अक्षर आकार:

श्रीमहात्रिपुरसुन्दरीषट्कम्

Shri Mahatripurasundarishatkam

श्रीमहात्रिपुरसुन्दरीषट्कम्

मनोज्ञमणिकुण्डलां महितचक्रराजालयां मनोऽम्बुजविहारिणीं परशिवस्य वामाङ्कगाम् । महाहरिमुखामरप्रणतपादपङ्केरुहां महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ १॥ मतङ्गमुनिपूजितां मथितपापसङ्घां जवा- न्मदारुणितलोचनां मदमुखारिनिर्वापिणीम् । मनःसु यमिनां सदा स्थितिविहारिणीं मोदतो महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ २॥ विचित्रकविताप्रदां नतततेर्विलम्बं विना विधीन्द्रहरिवन्दितां विधिनिषेधसक्तार्चिताम् । विनायकविभावसूद्भवविभासिपार्श्वद्वयां महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ३॥ विनिन्दितविभावरीविटसहस्रगर्वाननां विनिर्मितजगत्त्रयीं विधुसमानमन्दस्मिताम् । विबोधनपटीयसीं विनतसन्ततेः सत्वरं महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ४॥ विमानचरमानिनीविहितपादसेवां मुदा विशालनयनाम्बुजां विधृतचापपाशाङ्कुशाम् । विशुद्धिसरसीरुहे कृतनिजासनां सर्वदा महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ५॥ विरागिजनसेवितां विमलबुद्धिसन्दायिनीं विराधरिपुपूजितां विविधरत्नभूषोज्ज्वलाम् । विरिञ्चिहरिसुन्दरीकलितचामरावीजनां महात्रिपुरसुन्दरीं मनसि भावये सन्ततम् ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीमहात्रिपुरसुन्दरीषट्कं सम्पूर्णम् ।