अक्षर आकार:

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्

Putrapraptikaram Shri Mahalaxmi Stotram

पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रम्

अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ १॥ नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ २॥ व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ३॥ भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४॥ अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५॥ सर्पदैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ६॥ भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ७॥ सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् । श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ८॥ ॥ इति श्रीकरवीरमाहात्म्ये पराशरकृतं पुत्रप्राप्तिकरं श्रीमहालक्ष्मीस्तोत्रं सम्पूर्णम् ॥