ ३॥ सुर-सेव्यं तव तीरं मधु-मधुरं तव नीरं भवतु सदा गङ्गे तव चरणं मम शरणम् ॥ ४॥ हरिचरणान्निर्याता हरशीर्षे विश्रान्ता अपनय मम मानस-मलमधुना त्वं प्रबलम् ॥ ५॥ हिम-शिशिरं विधु-धवलं पावनतरमतिरुचिरं विलसतु मम वदने तव गङ्गे जलमनिशम् ॥ ६॥ तव चरणे लीनोऽहं स्मरणे तव मग्नोऽहं शरणागतदीनं मां जननि पाहि तनयम् ॥ ७॥ भालचन्द्र-शीर्षस्था तनुषे त्वं मङ्गलतां नवसुषमां मन्दाकिनि वहसि त्वं रम्याम् ॥ ८॥ इति श्री आपटीकरविरचितं श्रीमन्दाकिनीस्तोत्रं सम्पूर्णम् ।