अक्षर आकार:

श्रीमलहानिकरेश्वरस्तुतिः

Shri Malahanikareshvarastutih

श्रीमलहानिकरेश्वरस्तुतिः

(श्रीश‍ृङ्गगिरौ - श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे) स्वग्रामगमनवाच्छा सर्वेषां प्रकृतिसिद्धा हि । काशीयात्रा तस्मात्काशीश तवैव खलु युक्ता ॥ १॥ शीर्षान्मुक्ताहारव्याजात्स्वर्गापगा शम्भोः । गङ्गाधर विस्रस्ता नृत्यं किमु कुर्वतस्तवेशान ॥ २॥ शरदिन्दुसोदरमुखं करनिर्जितपङ्कजं कृपाम्भोधिम् । त्वां पश्यन्तं मामिह क्षुत्तृष्णे नैव बाधेते ॥ ३॥ सर्वाङ्गसुन्दर विभो करुणामृतपूरपूरितापङ्ग । त्वां चक्षुषी ममेमे न त्यजतः किं करोमि वद शम्भो ॥ ४॥ तस्मात्तवेयमनिशं मूर्तिः प्रस्फुरति चित्तकञ्जाते । यद्वत्तथा कुरु त्वं करुणां गिरिजाब्जशिशुभानो ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीमलहानिकरेश्वरस्तुतिः सम्पूर्णा ।