अक्षर आकार:

मनसादेवी स्तोत्रम्

Manasa Devi Stotram

मनसादेवी स्तोत्रम्

महेन्द्र उवाच । देवीं त्वां स्तोतुमिच्छामि साध्विनीं प्रवरां पराम् । परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ १॥ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् । न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ २॥ शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता । न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ ३॥ त्वं मया पूजिता साध्वि जननी च यथाऽदितिः । दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ ४॥ त्वया मे रक्षिताः प्राणाः पुत्रद्वाराः सुरेश्वरि । अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ ५॥ नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके । तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ ६॥ ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः । पञ्चम्यां मनसाऽऽख्यायां मासान्ते वा दिने दिने ॥ ७॥ पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च । यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ ८॥ ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः । लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ ९॥ त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला । नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ १०॥ तपसा तेजसा त्वां च मनसा ससृजे पिता । अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ ११॥ मनसा वेदितुं शक्ता चाऽऽत्मना सिद्धयोगिनी । तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ १२॥ यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् । तेन त्वं मनसादेवी प्रवदन्ति पुराविदः ॥ १३॥ सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया । यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ १४॥ इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् । तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । var तस्यवंशे भवेच्च यः विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ॥ १५॥ पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्ववाहनः ॥ १६॥ इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे मनसोपाख्याने श्रीमनसादेवी स्तोत्रं सम्पूर्णम् ॥