अक्षर आकार:

मनसादेवी द्वादशनामस्तोत्रम्

Manasa Devi Dvadashanama Stotram

मनसादेवी द्वादशनामस्तोत्रम्

ॐ नमो मनसायै । जरत्कारु जगद्गौरी मनसा सिद्धयोगिनी । वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ॥ १॥ जरत्कारुप्रियाऽऽस्तीकमाता विषहरीती च । महाज्ञानयुता चैव सा देवी विश्वपूजिता ॥ २॥ द्वादशैतानि नामानि पूजाकाले च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च ॥ ३॥ नागभीते च शयने नागग्रस्ते च मन्दिरे । नागभीते महादुर्गे नागवेष्टितविग्रहे ॥ ४॥ इदं स्तोत्रं पठित्वा तु मुञ्चते नात्रसंशयः । नित्यं पठेद्यः दृष्ट्वा नागवर्गः पलायते ॥ ५॥ नागौधं भूषणं कृत्वा स भवेत् नागवाहनाः । नागासनो नागतल्पो महासिद्धो भवेन्नरः ॥ ६॥ ॥ इति मनसादेवी द्वादशनामस्तोत्रं सम्पूर्णम् ॥