अक्षर आकार:

श्रीमहाराज्ञीसहस्रनामस्तोत्रम्

Shri Maharajni Sahasranamastotram

श्रीमहाराज्ञीसहस्रनामस्तोत्रम्

अथवा श्रीमहाराज्ञी राजराजेश्वरीसहस्रनामस्तोत्रम् पार्वत्युवाच - भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण । शरण्य सर्वलोकेश शरणागतवत्सल ॥ १॥ कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् । मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ २॥ श्रीशिव उवाच - या देवी निष्कला राज्ञी भगवत्यमलेश्वरी । सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ ३॥ तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति । अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ ४॥ परमार्थप्रदं नित्यं परमैश्वर्यकारणम् । सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम् ॥ ५॥ समस्तशोकशमनं महापातकनाशनम् । सर्वमन्त्रमयं दिव्यं राज्ञीनामसहस्रकम् ॥ ६॥ ॐ अस्य श्रीमहाराज्ञी राजराजेश्वरी नामसहस्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । सर्वभूतेश्वरी महाराज्ञी देवता । ह्रीं बीजं । सौः शक्तिः । क्लीं कीलकं । श्रीमहाराज्ञीसहस्रनामजपे विनियोगः । ॐ ह्रां ह्रीं इत्यादिना कर-हृदयादि न्यासः । NOTE: The follwing 5 lines (before ᳚dhyAnaM᳚ are not found in SVR's book ब्रह्मऋषये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे । श्रीभूतेश्वरीमह्राराज्ञीदेवतायै नमः हृदि । ह्रींबीजाय नमः नाभौ । सौः शक्तये नमः गुह्ये । क्लीं कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु । ॐह्रामित्यादिना करषडङ्गन्यासं विधाय ध्यानं कुर्यात् । ॥ ध्यानम् ॥ या द्वादशार्कपरिमण्डितमूर्तिरेका सिंहासनस्थितिमती ह्युरगैर्वृतां च । देवीमनन्यगतिरीश्वरतां प्रपन्नां var देवीमनक्षगतिमीश्वरतां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १॥ चतुर्भुजां चन्द्रकलार्धशेखरां सिंहासनस्थामुरगोपवीतिनीम् । var सिंहासनस्थां भुजगोपवीतिनीम् पाशाङ्कुशाम्भोरुहखड्गधारिणीं राज्ञीं भजे चेतसि राज्यदायिनीम् ॥ २॥ ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी । ह्रीं स्वाहा त्र्यक्षरी विद्या परा भगवती विभा ॥ १॥ ॐ भास्वती भद्रिका भीमा भर्गरूपा मनस्विनी । माननीया मनीषा च मनोजा च मनोजवा ॥ २॥ मानदा मन्त्रविद्या च महाविद्या षडक्षरी । षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ ३॥ शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी । महालक्ष्मीर्महोरस्का महौजस्का महोदया ॥ ४॥ मातङ्गी मोदकाहारा मदिरारुणलोचना । साध्वी शीलवती शाला सुधाकलशधारिणी ॥ ५॥ खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता । हृत्पद्मवासिनी हृद्या पानपात्रधरा परा ॥ ६॥ धराधरेन्द्रतनया दक्षिणा दक्षजा दया । var दशना दया दयावती महामेधा मोदिनी बोधिनी सदा ॥ ७॥ गदाधरार्चिता गोधा गङ्गा गोदावरी गया । महाप्रभावसहिता महोरगविभूषणा ॥ ८॥ महामुनिकृतातिथ्या माध्वी मानवती मघा । बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी ॥ ९॥ शारी शरीरमध्यस्था वैखरी खेचरेश्वरी । शिवदा शिववक्षःस्था कालिका त्रिपुरेश्वरी ॥ १०॥ var त्रिपुरापुरी पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी । बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ ११॥ मुण्डमालाञ्चिता मुद्रा क्षोभणाकर्षणक्षमा । ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ १२॥ रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी । नारसिंही भैरवेशी भैरवाकारभीषणा ॥ १३॥ नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी । नागकङ्कणकेयूरा (१००) नागहारा सुरेश्वरी ॥ १४॥ सुरारिघातिनी पूता पूतना डाकिनी क्रिया । कूर्मा क्रियावती कृत्या डाकिनी लाकिनी लया ॥१५॥ var क्रियावती कुरी कृत्या, शाकिनी लया लीलावती रसाकीर्णा नागकन्या मनोहरा । हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ १६॥ महासिनी मधुमती सरसी स्मरमोहिनी । var प्रहासिनी मधुमती महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ १७॥ सुधामयी वेणुकरा वैरघ्नी वीरसुन्दरी । वारिमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ १८॥ शङ्करी शर्मदा सीता रवीन्दुशिखिलोचना । मदिरा वारुणी वीणागीतिज्ञा मदिरावती ॥ १९॥ वटस्था वारुणीशक्तिः वटजा वटवासिनी । वटुकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी चमूः ॥ २०॥ मुद्गराङ्कुशहस्ता च वराभयकरा कुटी । पाटीरद्रुमवल्ली च वटुका वटुकेश्वरी ॥ २१॥ इष्टदा कृषिभूः कीरी रेवती रमणप्रिया । रोहिणी रेवती रम्या रमणा रोमहर्षिणी ॥ २२॥ रसोल्लासा रसासारा सारिणी तारिणी तडित् । तरी तरित्रहस्ता च तोतुला तरणिप्रभा ॥ २३॥ रत्नाकरप्रिया रम्भा रत्नालङ्कारशोभिता । रुक्माङ्गदा गदाहस्ता गदाधरवरप्रदा ॥ २४॥ षड्रसा द्विरसा माला मालाभरणभूषिता । मालती मल्लिकामोदा मोदकाहारवल्लभा ॥ २५॥ वल्लभी मधुरा माया काशी काञ्ची ललन्तिका । हसन्तिका हसन्ती च भ्रमन्ती च वसन्तिका ॥ २६॥ क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा (२००) क्षणेश्वरी । क्षणदा क्षेमदा सीरा सीरपाणिसमर्चिता ॥ २७॥ क्रीता क्रीतातपा क्रूरा कमनीया कुलेश्वरी । कूर्चबीजा कुठाराढ्या कूर्मिर्णी कूर्मसुन्दरी ॥ २८॥ कारुण्यार्द्रा च काश्मीरी दूती द्वारवती ध्रुवा । var कारुण्या चैव ध्रुवस्तुता ध्रुवगतिः पीठेशी बगलामुखी ॥ २९॥ सुमुखी शोभना नीतिः रत्नज्वालामुखी नतिः । अलकोज्जयिनी भोग्या भङ्गी भोगावती बला ॥ ३०॥ धर्मराजपुरी पूता पूर्णमालाऽमरावती । var पूर्णसत्त्वाऽमरावती अयोध्या बोधनीया च युगमाता च यक्षिणी ॥ ३१॥ var योधनीया यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी । यशोवती च चार्वङ्गी चारुहासा चलाचला ॥ ३२॥ हरीश्वरी हरेर्माया भामिनी वायुवेगिनी । var मायिनी वायुवेगिनी अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः ॥ ३३॥ कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी । कठोरवाक्कुहूमूर्तिः चन्द्रबिम्बसमानना ॥ ३४॥ चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचलवासिनी । मलयाचलसानुस्था हिमाद्रितनयातनूः ॥ ३५॥ हिमाद्रिकुक्षिदेशस्था कुब्जिका कोसलेश्वरी । कारैकनिगला गूढा गूढगुल्फाऽतिवेगिनी ॥ ३६॥ var गूढगुल्फाऽतिगोपिता तनुजा तनुरूपा च बाणचापधरा नुतिः । धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना ॥ ३७॥ अरुणेशी द्युतिः ख्यातिः गरिष्ठा च गरियसी । महानसी महाकारा सुरासुरभयङ्करी ॥ ३८॥ अणुरूपा बृहज्ज्योतिरनिरुद्धा सरस्वती । श्यामा श्याममुखी शान्ता श्रान्तसन्तापहारिणी ॥ ३९॥ गौर्गण्या गोमयी गुह्या गोमती गरुवाग्रसा । गीतसन्तोषसंसक्ता (३००) गृहिणी ग्राहिणी गुहा ॥ ४०॥ गणप्रिया गजगतिर्गान्धारी गन्धमोदिनी । गन्धमोहिनी गन्धमादनसानुस्था सह्याचलकृतालया ॥ ४१॥ गजाननप्रिया गम्या ग्राहिका ग्राहवाहना । गुहप्रसूर्गुहावासा गृहमालाविभूषणा ॥ ४२॥ कौबेरी कुहका भ्रन्तिस्तर्कविद्याप्रियङ्करी । पीताम्बरा पटाकारा पताका सृष्टिजा सुधा ॥ ४३॥ दाक्षायणी दक्षसुता दक्षयज्ञविनाशिनी । ताराचक्रस्थिता तारा तुरी तुर्या त्रुटिस्तुला ॥ ४४॥ सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्यलालिता । ललिता लोहिता लभ्या चम्पा कम्पाकुला सृणिः ॥ ४९॥ सृतिः सत्यवती स्वस्थाऽसमाना मानवर्धिनी । महोमयी मनस्तुष्टिः कामधेनुः सनातनी ॥ ४६॥ सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा कलावती । तलातलाश्रया सिन्धुः त्र्यम्बिका लम्पिका जया ॥ ४७॥ सौदामिनी सुधादेवी सनकदिसमर्चिता । मन्दाकिनी च यमुना विपाशा नर्मदानदी ॥ ४८॥ गण्डक्यैरावती सिप्रा वितस्ता च सरस्वती । रेवा चेक्षुमती वेगवती सागरवासिनी ॥ ४९॥ देवकी देवमाता च देवेशी देवसुन्दरी । दैत्येशी दमनी दात्री दितिर्दितिजसुन्दरी ॥ ५०॥ var दैत्यघ्नी विद्याधरी च विद्येशी विद्याधरजसुन्दरी । मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥ ५१॥ उर्वशी मोहिनी रम्भा चाप्सरोगणसुन्दरी । यक्षिणी यक्षलोकेशी यक्षनायकसुन्दरी ॥ ५२॥ var नरवाहनपूजिता NOTE: The next line is not found in SVR's book यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी । गन्धवत्यर्चिता गन्धा सुगन्धा गीततत्परा ॥ ५३॥ गन्धर्वतनया नम्रा (४००) गीतिर्गन्धर्वसुन्दरी । मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ ५४॥ मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी । रक्षोहर्त्री केकसी च रक्षोनायकसुन्दरी ॥ ५५॥ किन्नरी कम्बुकण्ठी च कलकण्ठस्वनाऽमृता var कलकण्ठस्वना सुधा किम्मुखी हयवक्त्रा च खेलाकिन्नरसुन्दरी ॥ ५६॥ विपाशी राजमातङ्गी उच्छिष्टपदसंस्थिता । महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ ५७॥ गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी । सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ ५८॥ भूतेश्वरी भूतलया भूतधात्री भयापहा । भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ ५९॥ पृथ्वी पार्थिवलोकेशी प्रथा विष्णुसमर्चिता । वसुन्धरा वसुनता पर्थिवी भूमिसुन्दरी ॥ ६०॥ अम्भोधितनयाऽलुब्धा जलजाक्षी जलेश्वरी । अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ ६१॥ तेजस्विनी महोधात्री तैजसी सूर्यबिम्बगा । सूर्यकान्तिः सूर्यतेजाः तेजोरूपैकसुन्दरी ॥ ६२॥ वायुवाहा वायुमुखी वायुलोकैकसुन्दरी । गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ ६३॥ शूररूपा निराभासा भासमाना धृतिराकाशसुन्दरी । क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ ६४॥ अब्धियाना रत्नशोभा वरुणेशी वरायुधा । पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ ६५॥ अनलैकरुचिर्ज्योतिः पञ्चानिलमतिस्थितिः । प्राणापानसमानेच्छा चोदानव्यानरूपिणी ॥ ६६॥ पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी । अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ ६७॥ हेतिर्हविर्हुतज्योतिरग्निजा वह्निसुन्दरी । सोमेश्वरी सोमकला सोमपानपरायणा ॥ ६८॥ सौम्यानना सौम्यरूपा सोमस्था सोमसुन्दरी । सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ ६९॥ याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा । याजकी यज्ञविद्या च यजमानैकसुन्दरी ॥ ७०॥ आकाशगामिनी वन्द्या शब्दजाऽऽकाशसुन्दरी । मीनास्या मीननेत्रा च मीनास्था मीनसुन्दरी ॥ ७१॥ var मीनप्रिया मीननेत्रा मीनाशा मीनसुन्दरी कूर्मपृष्ठगता कूर्मी कूर्मजा कूर्मसुन्दरी । var कूर्मरूपिणी वाराही वीरसूर्वन्द्या वरारोहा मृगेक्षणा ॥ ७२॥ वराहमूर्तिर्वाचाला वश्या वाराहसुन्दरी । var दंष्ट्रा वाराहसुन्दरी नरसिंहाकृतिर्देवी दुष्टदैत्यनिषूदिनी ॥ ७३॥ प्रद्युम्नवरदा नारी नरसिंहैकसुन्दरी । वामजा वामनाकारा नारायणपरायणा ॥ ७४॥ बलिदानवदर्पघ्नी वाम्या वामनसुन्दरी । रामप्रिया रामकला रक्षोवंशक्षयभयङ्करी ॥ ७५॥ रक्षोवंशक्षयङ्करी रक्षोवंशभयङ्करी var रामप्रिया रामकीलिः क्षत्रवंशक्षयङ्करी भृगुपुत्री राजकन्या रामा परशुधारिणी । var दनुपुत्री भार्गवी भार्गवेष्टा च जामदग्न्यवरप्रदा ॥ ७६॥ कुठारधारिणी रात्रिर्जामदग्न्यैकसुन्दरी । सीतालक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ ७७॥ रामप्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा । लावण्यामृतधाराढ्या लवणासुरघातिनी ॥ ७८॥ लोहितास्या प्रसन्नास्या स्वात्मारामैकसुन्दरी । var स्वागमा रामसुन्दरी कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ ७९॥ यादोगणार्चिता योज्या राधा श्रीकृष्णसुन्दरी । सिद्धप्रसूः सिद्धदेवी जिनमार्गपरायणा ॥ ८०॥ var बुद्धप्रसूर्बुद्धदेवी जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया । जिनवंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ ८१॥ काली कोलाहलप्रीता प्रेतवाहा सुरेश्वरी । कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ॥ ८२॥ विष्णुमाया ब्रह्ममाया शाम्भवी शिववाहना । इन्द्रावरजवक्षःस्था स्थाणुपत्नी पलालिनी ॥ ८३॥ जृम्भिणी जृम्भहर्त्री च जृम्भमाणालकाकुला । var ऋम्भमाणकचालका कुलाकुलफलेशानी पददानफलप्रदा ॥ ८४॥ कुलवागीश्वरी कुल्या कुलजा कुलसुन्दरी । पुरन्दरेड्या तारुण्यालया पुण्यजनेश्वरी ॥ ८५॥ पुण्योत्साहा पापहन्त्री पाकशासनसुन्दरी । सूयर्कोटिप्रतीकाशा सूर्यतेजोमयी मतिः ॥ ८६॥ लेखिनी भ्राजिनी रज्जुरूपिणी सूर्यसुन्दरी । चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ॥ ८७॥ लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् । सहस्रशीर्षा चेन्द्राणी सहस्रभुजवल्लिका ॥ ८८॥ कोटिरत्नांशुशोभा च शुभ्रवस्त्रा शतानना । शतानन्दा श्रुतिधरा पिङ्गला चोग्रनादिनी ॥ ८९॥ सुषुम्ना हारकेयूरनूपुरारावसङ्कुला । घोरनादाऽघोरमुखी चोन्मुखी चोल्मूकायुधा ॥ ९०॥ गोपिता गूर्जरी गोधा गायत्री वेदवल्लभा । वल्लकीस्वननादा च नादविद्या नदीतटी ॥ ९१॥ बिन्दुरूपा चक्रयोनिर्बिन्दुनादस्वरूपिणी । चक्रेश्वरी भैरवेशी महाभैरववल्लभा ॥ ९२॥ कालभैरवभार्या च कल्पान्ते रङ्गनर्तकी । प्रलयानलधूम्राभा योनिमध्यकृतालया ॥ ९३॥ भूचरी खेचरी मुद्रा नवमुद्राविलासिनी । वियोगिनी श्मशानस्था श्मशानार्चनतोषिता ॥ ९४॥ भास्वराङ्गी भर्गशिखा भर्गवामाङ्गवासिनी । भद्रकाली विश्वकाली श्रीकाली मेघकालिका ॥ ९५॥ नीरकाली कालरात्रिः काली कामेशकालिका । इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका ॥ ९६॥ श्मशानकालिका शुभ्रकाली श्रीकृष्णकालिका । var भद्रकाली क्रीङ्कारोत्तरकाली श्रीं हुं ह्रीं दक्षिणकालिका ॥ ९७॥ सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता । त्रिनेत्रा त्रिपुराध्यक्षा त्रिकूटा कूटभैरवी ॥ ९८॥ var त्रिपुटा पुटभैरवी त्रिलोकजननी नेत्री महात्रिपूरसुन्दरी । कामेश्वरी कामकला कालकामेशसुन्दरी ॥ ९९॥ त्र्यक्षर्येकाक्षरीदेवी भावना भुवनेश्वरी । एकाक्षरी चतुष्कूटा त्रिकूटेशी लयेश्वरी ॥ १००॥ चतुर्वर्णा च वर्णेशी वर्णाढ्या चतुरक्षरी । पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी ॥ १०१॥ सप्ताक्षरी नवार्णेशी परमाष्टाक्षरेश्वरी । नवमी पञ्चमी षष्टिः नागेशी नवनायिका ॥ १०२॥ var नागेशी च नवाक्षरी । दशाक्षरी दशास्येशी देविकैकादशाक्षरी । द्वादशादित्यसङ्काशा (७००) द्वादशी द्वादशाक्षरी ॥ १०३॥ त्रयोदशी वेदगर्भा वाद्या (ब्राह्मी) त्रयोदशाक्षरी । चतुर्दशाक्षरी विद्या विद्यापञ्चदशाक्षरी ॥ १०४॥ षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी । महाश्रीषोडशीरूपा चिन्तामणिमनुप्रिया ॥ १०५॥ द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी । वज्रतारा कालतारा नारी तारोग्रतारिणी ॥ १०६॥ कामतारा स्पर्शतारा शब्दतारा रसाश्रया । रूपतारा गन्धतारा महानीलसरस्वती ॥ १०७ ॥ कालज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला । विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी ॥ १०८॥ विष्णुशिखा विकरालमुखी देवी कराली भूतिभूषणा । चिताशयासना चिन्त्या चितामण्डलमध्यगा ॥ १०९॥ भूतभैरवसेव्या च भूतभैरवपालिनी । बन्धकी बद्धसन्मुद्रा भवबन्धविनाशिनी ॥ ११०॥ भवानी देवदेवेशी दीक्षा दीक्षितपूजिता । साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी ॥ १११॥ साधकाश्रयभूता च साधकेष्टफलप्रदा । रजोवती राजसी च रजकी च रजस्वला ॥ ११२॥ पुष्पप्रिया पुष्पपूर्णा स्वयम्भूपुष्पमालिका । var पुष्पप्रिया पुष्पवती स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतनाशिनी ॥ ११३॥ var पुलस्त्यसुतघातिनी पात्रहस्ता परा पौत्री पीतास्या पीतभूषणा । पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी ॥ ११४॥ मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला । पुरूरवेश्वरी पाशधरा चापधराऽधुरा ॥ ११५॥ पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी । होतृसेव्या हकारस्था सकारस्था सुखावती ॥ ११६॥ सखी शोभावती सत्या सत्याचारपरायणा । साध्वीशानकलेशानी वामदेवकलाश्रिता ॥ ११७॥ सद्योजातकलेशानी शिवाऽघोरकलाकृतिः । var सद्योजातकला देवी शर्वरी वीरसदृशी क्षीरनीरविवेचिनी (८००) ॥ ११८॥ वितर्कनिलया नित्या नित्यक्लिन्ना पराम्बिका । पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी ॥ ११९॥ काशिका कौशिकी कोश्या कोशदा रूपवर्धिनी । तुष्टिः पुष्टिः प्रजाप्रीता पूजिता पूजकप्रिया ॥ १२०॥ var प्राजिका पूजकप्रिया प्रजावती गर्भवती गर्भपोषणकारिणी । var गर्भपोषणपोषिता शुक्रवासाः शुक्लरूपा शुचिवासा जयावहा ॥ १२१॥ जानकी जन्यजनका जनतोषणतत्परा । वादप्रिया वाद्यरता वादिनी वादसुन्दरी ॥ १२२॥ var वादिता वादसुन्दरी वाक्स्तम्भिनी कीरपाणिः धीराधीरा धुरन्धरा । var वाक्स्तम्भिनी कीरवाणी स्तनन्धयी सामिधेनी निरानन्दा निरञ्जना ॥ १२३॥ var निरानन्दा निरालया समस्तसुखदा सारा वारान्निधिवरप्रदा । वालुका वीरपानेष्टा वसुधात्री वसुप्रिया ॥ १२४ । शुकानान्दा शुक्ररसा शुक्रपूज्या शुकप्रिया । शुचिश्च शुकहस्ता च समस्तनरकान्तका ॥ १२५॥ var शुकी च शुकहस्ता च समस्ततत्त्वनिलया भगरूपा भगेश्वरी । भगबिम्बा भगाहृद्या भगलिङ्गस्वरूपिणी ॥ १२६॥ भगलिङ्गेश्वरी श्रीदा भगलिङ्गामृतस्रवा । क्षीराशना क्षीररुचिः आज्यपानपरायणा ॥ १२७॥ मधुपानपरा प्रौढा पीवरांसा परावरा । पिलम्पिला पटोलेशा पाटलारुणलोचना ॥ १२८॥ क्षीराम्बुधिप्रिया क्षिप्रा सरला सरलायुधा । सङ्ग्रामा सुनया स्रस्ता संसृतिः सनकेश्वरी ॥ १२९॥ कन्या कनकरेखा च कान्यकुब्जनिवासिनी । काञ्चनोभतनुः काष्ठा कुष्ठरोगनिवारिणी ॥ १३०॥ कठोरमूर्धजा कुन्ती कृन्तायुधधरा धृतिः । चर्माम्बरा क्रूरनखा चकोराक्षी चतुर्भुजा ॥ १३१॥ चतुर्वेदप्रिया चाद्या चतुर्वर्गफलप्रदा । ब्रह्माण्डचारिणी स्फुर्तिः ब्रह्माणी ब्रह्मसम्मता ॥ १३२॥ सत्कारकारिणी सूतिः सूतिका लतिकालया (९००) कल्पवल्ली कृशाङ्गी च कल्पपादपवासिनी ॥ १३३॥ कल्पपाशा महाविद्या विद्याराज्ञी सुखाश्रया । भूतिराज्ञी विश्वराज्ञी लोकराज्ञी शिवाश्रया ॥ १३४॥ ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया । नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया ॥ १३५॥ सत्त्वराज्ञी तमोराज्ञी गणराज्ञी चलाचला । वसुराज्ञी सत्यराज्ञी तपोराज्ञी जपप्रिया ॥ १३६॥ मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रिया । वेदराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा ॥ १३७॥ कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया । पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ १३८॥ सुधाराज्ञी सुराराज्ञी भीमराज्ञी भयोज्झिता । तथ्यराज्ञी जयाराज्ञी महाराज्ञी महामत्तिः ॥ १३९॥ var महाराज्ञी कुलोकृतिः वामराज्ञी चीनराज्ञी हरिराज्ञी हरीश्वरी । पराराज्ञी यक्षराज्ञी भूतराज्ञी शिवाश्रया ॥ १४०॥ var भूतराज्ञी शिवासना वटुराज्ञी प्रेतराज्ञी शेषराज्ञी शमप्रदा । var बहुराज्ञी प्रेतराज्ञी आकाशराज्ञी राजेशी राजराज्ञी रतिप्रिया ॥ १४१॥ पातालराज्ञी भूराज्ञी प्रेतराज्ञी विषापहा । सिद्धराज्ञी विभाराज्ञी तेजोराज्ञी विभामयी ॥ १४२॥ भास्वद्राज्ञी चन्द्रराज्ञी ताराराज्ञी सुवासिनी । गृहराज्ञी वृक्षराज्ञी लताराज्ञी मतिप्रदा ॥ १४३॥ वीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यपी । var धीरराज्ञी मनोराज्ञी मुनिराज्ञी रत्नराज्ञी मृगराज्ञी मणिप्रभा ॥ १४४॥ var युगराज्ञी मणिप्रभा सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरीस्थिता । नादराज्ञी बिन्दुराज्ञी आत्मराज्ञी च सद्गतिः ॥ १४५॥ पुत्रराज्ञी ध्यानराज्ञी लयराज्ञी सदेश्वरी । ईशानराज्ञी राजेशी स्वाहाराज्ञी महत्तरा ॥ १४६॥ वह्निराज्ञी योगिराज्ञी यज्ञराज्ञी चिदाकृतिः । जगद्राज्ञी तत्त्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ १४७॥ पञ्चदशाक्षरीराज्ञी ॐ ह्रीं भूतेश्वरेश्वरी । ( १०००) इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् ॥ १४८॥ पञ्चदशाक्षरीतत्त्वं मन्त्रसारं मनुप्रियम् । सर्वतत्त्वमयं पुण्यं महापातकनाशनम् ॥ १४९॥ सर्वसिद्धिप्रदं लोके सर्वरोगनिबर्हणम् । सर्वोत्पातप्रशमनं ग्रहशान्तिकरं शुभम् ॥ १५०॥ सर्वदेवप्रियं प्राज्यं सर्वशत्रुभयापहम् । सर्वदुःखौघशमनं सर्वशोकविनाशनम् ॥ १५१॥ पठेद्वा पाठयेत् नाम्नां सहस्रं शक्तिसन्निधौ । दूरादेव पलायन्ते विपदः शत्रुभीतयः ॥ १५२॥ राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः । पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः ॥ १५३॥ श्रवणात्पाताकं नश्येच्छ्रावयेद्यः स भाग्यवान् । नानाविधानि भोगानि सम्भूय पृथिवीतले॥ १५४॥ गमिष्यति परां भूमिं त्वरितं नात्र संशयः । NOTE: The following verses (155-175) are not found in S V Radhakrishna Sastri's Book अश्वमेधसहस्रस्य वाजिपेयस्य कोटयः । गङ्गास्नानसहस्रस्य चान्द्रायणायुतस्य च ॥ १५५॥ तप्तकृच्छेकलक्षस्य राजसूयस्य कोटयः । सहस्रनामपाठस्य कलां नार्हन्ति षोडशीम् ॥ १५६॥ सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् । मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि ॥ १५७॥ वर्षमेकं शतावर्तं महाचीनक्रमाकुलः । शक्रिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि ॥ १५८॥ पुत्रकामी पठेत्सायं चिताभस्मानुलेपनः । दिगम्बरो मुक्तकेशः शतावर्तं महेश्वरि ॥ १५९॥ श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् । परदारार्चनरतो भगबिम्बं स्मरन् सुधीः ॥ १६०॥ पठेन्नामसहस्रं तु वसुकामी लभेद्धनम् । रवौ वारत्रयं देवि पठेन्नामसहस्रकम् ॥ १६१॥ मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः । स्वप्ने सिंहासनां राज्ञीं वरदां भुवि पश्यति ॥ १६२॥ क्षीरचर्वणसन्तृप्तो वीरपानरसाकुलः । यः पठेत्परया भक्त्या राज्ञीनामसहस्रकम् ॥ १६३॥ स सद्यो मुच्यते घोरान्महापातकजाद्भयात् । यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः ॥ १६४॥ शुक्रोत्तरणकाले तु तस्य हस्तेऽष्टसिद्धयः । यः पठेन्निशि चक्राग्रे परस्त्रीध्यानतत्परः ॥ १६५॥ सुरासवरसानन्दी स लभेत्संयुगे जयम् । इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे ॥ १६६॥ भूर्जत्वचि लिखेद्रात्रौ चक्रार्चनसमागमे । अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके ॥ १६७॥ धारयेत् कण्ठदेशे तु सर्वसिद्धिः प्रजायते । यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम् ॥ १६८॥ रणे राजकुले द्यूते चौररोगाद्युपद्रवे । स प्राप्नोति जयं सद्यः साधको वीरनायकः ॥ १६९॥ श्रीचक्रं पूजयेद्यस्तु धारयेद्वर्म मस्तके । पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा ॥ १७०॥ किं किं न लभते कामं देवानामपि दुर्लभम् । सुरापानं ततः संविच्चर्वणं मीनमांसकम् ॥ १७१॥ नवकन्यासमायोगो मुद्रा वीणारवः प्रिये । सत्सङ्गो गुरुसान्निध्यं राज्ञीश्रीचक्रमग्रतः ॥ १७२॥ यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः । इदं रहस्यं परमं भक्त्या तव मयोदितम् ॥ १७२॥ अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् । अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने ॥ १७४॥ गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च । नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः ॥ १७५॥ NOTE: S V Radhakrishna Sastri's Book continues with the following: देयं शिष्याय शान्ताय भक्तायाद्वैतवादिने । दीक्षिताय कुलीनाय राज्ञीभक्तिरताय च ॥ १७६॥ दत्त्वा भोगापवर्गे च लभेत्साधकसत्तमः । इति नामसहस्रं तु राज्ञ्याः शिवमुखोदितम् । अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७७॥ NOTE: the following two extra shlokams are found in S V Radhakrishna Sastri's Book अष्टाविंशतिनैजमान्यमुनिभिः भाव्यां महायोगिभिः श्रीवाणीकरवीजितां सुमकुटां श्रीचक्रबिन्दुस्थितां । पञ्चब्रह्मसुतत्वमञ्चनिलयां साम्राज्यसिद्धिप्रदां श्रीसिंहासनसुन्दरीं भगवतीं राजेश्वरीमाश्रये ॥ १॥ श्वेतछत्रसुवालवीजननुता मालाकिरीटोज्ज्वला सन्मन्दस्मितसुन्दरी शशिधरा ताम्बूलपूर्णानना । श्रीसिंहासनसंस्थिता सुमशरा श्रीवीरवर्यासना साम्राज्ञी मनुषोडशी भगवती मां पातु राजेश्वरी ॥ २॥ ॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये श्रीमहाराज्ञीसहस्रनामस्तोत्रम् समाप्तम् ॥ This work was proof read using the version found in S V Radhakrishna Sastri's Book, ᳚shrI bhagavatI stutima~njarI᳚ (pages 158-173). We find a few extra verses here, that are not found in this book. In Radhakrishna Sastri's book, the verse sequence 1-156 starts from the following shlokam. Also, in verse No. 49, SVR's book uses six padas (3 lines instead of four padas in 2 lines), so the actual count in the book and the encoded version may be slightly different. The var is used to indicate variation or pAThabheda found in two different prints.