अक्षर आकार:

महाराज्ञीस्तोत्रम्

Maharajni Stotram

महाराज्ञीस्तोत्रम्

ॐ या द्वादशार्कपरिमण्डितमूर्तिरेकां सिंहासनस्थितिमतीमुरगैर्वृतां च । देवीमनक्षगतिमीश्वरतां प्रपन्नां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥ यत्पादपङ्कजतलेऽमरमूर्धमौलि- न्यस्तेन्द्रनीलमणिसन्ततयः पतन्ति । किञ्जल्कपानरतमुग्धमधुव्रतत्वं राज्ञी सदा भगवती जननीव नोऽव्यात् ॥ २॥ द्वारं यदीयचरणाम्बुजयुग्मनिर्यद्- रेणुस्मृतिर्विवृतमस्ति महोदयानाम् । अम्बाधिकप्रणयपूरितचित्तवृत्ती राज्ञी शुभं वितनुयान्मम सेवकस्य ॥ ३॥ दम्भं विहाय भवदङ्घ्रिनतिं तनोति यो राज्ञि ! देवि न विमुञ्चति मुक्तकान्ताम् । तं रूपहीनमपि कामभिवाधिगम्य तां त्वां नतोस्म्यऽशरणो भवभारखिन्नः ॥ ४॥ शान्तिं निनाय दशकन्धरमुग्ररूपं यत्पादसद्दशनखाग्रलुठत्किरीटः । रामो दशेन्द्रियनिवृत्तिविधानदक्षो राज्ञीं नतोस्म्यऽशरणो जगदम्बिकां ताम् ॥ ५॥ अर्कप्रभा प्रबलमोहतमःप्रशान्तौ चन्द्रद्युतिर्भवभयद्विपदन्तभङ्गे । याऽग्नेः शिखा दुरितदारुणदारुदाहे राज्ञीमनन्यशरणः प्रणमाम्यहं ताम् ॥ ६॥ कस्यापि राज्ञि बहुभाग्यनिधेः स्वरूपं भावत्कमस्ति हृदि संश्रितसन्निधानम् । दुष्टद्विषधृदयपाटनकृत्यहेतुं तां त्वां नतोऽस्मि नतलोकसुखप्रदात्रीम् ॥ ७॥ पत्तिर्द्युलोकपतिवैभवमाददाति देवाधिपोऽपि ननु पत्त्यनुकारमेति । यत्प्रोल्लसन्नयनयोगवियोगभावाद्- राज्ञींमहोपपदरम्यतरां नमामि ॥ ८॥ रिक्तत्वमाप्य च धनेन यदीयभक्ति- चिन्तामणिं विनिदधाति हृदब्जकोशे । नानाविधाभिमतसिद्धिकरं मनुष्यो राज्ञीं नमामि भववारिधितारिणीं ताम् ॥ ९॥ मर्त्याः शचीसहचरीकुचकुड्मलाग्र- स्पर्शोचितं करसरोजमवाप्नुवन्ति । यत्पादयोः सकृदुपाहितपुष्पपूजास्तां शर्मदामनुदिनं प्रणमामि राज्ञीम् ॥ १०॥ डिम्बोऽपि पूर्वसुकृतामृतसिक्तचित्तो ध्यानस्थयच्चरणभक्तिसुकल्पवीरुत् । अभ्येत्यभीष्टफलसङ्ग्रहभाजनत्वं राज्ञी तनोतु शुभतन्तुमहर्निंशं सा ॥ ११॥ तापः प्रयाति विलयं नरकाभिषङ्ग- जातो यदर्चनसुधारससारसेकात् । जन्तोरबोधकृतदुष्कृतभग्नमूर्ते राज्ञी रिपून्दलयतान्मम सन्ततं सा ॥ १२॥ मूलच्छिदाकरणकारणमङ्घ्रिपद्म- युग्मस्मृतेर्भगवति प्रभवोऽनुभावः । संसारपादपततेस्तव देवि यस्या भूयान्मदीयहृदयाहितसन्निधिः सा ॥ १३॥ तीव्रः प्रताप इह दुःसहतां प्रयाति यन्मूर्तिचिन्तननुतिप्रभवात्प्रभावात् । धन्यस्य कस्यचिदपि क्षितिपालमौले राज्ञीं दयारसनिधिं प्रणमाम्यहं ताम् ॥ १४॥ रेणुर्यदङ्घ्रिकमलप्रभवः प्रयाति प्रेतेशभृत्यनयनान्ध्यनिमित्तभावम् । चित्रं स्वभक्तनयने भजतेऽञ्जनत्वं राज्ञीं समस्तरिपुनिर्दलनाय वन्दे ॥ १५॥ मेघत्वमीहितपयोधरवृष्टिदाने यन्मूर्तिरेति चरणौ स्मरतां स्मृतैव । अस्माकवैरिनिवहं नयताद्विनाशं राज्ञी त्रिलोकजननी खलु निर्विलम्बम् ॥ १६॥ कामी यदीयनयनाञ्चलपूतदेहो मन्त्रं विनौषधमृते मणिमन्तरेण । क्षिप्रं हि संवननमेणदृशां करोति राज्ञी ममान्तरनुरञ्जतु वाञ्छितेन ॥ १७॥ सिन्धोरवाप्य तटमर्चननाम यस्या गीर्वाणदुर्लभसुधारससारमय्याः । योगी प्रयाति परिलङ्घ्य भवाब्धिपारं राज्ञी सदा शुभततिं प्रददातु मह्यम् ॥ १८॥ हालाहलं स्म गिरिशो विदधाति हीनशक्तिं स्वकण्ठगतमङ्घ्रिनतः सुरेन्द्रः । यद्दर्शनामृतभरप्रभवात्प्रसादाद्- राज्ञी वितारयतु संसृतिसागरान्माम् ॥ १९॥ सर्पाधिपो भवति यद्गुणकीर्तनेषु शक्तो न वाग्दशशतद्वयसंयुतोऽपि । स्वात्मीयभक्तजनवाञ्छितदानदक्षा सा सर्वशत्रुदलनं विदधातु राज्ञी ॥ २०॥ नश्यत्यनन्यशरणस्य नरस्य यस्या ध्यानप्रभापरिवृढोदयसङ्गमेन । नीहारराशिरभितो वृजिनाभिधानः सा मङ्गलं त्रिजगतां विदधातु राज्ञी ॥ २१॥ स्थित्या स्थितिं कमलजा यदनुग्रहस्य वाग्देवता च विदधाति गृहे मुखे च । मर्त्यस्य तीव्रतरभक्तिसमन्वितस्य राज्ञी ददातु शुभसन्ततिमाशु मह्यम् ॥ २२॥ तिर्यग्गणादऽहमवैमि विचारशून्यं तं मानवं यदभिवन्दनसौख्यलेशम् । स्वप्नेपि न स्पृशति जातु यदीयचित्तं राज्ञी स्वभक्तजनमङ्गलदाऽस्तु नित्यम् ॥ २३॥ मन्त्रं यदीयमभिवाञ्छितदं पठित्वा मर्त्यः प्रभावसहितः स्पृहणीयतायाः । पात्रीभवत्यमरवारविलासिनीनां दुर्वारपापदलनं विदधातु राज्ञी ॥ २४॥ तीक्ष्णद्युतिः शतसहस्रतनुत्वमेत्य यत्तेजसा तुलयितुं कणमप्यऽशक्तः । राज्ञी तथाविधसविस्मयदुर्निरीक्ष्य- तेजोन्विता जयतु मङ्गलकारिणी सा ॥ २५॥ मुक्ता भवन्त्यऽचलपूर्वस्वकर्ममेघ- मुक्ताः प्रलभ्य यदुपासनभक्तिशुक्तेः । मध्यं कदाचिदऽणवो बहुलोद्भवान्ते कुर्याच्छुभं निरुपमं स्वजनस्य राज्ञी ॥ २॥ रश्मिः सहस्रकिरणस्य करालपङ्क- संशोषणे हिमकरस्य रुचिर्विकासे । काव्योत्पलस्य ननु यच्चरणाब्जसेवा राज्ञीं विपक्षदमनीं प्रणमाम्यहं ताम् ॥ २७॥ गायन्ति सर्वधरणीधरकन्दरासु नित्यं सुपर्वहरिणीनयनासमूहाः । क्षेमाय यच्चरणमद्भुतमन्तहीनं राज्ञीं स्मरामि मनसा दुरितापहत्यै ॥ २८॥ वृक्षा यदर्चनविधावुपयोगमीयुः पुष्पैः सुगन्धहृतभृङ्गकदम्बकैर्ये । नाकेऽद्य कल्पतरवश्च त एव सन्ति राज्ञी वपुर्मम निषिञ्चतु भाग्यवर्षैः ॥ २९॥ ता निष्पतन्ति नरि तत्र खलेकपोत- न्यायेन भाग्यभरभागिनि सिद्धयोऽष्टौ । यः सर्वदा भजति राज्ञि तवाङ्घ्रियुग्मं सा त्वं ममार्द्रकरुणा भव सुप्रसन्ना ॥ ३०॥ चामीकरप्रकरमर्थिगणाय यस्याः प्रोद्दिश्य नाम मनुजो हि ददाति भक्तः । यः स प्रयाति कनकाद्रिगृहाधिपत्यं राज्ञी भवत्वखिललोकहिता सदैव ॥ ३१॥ देवालयादपि परं पदमामनन्ति काश्मीरदेशममलेक्षणयुग्मयुक्ताः । मूर्त्यन्तरान्वितयदीयपदारविन्द- द्वन्द्वार्पणाद्भवतु सा विभवाय राज्ञी ॥ ३२॥ वीतान्यवस्तुनिवहस्पृहया कृता या- त्पादाब्जयोर्जनतया भजतां प्रणामाः । नाशाय भावि(१)जननप्रकरस्य राज्ञी कल्याणमन्तरहितं प्रददातु मह्यम् ॥ ३३॥ मन्यूत्कटभ्रुकुटिवक्त्रमवेक्ष्य यस्याः कालोऽङ्घ्रिनम्रशिरसां सहति स्वरूपम् । द्रष्टुं न दुःसहगिरीशविलोचनाग्न- इशङ्कायुतो भवतु मे शुभदास्तु राज्ञी ॥ ३४॥ Footnote १ भवन्तीति शेषः नर्नतिं रम्यकररङ्गतले नटो या- त्पादाब्जनम्रशिरसः सुभटस्य खड्गः । सङ्ग्रामनिर्दलितशत्रुजयार्जितश्री राज्ञी करोतु मदधीनमशेषशर्म ॥ ३५॥ क्षत्रव्रजोऽतिबलदक्षिणबाहुकोश- अकृष्टासिमन्दरविलोडितसङ्गराब्धिः । लक्ष्मीं परां भजति यच्चरणप्रसादा- ल्लक्ष्मीं जनाय भजते प्रददातु राज्ञी ॥ ३६॥ गङ्गादितीर्थजलपूतशरीरयष्टिर्यः पूर्वजन्मनि यमान्नियमांश्च सेवे । भावत्कभक्तिविषयं भजते स एव दूरीकृताखिलभयां प्रणमामि राज्ञीम् ॥ ३७॥ तिग्मांशुमग्निमनिलं क्षितिमम्बु चन्द्र- मात्मानमभ्रमपि यत्तनुमामनन्ति । राज्ञीं समस्तदुरितापहृतिप्रगल्भां भर्गाब्धिनिर्झरनदीं सततं स्मरामि ॥ ३८॥ मीनध्वजो ननु बभूव यदीयदृष्टि- पीयूषवृष्टिमधिगम्य विलब्धजीवः । भूतेशभालनयनानलदग्धदेहो राज्ञीं प्रसादसुमुखीं प्रणमाम्यहं ताम् ॥ ३९॥ श्वभ्रं परापतति दुष्कृतसारणी यद्- ध्यानाचलेन्द्रपरिणद्धपुरः प्रयाणा । राज्ञीं भजे रविजकिङ्करभीतिभङ्ग- दानोद्यतां हृदयसन्निहितानुकम्पाम् ॥ ४०॥ रज्जुर्विमार्गगतभक्तकरावलम्बे यत्पादपङ्कजनतिर्जगति प्रसिद्धा । राज्ञीमपारतरदुष्कृतकक्ष्यभार- दाहे दवानलशिखां प्रणमामि नित्यम् ॥ ४१॥ तां हेलयैव गतिमेति यदङ्घ्रिनम्रः पत्युः पतेन्मखलिहामपि नेत्रमार्गम् । स्वप्ने न या कठिनपापतमोविनाश- नित्योदितार्यमरुचिं प्रणमामि राज्ञीम् ॥ ४२॥ प्राणो न कर्कशकृतान्तधृतावलेप- पाशोरगेन्द्रकवलत्वमुपैति जन्तोः । यद्भक्तितार्क्षतनुसंश्रितमानसस्य राज्ञी मुदं वितनुयात्स्वजनस्य तूर्णम् ॥ ४३॥ पङ्गुर्गृहाङ्गणगतः पवनोऽन्तराय- नामा यदङ्घ्रियुगनम्रतनोर्नरस्य । कीनाशलोकदलनोद्यमदक्षशक्तिं राज्ञीमनन्तकरुणाब्धिमुपास्महे ताम् ॥ ४४॥ नानाकृतिर्विलयमेति भवाभिधानो यक्षो यदङ्घ्रिनतिभास्करभानुयोगात् । मर्त्यस्य श्रद्धमनसः सततं स्मरामि तस्याऽहं पदसरोजरजांसि राज्ञ्याः ॥ ४५॥ ताराधिपद्युतिरनारतशोककोक- संयोगनाशनविधौ स्मृतिरस्ति यस्याः । पापक्षयाय निज मूर्ध्नि करोम्यहं तद्राज्ञीपदाम्बुजयुगोत्थितरेणुपुञ्जम् ॥ ४६॥ नौर्दीर्घदुर्गतिसरस्तरणोन्मुखानां यत्पादपङ्कजयुगप्रणतिर्नराणाम् । कश्मीरपण्डितमनोरचितप्रतिष्ठां वाग्देवतातनुमुपैम्यहमाशु राज्ञीम् ॥ ४७॥ मिथ्या व्ययं परितनोति धनस्य मूढो यज्ञक्रियावितरणच्छलयुक्तचेताः । सत्यां यदङ्घ्रिविनतौ शुभकामदायां राज्ञीपदाब्जयुगलं शरणं श्रयामि ॥ ४८॥ भागीरथीसलिलसन्ततिरुग्ररूपां तापप्रभूतिमपि यां ग्रसितुं न शक्ता । तां हेलया ग्लपयति स्मृतिरेव यस्या राज्ञी महादुरितभारमऽपाकरोतु ॥ ४९॥ गण्डस्थलानि सुदृशां त्रिदिवालयानां वश्यान्यवश्यमचिरेण करोति यस्याः । पादस्मृतिर्हि निजभक्तनखक्षतानां मथ्नात्वऽमन्ददुरितानि ममाशु राज्ञी ॥ ५०॥ वन्दारुलोकनिलयेषु करोति पद्मा- वाहद्विपो हि वसतिं स्थिरतां गृहीत्वा । यत्पादपङ्कजयुगोत्थितरेणुपुञ्ज- योगाद्धितं त्रिजगतां प्रतनोतु राज्ञी ॥ ५१॥ पुष्णाति वैभवमपाकुरुते विपत्तिं दुःखानि हन्ति वृजिनं हरति स्मृता या । पादाम्बुजन्मयुगलाग्रत एव राज्ञ्या आधारहीनतरदण्डनिभं पतामि ॥ ५२॥ षड्भिर्मुखैर्गजमुखास्यकृतानुचर्यैः स्तौतीक्ष्यते च नयनप्रकरैः कुमारः । यां द्वादशार्कवपुषीं धृतसप्तलोक- रक्षां निवारयतु भक्तभयानि राज्ञी ॥ ५३॥ पथ्यं भिषग्भिरनधीतचरं समस्तै- र्दूरं महौषधिगणाच्च यदङ्घ्रिसेवा । दुर्वाररोगगुरुभारजुषां जनानां राज्ञी विनाशयतु भक्तजनामयं सा ॥ ५४॥ रम्भामुखं भवति नैव सुखाय जन्तो- र्यद्भक्तिनाकवनिताबहुभोगभाजः । सुदुष्टपूर्वजननान्तरसञ्चितानि राज्ञी विचूर्णयतु मे दुरितानि नित्यम् ॥ ५५॥ मान्यं पदं समुपयाति स वन्दिवक्त्र- सत्स्थावरावनिसमर्पितकीर्तिबीजः । यो नित्यमर्चति तवाङ्घ्रिमनन्यकर्मा हेराज्ञि मातरऽशुभात्परिपाहि सा माम् ॥ ५६॥ अर्थान्प्रकाशयति दीपशिखेव दीप्रा या ध्यायिनां दहति पापपतङ्गपङ्क्तिम् । ध्यानाभिधं किरति कज्जलजालमक्ष्णो- रंहो हिनस्तु मम सा प्रणतस्य राज्ञी ॥ ५७॥ राज्ञां शिरो लुठति पादतलाऽऽनुतानां विश्वम्भरेशशिरसां विलसत्किरीटम् । पादे यदीयचरणस्मरणायुषस्तां राज्ञी भयापहृतये प्रणमामि नित्यम् ॥ ५८॥ नो यस्मिन्पठिते मनोऽर्हति नृणामातङ्कशङ्काङ्कनं गुप्ताद्गुप्ततरामिहाशयदिशं नो दोषराशिः स्पृशेत् । युक्तिः सिन्धुसुतावशीकृतिविधौ हेतुर्वचोदेवताप्राप्तौ पण्डितकृष्णकेन स महाराज्ञ्याः स्तवो निर्मितः ॥ ५९॥ इति श्रीपण्डितकृष्णकविरचितः श्रीमहाराज्ञीस्तवः सम्पूर्णः ।