अक्षर आकार:

श्रीमहालक्ष्मीस्तोत्रम्

Shri Mahalakshmi Stotram

श्रीमहालक्ष्मीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ श्रीरूपायै च विद्महे । शुभदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ श्रींबीजपूजिते देवि हरिवक्षस्थलालये । सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥ १॥ विद्यालक्ष्मि सुधासारे ज्ञानलक्ष्मि वसुप्रदे । भद्रे लक्ष्मि नमस्तुभ्यं मोक्षलक्ष्मि प्रसीद मे ॥ २॥ सर्वलक्षणलक्षण्ये सौमङ्गल्यसुविग्रहे । स्वस्तिवाक् श्रीः शुचीरूपे शान्तिरूपे सुखास्पदे ॥ ३॥ अष्टैश्वर्यप्रदे लक्ष्मि अष्टलक्ष्मि सुपूजिते । नित्यैश्वर्यवरे लक्ष्मि नित्यानन्दस्वरूपिणि ॥ ४॥ धनधान्यसुसन्तानधैर्यसौन्दर्यरूपिणि । तनुरारोग्यसौभाग्यसानन्दसिद्धिदायिनि ॥ ५॥ उषोरागजये लक्ष्मि उषोगानप्रसादिनि । सन्ध्यासुरागसङ्गीते सन्ध्यादीपप्रकाशिनि ॥ ६॥ गीतवाद्यप्रिये लक्ष्मि गतकर्मजसत्पदे । ओङ्कारसदने मातः कुरुदृष्टिप्रसादनम् ॥ ७॥ नादोङ्कारस्वरूपे श्रीः सुनादस्वरसालये । नादसुस्वरमाधुर्ये नादान्तःप्रशमालये ॥ ८॥ मनःस्फूर्तिकरे लक्ष्मि मनःसारसवासिनि । मनःपुष्पार्चिते मातर्मनोमयमदम्बिके ॥ ९॥ आदिलक्ष्मि मदम्ब त्वं रक्ष मां कुरु त्वत्कृपाम् । आधिव्याध्यार्तिपङ्काद्विमोचनं कुरु शाश्वतम् ॥ १०॥ पङ्केरुहविशालाक्षि कटाक्षेण विमोचय । सदा मां पातु मालक्ष्मि सदा तिष्ठ मया सह ॥ ११॥ जन्ममृत्युजरातापजालाद्विमोचनं कुरु । कुरु मे त्वयि लीनं श्रीः कुरु जन्मनिवारणम् ॥ १२॥ इहसौख्ये सुमाङ्गल्ये परमोक्षप्रदायिनि । श्रीमन्नारायणानन्दे लक्ष्मि तुभ्यं नमो नमः ॥ १३॥ मङ्गलं श्रीमहालक्ष्म्यै शुभलक्ष्म्यै सुमङ्गलम् । मङ्गलं मङ्गलाङ्कायै मात्रे नित्यं सुमङ्गलम् ॥ १४॥ त्यागराजगुरुस्वामिशिष्यापुष्पाकृतस्तुतिः । महालक्ष्मीबहुप्रीता सुमाङ्गल्या शुभप्रदा ॥ १५॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीमहालक्ष्मीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan