अक्षर आकार:

महाविद्या कवचम् २

Mahavidya Kavacham 2

महाविद्या कवचम् २

सदाशिव ऋषि देवि उष्णिक्छन्दः उदीरितम् । विनियोगश्च देवेशि सततं मन्त्र सिद्धये ॥ १॥ मस्तकं पार्वतीपातु पातु पञ्चानन प्रिया । केशं मुखं पातु चण्डी भारती रुधिरप्रिया ॥ २॥ कण्ठं पातु स्तनं पातु कपालं पातु चैव हि । काली कराल वदना विचित्रा चित्रघण्टिनी ॥ ३॥ वक्षोमूलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी । समस्तं पातु मे तारा सर्वाङ्गी सर्वमेव च ॥ ४॥ विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी । हृत्पद्मं कालिका पातु कण्ठं पातु नभोगतम् ॥ ५॥ नारायणी गृह्य देशं मेढ्र मेढ्रेश्वरी तथा । पादयुग्मं जयापातु नित्यं मां चण्डिकाऽवतु ॥ ६॥ जीवं मां पार्वती सम्पातु मातङ्गी पातु सर्वदा । छिन्ना धूमा च भीमा च भये पातु जले वने ॥ ७॥ कौमारी चैव वाराही नारसिंही यशो मम । पातु नित्यं भद्रकाली श्मशानालयवासिनी ॥ ८॥ उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला । जगन्माता जयं पातु नित्यं कैलाशवासिनी ॥ ९॥ शिवप्रिया सुतं सपातु सुतं पर्वतनन्दिनी । त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी- ॥ १०॥ सर्वाङ्गं सर्व निलया पातु नित्यश्च पार्वती । चामुण्डा पातु मे रोमकूपं सर्वार्थ साधिनी ॥ ११॥ ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा । लिङ्गं लिङ्गेश्वरी पातु महापीठे महेश्वरी ॥ १२॥ सदाशिवप्रिया पातु नित्यं पातु सुरेश्वरी । गौरी मे सन्धिदेशश्च पातु वै त्रिपुरेश्वरी ॥ १३॥ सुरेश्वरी सदापातु श्मशाने च शनेऽवतु । कुम्भके रेचके चैव पूरके काममन्दिरे ॥ १४॥ कामाख्या कामनिलयं पातु दुर्गा महेश्वरी । डाकिनी काकिनी पातु नित्यं शाकिनी तथा ॥ १५॥ हाकिनी लाकिनी पातु राकिनी पातु सर्वदा । ज्वालामुखी सदा पातु मुख्यमध्यं शिवाऽवतु ॥ १६॥ तारिणी विभवे पातु भवानी च भवेऽवतु । त्रैलोक्यमोहिनी पातु सर्वाङ्ग विजनेऽवतु ॥ १७॥ राजकुले महाघाते सङ्ग्रामे रिपुसङ्कटे । प्रचण्डा साधकं माञ्च पातु भैरव मोहिनी ॥ १८॥ श्री राजमोहिनी पातु राजद्वारे विपत्तिषु । सम्पद्प्रदा भैरवी च पातु वालावलं मम ॥ १९॥ नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका । इत्येवं कथितं रहस्यं सर्व कालिकम् ॥ २०॥ भुक्तिदं मुक्तिदं सौख्यं सर्व सम्पद प्रदायकम् । यः पठेत् प्रातरुत्थाय साधकेन्द्रो भवेद् भुवि ॥ २१॥ कुञ्जवारे चतुर्दश्या ममायां मन्दवासरे । गुरौ गुरुं समभ्यर्च्चया यः पठेत्साधकोत्तमः ॥ २२॥ स याति भवनं देव्याः सत्यं सत्यं न संशयः । एवं यदि वरारोहे पठेद् भक्ति परायणः ॥ २३॥ मन्त्रसिद्धिः भवेत्तस्य चाचिरान्नात्र संशयः । सत्यं लक्ष पुरश्चर्या फलं प्राप्य शिवो व्रजेत् ॥ २४॥ पठित्वा कवचं स्तोत्रं भुक्तिमाप्नोति निश्चितम् । पठित्वा कवचं स्तोत्रं दशविद्या यजेत यदि ॥ २५॥ विद्या सिद्धिः मन्त्रसिद्धिः भवत्येव न संशयः । स्वरसिद्धिश्चितासिद्धिः दुर्लभा धरणी तले ॥ २६॥ अयत्न सुलभ सिद्धिस्ताम्बूलान्नात्र संशयः । निशामुखे निशायाञ्चा महाकाले निशान्तके ॥ २७॥ पठेद् भक्त्या महेशानि गाणपत्यं लभेत्तु सः ॥ २८॥ इति मुण्डमाला तन्त्रे एकादश पटले महाविद्या कवचं सम्पूर्णम् ॥