अक्षर आकार:

श्रीमहालक्ष्मीसहस्रनामस्तोत्रम् अथवा कमलासहस्रनामस्तोत्रम्

shrI mahAlaxmI sahasranAma stotram

श्रीमहालक्ष्मीसहस्रनामस्तोत्रम् अथवा कमलासहस्रनामस्तोत्रम्

ॐ तामाह्वयामि सुभगां लक्ष्मीं त्रैलोक्यपूजिताम् । एह्येहि देवि पद्माक्षि पद्माकरकृतालये ॥ १॥ आगच्छागच्छ वरदे पश्य मां स्वेन चक्षुषा । आयाह्यायाहि धर्मार्थकाममोक्षमये शुभे ॥ २॥ एवंविधैः स्तुतिपदैः सत्यैः सत्यार्थसंस्तुता । कनीयसी महाभागा चन्द्रेण परमात्मना ॥ ३॥ निशाकरश्च सा देवी भ्रातरौ द्वौ पयोनिधेः । उत्पन्नमात्रौ तावास्तां शिवकेशवसंश्रितौ ॥ ४॥ सनत्कुमारस्तमृषिं समाभाष्य पुरातनम् । प्रोक्तवानितिहासं तु लक्ष्म्याः स्तोत्रमनुत्तमम् ॥ ५॥ अथेदृशान्महाघोराद् दारिद्र्यान्नरकात्कथम् । मुक्तिर्भवति लोकेऽस्मिन् दारिद्र्यं याति भस्मताम् ॥ ६॥ सनत्कुमार उवाच - पूर्वं कृतयुगे ब्रह्मा भगवान् सर्वलोककृत् । सृष्टिं नानाविधां कृत्वा पश्चाच्चि न्तामुपेयिवान् ॥ ७॥ किमाहाराः प्रजास्त्वेताः सम्भविष्यन्ति भूतले । तथैव चासां दारिद्र्यात्कथमुत्तरणं भवेत् ॥ ८॥ दारिद्र्यान्मरणं श्रेयस्ति्वति सञ्चिन्त्य चेतसि । क्षीरोदस्योत्तरे कूले जगाम कमलोद्भवः ॥ ९॥ तत्र तीव्रं तपस्तप्त्वा कदाचित्परमेश्वरम् । ददर्श पुण्डरीकाक्षं वासुदेवं जगद्गुरुम् ॥ १०॥ सर्वज्ञं सर्वशक्तीनां सर्वावासं सनातनम् । सर्वेश्वरं वासुदेवं विष्णुं लक्ष्मीपतिं प्रभुम् ॥ ११॥ सोमकोटिप्रतीकाशं क्षीरोद विमले जले । अनन्तभोगशयनं विश्रान्तं श्रीनिकेतनम् ॥ १२॥ कोटिसूर्यप्रतीकाशं महायोगेश्वरेश्वरम् । योगनिद्रारतं श्रीशं सर्वावासं सुरेश्वरम् ॥ १३॥ जगदुत्पत्तिसंहारस्थितिकारणकारणम् । लक्ष्म्यादि शक्तिकरणजातमण्डलमण्डितम् ॥ १४॥ आयुधैर्देहवद्भिश्च चक्राद्यैः परिवारितम् । दुर्निरीक्ष्यं सुरैः सिद्धः महायोनिशतैरपि ॥ १५॥ आधारं सर्वशक्तीनां परं तेजः सुदुस्सहम् । प्रबुद्ध ं देवमीशानं दृष्ट्वा कमलसम्भवः ॥ १६॥ शिरस्यञ्जलिमाधाय स्तोत्रं पूर्वमुवाच ह । मनोवाञ्छितसिद्धि ं त्वं पूरयस्व महेश्वर ॥ १७॥ जितं ते पुण्डरीक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥ १८॥ सर्वेश्वर जयानन्द सर्वावास परात्पर । प्रसीद मम भक्तस्य छिन्धि सन्देहजं तमः ॥ १९॥ एवं स्तुतः स भगवान् ब्रह्म णाऽव्यक्तजन्मना । प्रसादाभिमुखः प्राह हरिर्विश्रान्तलोचनः ॥ २०॥ श्रीभगवानुवाच - हिरण्यगर्भ तुष्टोऽस्मि ब्रूहि यत्तेऽभिवाञ्छितम् । तद्वक्ष्यामि न सन्देहो भक्तोऽसि मम सुव्रत ॥ २१॥ केशवाद्वचनं श्रुत्वा करुणाविष्टचेतनः । प्रत्युवाच महाबुद्धिर्भगवन्तं जनार्दनम् ॥ २२॥ चतुर्विधं भवस्यास्य भूतसर्गस्य केशव । परित्राणाय मे ब्रूहि रहस्यं परमाद्भुतम् ॥ २३॥ दारिद्र्यशमनं धन्यं मनोज्ञं पावनं परम् । सर्वेश्वर महाबुद्ध स्वरूपं भैरवं महत् ॥ २४॥ श्रियः सर्वातिशायिन्यास्तथा ज्ञानं च शाश्वतम् । नामानि चैव मुख्यानि यानि गौणानि चाच्युत ॥ २५॥ त्वद्वक्त्रकमलोत्थानि श्रेतुमिच्छामि तत्त्वतः । इति तस्य वचः श्रुत्वा प्रतिवाक्यमुवाच सः ॥ २६॥ श्रीभगवानुवाच - महाविभूतिसंयुक्ता षाड्गुण्यवपुषः प्रभो । भगवद्वासुदेवस्य नित्यं चैषाऽनपायिनी ॥ २७॥ एकैव वर्ततेऽभिन्ना ज्योत्स्नेव हिमदीधितेः । सर्वशक्त्यात्मिका चैव विश्वं व्याप्य व्यवस्थिता ॥ २८॥ सर्वैश्वर्यगुणोपेता नित्यशुद्धस्वरूपिणी । प्राणशक्तिः परा ह्येषा सर्वेषां प्राणिनां भुवि ॥ २९॥ शक्तीनां चैव सर्वासां योनिभूता परा कला । अहं तस्याः परं नाम्नां सहस्रमिदमुत्तमम् ॥ ३०॥ श‍ृणुष्वावहितो भूत्वा परमैश्वर्यभूतिदम् । देव्याख्यास्मृतिमात्रेण दारिद्र्यं याति भस्मताम् ॥ ३१॥ अथ महालक्ष्मीसहस्रनामस्तोत्रम् अथवा कमलासहस्रनामस्तोत्रम् । श्रीः पद्मा प्रकृतिः सत्त्वा शान्ता चिच्छक्तिरव्यया । केवला निष्कला शुद्धा व्यापिनी व्योमविग्रहा ॥ १॥ व्योमपद्मकृताधारा परा व्योमामृतोद्भवा । निर्व्योमा व्योममध्यस्था पञ्चव्योमपदाश्रिता ॥ २॥ अच्युता व्योमनिलया परमानन्दरूपिणी । नित्यशुद्धा नित्यतृप्ता निर्विकारा निरीक्षणा ॥ ३॥ ज्ञानशक्तिः कर्तृशक्तिर्भोक्तृशक्तिः शिखावहा । स्नेहाभासा निरानन्दा विभूतिर्विमलाचला ॥ ४॥ अनन्ता वैष्णवी व्यक्ता विश्वानन्दा विकासिनी । शक्तिर्विभिन्नसर्वार्तिः समुद्रपरितोषिणी ॥ ५॥ मूर्तिः सनातनी हार्दी निस्तरङ्गा निरामया । ज्ञानज्ञेया ज्ञानगम्या ज्ञानज्ञेयविकासिनी ॥ ६॥ स्वच्छन्दशक्तिर्गहना निष्कम्पार्चिः सुनिर्मला । स्वरूपा सर्वगा पारा बृंहिणी सुगुणोर्जिता ॥ ७॥ अकलङ्का निराधारा निःसंकल्पा निराश्रया । असंकीर्णा सुशान्ता च शाश्वती भासुरी स्थिरा ॥ ८॥ अनौपम्या निर्विकल्पा नियन्त्री यन्त्रवाहिनी । अभेद्या भेदिनी भिन्ना भारती वैखरी खगा ॥ ९॥ अग्राह्या ग्राहिका गूढा गम्भीरा विश्वगोपिनी । अनिर्देश्या प्रतिहता निर्बीजा पावनी परा ॥ १०॥ अप्रतर्क्या परिमिता भवभ्रान्तिविनाशिनी । एका द्विरूपा त्रिविधा असंख्याता सुरेश्वरी ॥ ११॥ सुप्रतिष्ठा महाधात्री स्थितिर्वृद्धिर्ध्रुवा गतिः । ईश्वरी महिमा ऋद्धिः प्रमोदा उज्ज्वलोद्यमा ॥ १२॥ अक्षया वर्द्धमाना च सुप्रकाशा विहङ्गमा । नीरजा जननी नित्या जया रोचिष्मती शुभा ॥ १३॥ तपोनुदा च ज्वाला च सुदीप्तिश्चांशुमालिनी । अप्रमेया त्रिधा सूक्ष्मा परा निर्वाणदायिनी ॥ १४॥ अवदाता सुशुद्धा च अमोघाख्या परम्परा । संधानकी शुद्धविद्या सर्वभूतमहेश्वरी ॥ १५॥ लक्ष्मीस्तुष्टिर्महाधीरा शान्तिरापूरणानवा । अनुग्रहा शक्तिराद्या जगज्ज्येष्ठा जगद्विधिः ॥ १६॥ सत्या प्रह्वा क्रिया योग्या अपर्णा ह्लादिनी शिवा । सम्पूर्णाह्लादिनी शुद्धा ज्योतिष्मत्यमृतावहा ॥ १७॥ रजोवत्यर्कप्रतिभाऽऽकर्षिणी कर्षिणी रसा । परा वसुमती देवी कान्तिः शान्तिर्मतिः कला ॥ १८॥ कला कलङ्करहिता विशालोद्दीपनी रतिः । सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ॥ १९॥ अमृतस्यन्दिनी जीवा जननी खण्डिका स्थिरा । धूमा कलावती पूर्णा भासुरा सुमतीरसा ॥ २०॥ शुद्धा ध्वनिः सृतिः सृष्टिर्विकृतिः कृष्टिरेव च । प्रापणी प्राणदा प्रह्वा विश्वा पाण्डुरवासिनी ॥ २१॥ अवनिर्वज्रनलिका चित्रा ब्रह्माण्डवासिनी । अनन्तरूपानन्तात्मानन्तस्थानन्तसम्भवा ॥ २२॥ महाशक्तिः प्राणशक्तिः प्राणदात्री ऋतम्भरा । महासमूहा निखिला इच्छाधारा सुखावहा ॥ २३॥ प्रत्यक्षलक्ष्मीर्निष्कम्पा प्ररोहाबुद्धिगोचरा । नानादेहा महावर्ता बहुदेहविकासिनी ॥ २४॥ सहस्राणी प्रधाना च न्यायवस्तुप्रकाशिका । सर्वाभिलाषपूर्णेच्छा सर्वा सर्वार्थभाषिणी ॥ २५॥ नानास्वरूपचिद्धात्री शब्दपूर्वा पुरातनी । व्यक्ताव्यक्ता जीवकेशा सर्वेच्छापरिपूरिता ॥ २६॥ संकल्पसिद्धा सांख्येया तत्त्वगर्भा धरावहा । भूतरूपा चित्स्वरूपा त्रिगुणा गुणगर्विता ॥ २७॥ प्रजापतीश्वरी रौद्री सर्वाधारा सुखावहा । कल्याणवाहिका कल्या कलिकल्मषनाशिनी ॥ २८॥ नीरूपोद्भिन्नसंताना सुयन्त्रा त्रिगुणालया । महामाया योगमाया महायोगेश्वरी प्रिया ॥ २९॥ महास्त्री विमला कीर्तिर्जया लक्ष्मीर्निरञ्जना । प्रकृतिर्भगवन्माया शक्तिर्निद्रा यशस्करी ॥ ३०॥ चिन्ता बुद्धिर्यशः प्रज्ञा शान्तिः सुप्रीतिवर्द्धिनी । प्रद्युम्नमाता साध्वी च सुखसौभाग्यसिद्धिदा ॥ ३१॥ काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा । सर्वातिशायिनी प्रीतिर्विश्वशक्तिर्महाबला ॥ ३२॥ वरिष्ठा विजया वीरा जयन्ती विजयप्रदा । हृद्गृहा गोपिनी गुह्या गणगन्धर्वसेविता ॥ ३३॥ योगीश्वरी योगमाया योगिनी योगसिद्धिदा । महायोगेश्वरवृता योगा योगेश्वरप्रिया ॥ ३४॥ ब्रह्मेन्द्ररुद्रनमिता सुरासुरवरप्रदा । त्रिवर्त्मगा त्रिलोकस्था त्रिविक्रमपदोद्भवा ॥ ३५॥ सुतारा तारिणी तारा दुर्गा संतारिणी परा । सुतारिणी तारयन्ती भूरितारेश्वरप्रभा ॥ ३६॥ गुह्यविद्या यज्ञविद्या महाविद्या सुशोभिता । अध्यात्मविद्या विघ्नेशी पद्मस्था परमेष्ठिनी ॥ ३७॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिर्नयात्मिका । गौरी वागीश्वरी गोप्त्री गायत्री कमलोद्भवा ॥ ३८॥ विश्वम्भरा विश्वरूपा विश्वमाता वसुप्रदा । सिद्धिः स्वाहा स्वधा स्वस्तिः सुधा सर्वार्थसाधिनी ॥ ३९॥ इच्छा सृष्टिर्द्युतिर्भूतिः कीर्तिः श्रद्धा दयामतिः । श्रुतिर्मेधा धृतिर्ह्रीः श्रीर्विद्या विबुधवन्दिता ॥ ४०॥ अनसूया घृणा नीतिर्निर्वृतिः कामधुक्करा । प्रतिज्ञा संततिर्भूतिर्द्यौः प्रज्ञा विश्वमानिनी ॥ ४१॥ स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा । संध्या मेधा प्रभा भीमा सर्वाकारा सरस्वती ॥ ४२॥ काङ्क्षा माया महामाया मोहिनी माधवप्रिया । सौम्याभोगा महाभोगा भोगिनी भोगदायिनी ॥ ४३॥ सुधौतकनकप्रख्या सुवर्णकमलासना । हिरण्यगर्भा सुश्रोणी हारिणी रमणी रमा ॥ ४४॥ चन्द्रा हिरण्मयी ज्योत्स्ना रम्या शोभा शुभावहा । त्रैलोक्यमण्डना नारी नरेश्वरवरार्चिता ॥ ४५॥ त्रैलोक्यसुन्दरी रामा महाविभववाहिनी । पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥ ४६॥ पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता । विचित्ररत्नमुकुटा विचित्राम्बरभूषणा ॥ ४७॥ विचित्रमाल्यगन्धाढ्या विचित्रायुधवाहना । महानारायणी देवी वैष्णवी वीरवन्दिता ॥ ४८॥ कालसंकर्षिणी घोरा तत्त्वसंकर्षिणीकला । जगत्सम्पूरणी विश्वा महाविभवभूषणा ॥ ४९॥ वारुणी वरदा व्याख्या घण्टाकर्णविराजिता । नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥ ५०॥ ऐन्द्री कामधेनुः सृष्टिः कामयोनिर्महाप्रभा । दृष्टा काम्या विश्वशक्तिर्बीजगत्यात्मदर्शना ॥ ५१॥ गरुडारूढहृदया चान्द्री श्रीर्मधुरानना । महोग्ररूपा वाराही नारसिंही हतासुरा ॥ ५२॥ युगान्तहुतभुग्ज्वाला कराला पिङ्गलाकला । त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥ ५३॥ महोत्कटा महारक्ता महाचण्डा महासना । शङ्खिनी लेखिनी स्वस्था लिखिता खेचरेश्वरी ॥ ५४॥ भद्रकाली चैकवीरा कौमारी भवमालिनी । कल्याणी कामधुग्ज्वालामुखी चोत्पलमालिका ॥ ५५॥ बालिका धनदा सूर्या हृदयोत्पलमालिका । अजिता वर्षिणी रीतिर्भरुण्डा गरुडासना ॥ ५६॥ वैश्वानरी महामाया महाकाली विभीषणा । महामन्दारविभवा शिवानन्दा रतिप्रिया ॥ ५७॥ उद्रीतिः पद्ममाला च धर्मवेगा विभावनी । सत्क्रिया देवसेना च हिरण्यरजताश्रया ॥ ५८॥ सहसावर्तमाना च हस्तिनादप्रबोधिनी । हिरण्यपद्मवर्णा च हरिभद्रा सुदुर्द्धरा ॥ ५९॥ सूर्या हिरण्यप्रकटसदृशी हेममालिनी । पद्मानना नित्यपुष्टा देवमाता मृतोद्भवा ॥ ६०॥ महाधना च या श‍ृङ्गी कर्द्दमी कम्बुकन्धरा । आदित्यवर्णा चन्द्राभा गन्धद्वारा दुरासदा ॥ ६१॥ वराचिता वरारोहा वरेण्या विष्णुवल्लभा । कल्याणी वरदा वामा वामेशी विन्ध्यवासिनी ॥ ६२॥ योगनिद्रा योगरता देवकी कामरूपिणी । कंसविद्राविणी दुर्गा कौमारी कौशिकी क्षमा ॥ ६३॥ कात्यायनी कालरात्रिर्निशितृप्ता सुदुर्जया । विरूपाक्षी विशालाक्षी भक्तानांपरिरक्षिणी ॥ ६४॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । घण्टानिनादबहुला जीमूतध्वनिनिःस्वना ॥ ६५॥ महादेवेन्द्रमथिनी भ्रुकुटीकुटिलानना । सत्योपयाचिता चैका कौबेरी ब्रह्मचारिणी ॥ ६६॥ आर्या यशोदा सुतदा धर्मकामार्थमोक्षदा । दारिद्र्यदुःखशमनी घोरदुर्गार्तिनाशिनी ॥ ६७॥ भक्तार्तिशमनी भव्या भवभर्गापहारिणी । क्षीराब्धितनया पद्मा कमला धरणीधरा ॥ ६८॥ रुक्मिणी रोहिणी सीता सत्यभामा यशस्विनी । प्रज्ञाधारामितप्रज्ञा वेदमाता यशोवती ॥ ६९॥ समाधिर्भावना मैत्री करुणा भक्तवत्सला । अन्तर्वेदी दक्षिणा च ब्रह्मचर्यपरागतिः ॥ ७०॥ दीक्षा वीक्षा परीक्षा च समीक्षा वीरवत्सला । अम्बिका सुरभिः सिद्धा सिद्धविद्याधरार्चिता ॥ ७१॥ सुदीक्षा लेलिहाना च कराला विश्वपूरका । विश्वसंधारिणी दीप्तिस्तापनी ताण्डवप्रिया ॥ ७२॥ उद्भवा विरजा राज्ञी तापनी बिन्दुमालिनी । क्षीरधारासुप्रभावा लोकमाता सुवर्चसा ॥ ७३॥ हव्यगर्भा चाज्यगर्भा जुह्वतोयज्ञसम्भवा । आप्यायनी पावनी च दहनी दहनाश्रया ॥ ७४॥ मातृका माधवी मुख्या मोक्षलक्ष्मीर्महर्द्धिदा । सर्वकामप्रदा भद्रा सुभद्रा सर्वमङ्गला ॥ ७५॥ श्वेता सुशुक्लवसना शुक्लमाल्यानुलेपना । हंसा हीनकरी हंसी हृद्या हृत्कमलालया ॥ ७६॥ सितातपत्रा सुश्रोणी पद्मपत्रायतेक्षणा । सावित्री सत्यसंकल्पा कामदा कामकामिनी ॥ ७७॥ दर्शनीया दृशा दृश्या स्पृश्या सेव्या वराङ्गना । भोगप्रिया भोगवती भोगीन्द्रशयनासना ॥ ७८॥ आर्द्रा पुष्करिणी पुण्या पावनी पापसूदनी । श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ॥ ७९॥ अचिन्त्यानन्तविभवा भवभावविभावनी । निश्रेणिः सर्वदेहस्था सर्वभूतनमस्कृता ॥ ८०॥ बला बलाधिका देवी गौतमी गोकुलालया । तोषिणी पूर्णचन्द्राभा एकानन्दा शतानना ॥ ८१॥ उद्याननगरद्वारहर्म्योपवनवासिनी । कूष्माण्डा दारुणा चण्डा किराती नन्दनालया ॥ ८२॥ कालायना कालगम्या भयदा भयनाशिनी । सौदामनी मेघरवा दैत्यदानवमर्दिनी ॥ ८३॥ जगन्माता भयकरी भूतधात्री सुदुर्लभा । काश्यपी शुभदाता च वनमाला शुभावरा ॥ ८४॥ धन्या धन्येश्वरी धन्या रत्नदा वसुवर्द्धिनी । गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥ ८५॥ इडा शान्तिकरी चैव तामसी कमलालया । आज्यपा वज्रकौमारी सोमपा कुसुमाश्रया ॥ ८६॥ जगत्प्रिया च सरथा दुर्जया खगवाहना । मनोभवा कामचारा सिद्धचारणसेविता ॥ ८७॥ व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः सुजाज्वला । रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥ ८८॥ श्रवणा श्रावणी नेत्री रसनाप्राणचारिणी । विरिञ्चिमाता विभवा वरवारिजवाहना ॥ ८९॥ वीर्या वीरेश्वरी वन्द्या विशोका वसुवर्द्धिनी । अनाहता कुण्डलिनी नलिनी वनवासिनी ॥ ९०॥ गान्धारिणीन्द्रनमिता सुरेन्द्रनमिता सती । सर्वमङ्गल्यमाङ्गल्या सर्वकामसमृद्धिदा ॥ ९१॥ सर्वानन्दा महानन्दा सत्कीर्तिः सिद्धसेविता । सिनीवाली कुहू राका अमा चानुमतिर्द्युतिः ॥ ९२॥ अरुन्धती वसुमती भार्गवी वास्तुदेवता । मायूरी वज्रवेताली वज्रहस्ता वरानना ॥ ९३॥ अनघा धरणिर्धीरा धमनी मणिभूषणा । राजश्री रूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥ ९४॥ जयश्रीर्जयदा ज्ञेया सर्गश्रीः स्वर्गतिः सताम् । सुपुष्पा पुष्पनिलया फलश्रीर्निष्कलप्रिया ॥ ९५॥ धनुर्लक्ष्मीस्त्वमिलिता परक्रोधनिवारिणी । कद्रूर्द्धनायुः कपिला सुरसा सुरमोहिनी ॥ ९६॥ महाश्वेता महानीला महामूर्तिर्विषापहा । सुप्रभा ज्वालिनी दीप्तिस्तृप्तिर्व्याप्तिः प्रभाकरी ॥ ९७॥ तेजोवती पद्मबोधा मदलेखारुणावती । रत्ना रत्नावली भूता शतधामा शतापहा ॥ ९८॥ त्रिगुणा घोषिणी रक्ष्या नर्द्दिनी घोषवर्जिता । साध्या दितिर्दितिदेवी मृगवाहा मृगाङ्कगा ॥ ९९॥ चित्रनीलोत्पलगता वृषरत्नकराश्रया । हिरण्यरजतद्वन्द्वा शङ्खभद्रासनास्थिता ॥ १००॥ गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया । मरीचिश्चीरवसना पूर्णा चन्द्रार्कविष्टरा ॥ १०१॥ सुसूक्ष्मा निर्वृतिः स्थूला निवृत्तारातिरेव च । मरीचिज्वालिनी धूम्रा हव्यवाहा हिरण्यदा ॥ १०२॥ दायिनी कालिनी सिद्धिः शोषिणी सम्प्रबोधिनी । भास्वरा संहतिस्तीक्ष्णा प्रचण्डज्वलनोज्ज्वला ॥ १०३॥ साङ्गा प्रचण्डा दीप्ता च वैद्युतिः सुमहाद्युतिः । कपिला नीलरक्ता च सुषुम्णा विस्फुलिङ्गिनी ॥ १०४॥ अर्चिष्मती रिपुहरा दीर्घा धूमावली जरा । सम्पूर्णमण्डला पूषा स्रंसिनी सुमनोहरा ॥ १०५॥ जया पुष्टिकरीच्छाया मानसा हृदयोज्ज्वला । सुवर्णकरणी श्रेष्ठा मृतसंजीविनीरणे ॥ १०६॥ विशल्यकरणी शुभ्रा संधिनी परमौषधिः । ब्रह्मिष्ठा ब्रह्मसहिता ऐन्दवी रत्नसम्भवा ॥ १०७॥ विद्युत्प्रभा बिन्दुमती त्रिस्वभावगुणाम्बिका । नित्योदिता नित्यहृष्टा नित्यकामकरीषिणी ॥ १०८॥ पद्माङ्का वज्रचिह्ना च वक्रदण्डविभासिनी । विदेहपूजिता कन्या माया विजयवाहिनी ॥ १०९॥ मानिनी मङ्गला मान्या मालिनी मानदायिनी । विश्वेश्वरी गणवती मण्डला मण्डलेश्वरी ॥ ११०॥ हरिप्रिया भौमसुता मनोज्ञा मतिदायिनी । प्रत्यङ्गिरा सोमगुप्ता मनोऽभिज्ञा वदन्मतिः ॥ १११॥ यशोधरा रत्नमाला कृष्णा त्रैलोक्यबन्धनी । अमृता धारिणी हर्षा विनता वल्लकी शची ॥ ११२॥ संकल्पा भामिनी मिश्रा कादम्बर्यमृतप्रभा । अगता निर्गता वज्रा सुहिता संहिताक्षता ॥ ११३॥ सर्वार्थसाधनकरी धातुर्धारणिकामला । करुणाधारसम्भूता कमलाक्षी शशिप्रिया ॥ ११४॥ सौम्यरूपा महादीप्ता महाज्वाला विकाशिनी । माला काञ्चनमाला च सद्वज्रा कनकप्रभा ॥ ११५॥ प्रक्रिया परमा योक्त्री क्षोभिका च सुखोदया । विजृम्भणा च वज्राख्या श‍ृङ्खला कमलेक्षणा ॥ ११६॥ जयंकरी मधुमती हरिता शशिनी शिवा । मूलप्रकृतिरीशानी योगमाता मनोजवा ॥ ११७॥ धर्मोदया भानुमती सर्वाभासा सुखावहा । धुरन्धरा च बाला च धर्मसेव्या तथागता ॥ ११८॥ सुकुमारा सौम्यमुखी सौम्यसम्बोधनोत्तमा । सुमुखी सर्वतोभद्रा गुह्यशक्तिर्गुहालया ॥ ११९॥ हलायुधा चैकवीरा सर्वशस्त्रसुधारिणी । व्योमशक्तिर्महादेहा व्योमगा मधुमन्मयी ॥ १२०॥ गङ्गा वितस्ता यमुना चन्द्रभागा सरस्वती । तिलोत्तमोर्वशी रम्भा स्वामिनी सुरसुन्दरी ॥ १२१॥ बाणप्रहरणावाला बिम्बोष्ठी चारुहासिनी । ककुद्मिनी चारुपृष्ठा दृष्टादृष्टफलप्रदा ॥ १२२॥ काम्याचरी च काम्या च कामाचारविहारिणी । हिमशैलेन्द्रसंकाशा गजेन्द्रवरवाहना ॥ १२३॥ अशेषसुखसौभाग्यसम्पदा योनिरुत्तमा । सर्वोत्कृष्टा सर्वमयी सर्वा सर्वेश्वरप्रिया ॥ १२४॥ सर्वाङ्गयोनिः साव्यक्ता सम्प्रधानेश्वरेश्वरी । विष्णुवक्षःस्थलगता किमतः परमुच्यते ॥ १२५॥ परा निर्महिमा देवी हरिवक्षःस्थलाश्रया । सा देवी पापहन्त्री च सान्निध्यं कुरुतान्मम ॥ १२६॥ इति नाम्नां सहस्रं तु लक्ष्म्याः प्रोक्तं शुभावहम् । परावरेण भेदेन मुख्यगौणेन भागतः ॥ १२७॥ यश्चैतत् कीर्तयेन्नित्यं श‍ृणुयाद् वापि पद्मज । शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः ॥ १२८॥ श्रीनिवासं समभ्यर्च्य पुष्पधूपानुलेपनैः । भोगैश्च मधुपर्काद्यैर्यथाशक्ति जगद्गुरुम् ॥ १२९॥ तत्पार्श्वस्थां श्रियं देवीं सम्पूज्य श्रीधरप्रियाम् । ततो नामसहस्रोण तोषयेत् परमेश्वरीम् ॥ १३०॥ नामरत्नावलीस्तोत्रमिदं यः सततं पठेत् । प्रसादाभिमुखीलक्ष्मीः सर्वं तस्मै प्रयच्छति ॥ १३१॥ यस्या लक्ष्म्याश्च सम्भूताः शक्तयो विश्वगाः सदा । कारणत्वे न तिष्ठन्ति जगत्यस्मिंश्चराचरे ॥ १३२॥ तस्मात् प्रीता जगन्माता श्रीर्यस्याच्युतवल्लभा । सुप्रीताः शक्तयस्तस्य सिद्धिमिष्टां दिशन्ति हि ॥ १३३॥ एक एव जगत्स्वामी शक्तिमानच्युतः प्रभुः । तदंशशक्तिमन्तोऽन्ये ब्रह्मेशानादयो यथा ॥ १३४॥ तथैवैका परा शक्तिः श्रीस्तस्य करुणाश्रया । ज्ञानादिषाङ्गुण्यमयी या प्रोक्ता प्रकृतिः परा ॥ १३५॥ एकैव शक्तिः श्रीस्तस्या द्वितीयात्मनि वर्तते । परा परेशी सर्वेशी सर्वाकारा सनातनी ॥ १३६॥ अनन्तनामधेया च शक्तिचक्रस्य नायिका । जगच्चराचरमिदं सर्वं व्याप्य व्यवस्थिता ॥ १३७॥ तस्मादेकैव परमा श्रीर्ज्ञेया विश्वरूपिणी । सौम्या सौम्येन रूपेण संस्थिता नटजीववत् ॥ १३८॥ यो यो जगति पुम्भावः स विष्णुरिति निश्चयः । या या तु नारीभावस्था तत्र लक्ष्मीर्व्यवस्थिता ॥ १३९॥ प्रकृतेः पुरुषाच्चान्यस्तृतीयो नैव विद्यते । अथ किं बहुनोक्तेन नरनारीमयो हरिः ॥ १४०॥ अनेकभेदभिन्नस्तु क्रियते परमेश्वरः । महाविभूतिं दयितां ये स्तुवन्त्यच्युतप्रियाम् ॥ १४१॥ ते प्राप्नुवन्ति परमां लक्ष्मीं संशुद्धचेतसः । पद्मयोनिरिदं प्राप्य पठन् स्तोत्रमिदं क्रमात् ॥ १४२॥ दिव्यमष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् । सकामानां च फलदामकामानां च मोक्षदाम् ॥ १४३॥ पुस्तकाख्यां भयत्रात्रीं सितवस्त्रां त्रिलोचनाम् । महापद्मनिषण्णां तां लक्ष्मीमजरतां नमः ॥ १४४॥ करयुगलगृहीतं पूर्णकुम्भं दधाना क्वचिदमलगतस्था शङ्खपद्माक्षपाणिः । क्वचिदपि दयिताङ्गे चामरव्यग्रहस्ता क्वचिदपि सृणिपाशं बिभ्रती हेमकान्तिः ॥ १४५॥ ॥ इत्यादिपद्मपुराणे काश्मीरवर्णने हिरण्यगर्भहृदये सर्वकामप्रदायकं पुरुषोत्तमप्रोक्तं श्रीलक्ष्मीसहस्रनामस्तोत्रं समाप्तम् ॥ pUrvapIThikA is included from text entitled kamalAsahasranAmastotra devIstutimanjarI edited by Radhakrishnasastri from Mahaperiaval trust