अक्षर आकार:

सर्पभयनाशक मनसास्तोत्रम्

sarpabhayanAshaka manasAstotram

सर्पभयनाशक मनसास्तोत्रम्

ध्यानं चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् । नागेन्द्रवाहिनीं देवीं सर्वविद्याविशारदाम् ॥ श्रीनारायण उवाच - नमः सिद्धिस्वरुपायै वरदायै नमो नमः । नमः कश्यपकन्यायै शंकरायै नमो नमः ॥ १॥ बालानां रक्षणकर्त्र्यै नागदेव्यै नमो नमः । नम आस्तीकमात्रे ते जरत्कार्व्यै नमो नमः ॥ २॥ तपस्विन्यै च योगिन्यै नागस्वस्रे नमो नमः । साध्व्यै तपस्यारुपायै शम्भुशिष्ये च ते नमः ॥ ३॥ ॥ फलश्रुतिः ॥ इति ते कथितं लक्ष्मि मनसाया स्तवं महत् । यः पठति नित्यमिदं श्रावयेद्वापि भक्तितः ॥ न तस्य सर्पभीतिर्वै विषोऽप्यमृतं भवति । वंशजानां नागभयं नास्ति श्रवणमात्रतः ॥ ॥ इति श्रीमनसास्तोत्रम् ॥ हे लक्ष्मी यह मनसा देवी का महान् स्तोत्र कहा है । जो नित्य भक्तिपूर्वक इसे पढता या सुनता है उसे साँपों का भय नहीं होता और विष भी अमृत हो जाता है । उसके वंश में जन्म लेनेवालों को इसके श्रवण मात्र से साँपों का भय नहीं होता ।