अक्षर आकार:

महामारीस्तोत्रम्

Mahamaristotram

महामारीस्तोत्रम्

श्रीगणेशाय नमः ॥ देव्युवाच । पुरा ब्रह्मा तु मां सृष्ट्वा समाहूयाब्रवीद्वचः । श‍ृणु मे वचनं पुत्रि कुरुष्वाद्याथ सादरम् ॥ १॥ कलौ जना दुराचारा राजानश्च तथाविधाः । अतो गत्वा भुवं देवि मृत्युरूपा भवाशु च ॥ २॥ परद्रव्यापहर्तारः परस्त्रीनिरताः सदा । देवस्वहरणे सक्ता ब्रह्मस्वहरणे नृप ॥ ३॥ तेषां दोषवशात्त्वं तु जनान् संहर नित्यशः । ब्रह्मणैवं समादिष्टा इन्द्राद्यैः सुरसत्तमैः ॥ ४॥ भुवं समागता तत्र जनाञ्ज्ञात्वाथ पापिनः । राज्ञो दोषान्पुरस्कृत्य ग्रामे ग्रामे वसाम्यहम् । तत्रापि पापिनो हत्वा पुनर्ग्रामान्तरं भजे ॥ ५॥ एवं देशानटित्वाऽहं सर्वान्संहृत्य वै जनान् । पुनर्गच्छामि सदनं ब्रह्मणः परमेष्ठिनः ॥ ६॥ एवं मदागमं ज्ञात्वा बुद्धिमान्पुण्यकृन्नरः । विचार्य शास्त्रतो नित्यं जागरूको भवेदलम् ॥ ७॥ पतन्ति मूषिका यत्र नृत्यन्ति विरमन्ति च । तद्गृहं तत्क्षणं त्यक्त्वा सकुटुम्बो वने विशेत् ॥ ८॥ तत्र शान्तिं प्रकुर्वीत महादेव्याः समीरिताम् । जपित्वा च महामन्त्रं पठित्वा स्तोत्रमुत्तमम् ॥ ९॥ ``ॐ नमो भगवति महामारिके मृत्युरूपिणि सकुटुम्बं मामव स्वाहा ।'' वने जलाशयं गत्वा ऊर्ध्वबाहुरधोमुखः । वीरासने चोपविश्य जपेन्मन्त्रं सहस्रशः ॥ १०॥ संस्थाप्य प्रतिमां तत्र धूपदीपोपहारकैः । सम्पूज्य विधिवत्पश्चाज्जुहुयात्प्रत्यहं नरः ॥ ११॥ हरिद्राचूर्णमिश्रेण चित्रान्नेनैव संयुतः । समिद्भिः खदिरैर्भक्त्या ब्राह्मणैश्च समन्वितः ॥ १२॥ पत्नीपुत्रात्मभृत्यैश्च जुहुयादनुवासरम् । होमान्ते च पठेन्नित्यं स्तोत्रमेतज्जितेन्द्रियः ॥ १३॥ नमो देवि महादेवि सर्वशोकवशङ्करी । सर्वदा सर्वतो मह्यं कृपां कुरु कृपामयि ॥ १४॥ मेरौ कैलासशिखरे हेमाद्रौ गन्धमादने । नित्यप्रियकृतावासे मद्यमांसबलिप्रिये ॥ १५॥ महासैन्यसमायुक्ते सर्वप्राणविहिंसके । सर्वाभिचारिके देवि सर्वं त्वं रक्ष सर्वदा ॥ १६॥ यत्र कुत्र स्थले वापि यस्मिन् कस्मिन् यदा तदा । रक्ष मां रक्ष मां देवि सपुत्रपशुभृत्यकम् ॥ १७॥ माङ्गल्यं मङ्गलं देहि महामङ्गलदायिनि । लोकानामभये सर्वमङ्गले मङ्गलप्रिये ॥ १८॥ इति स्तुत्वा महादेवीं भक्तिभावेन संयुतः । भुञ्जीत स्वजनैर्युक्तो देवीं तां मनसा स्मरन् ॥ १९॥ यदा स्वगृहचैत्येषु ध्वाङ्क्षरावो भविष्यति । काकशान्तिं ततः कृत्वा गृहं गन्तुमुपक्रमेत् ॥ २०॥ सुमुहूर्ते सुनक्षत्रे स्वलङ्कृत्य ततो गृहम् । ब्राह्मणैर्बन्धुभिः सार्धं संविशेद्गृहमात्मनः ॥ २१॥ स्वस्तिवाचनविप्रेभ्यः शान्तिसूक्तोक्तिपूर्वकम् । दक्षिणां च हिरण्यादिं दद्याच्छाट्यविवर्जितः ॥ २२॥ ब्राह्मणान्भोजयित्वा च देवीं तां प्रार्थयेद्गृहे । गच्छ गच्छ महादेवि स्वस्थानं मङ्गलं कुरु ॥ २३॥ एवं कृत्यविधानेन मारिकाशान्तिरुत्तमा । जायते नात्र सन्देहः सत्यं सत्यं समीरितम् ॥ २४॥ इत्येतत्कथितं देव्या देवेभ्यः स्वात्मसम्भवम् । माहात्म्यं पठितं येन सोऽपि माङ्गल्यमाप्नुयात् ॥ २५॥ लिखितं पुस्तकं यस्य गृहे तिष्ठति सर्वदा । तस्य मारीभयं नास्ति सत्यं सत्यं मयोदितम् ॥ २६॥ पुस्तकं पूजयेद्यस्तु श्रद्धया परया सदा । सोऽपि माङ्गल्यमाप्नोति इहामुत्र परां गतिम् ॥ २७॥ सर्वं त्यक्त्वा साधयेत देवीं यत्नैर्धनैरपि । स्तोष्यन्ति परया भक्त्या सर्वकामार्थसिद्धये ॥ २८॥ बिडाला यत्र नश्यन्ति यत्र नश्यन्ति मूषिकाः । स्थानं तच्च परित्यज्य स्थानं शून्यं च कारयेत् ॥ २९॥ इति श्रीदेवीपुराणे श्रीमहामारिकास्तोत्रं सम्पूर्णम् ॥