अक्षर आकार:

श्रीमहालक्ष्मीस्तवकवचपूजा

Shri Mahalakshmi stavakavachapuja

श्रीमहालक्ष्मीस्तवकवचपूजा

श्रीगणेशाय नमः । नारद उवाच । आविर्भूय हरिस्तस्मै किं स्तोत्रं कवचं ददौ । महालक्ष्म्याश्च लक्ष्मीशस्तन्मे ब्रूहि तपोधन ॥ १॥ नारायण उवाच । पुष्करे च तपस्तप्त्वा विरराम सुरेश्वरः । आविर्बभूव तत्रैव क्लिष्टं दृष्ट्वा हरिः स्वयम् ॥ २॥ तमुवाच हृषीकेशो वरं वृणु यथेप्सितम् । स च वव्रे वरं लक्ष्मीमीशस्तस्मै ददौ मुदा ॥ ३॥ वरं दत्त्वा हृषीकेशः प्रवक्तुमुपचक्रमे । हितं सत्यं च सारं च परिणामसुखावहम् ॥ ४॥ मधुसूदन उवाच । गृहाण कवचं शक्र सर्वदुःखविनाशनम् । परमैश्वर्यजनकं सर्वशत्रुविमर्दनम् ॥ ५॥ ब्रह्मणे च पुरा दत्तं विष्टपे च जलप्लुते । यद्धृत्वा जगतां श्रेष्ठः सर्वैश्वर्ययुतो विधिः ॥ ६॥ बभूवुर्मनवः सर्वे सर्वैश्वर्ययुता यतः । सर्वैश्वर्यप्रदस्यास्य कवचस्य ऋषिर्विधिः ॥ ७॥ पङ्क्तिश्छन्दश्च सा देवी स्वयं पद्मालया वरा । सिद्ध्यैश्वर्यसुखेष्वेव विनियोगः प्रकीर्तितः ॥ ८॥ यद्धृत्वा कवचं लोकः सर्वत्र विजयी भवेत् । मस्तकं पातु मे पद्मा कण्ठं पातु हरिप्रिया ॥ ९॥ नासिकां पातु मे लक्ष्मीः कमला पातु लोचने । केशान्केशवकान्ता च कपालं कमलालया ॥ १०॥ जगत्प्रसूर्गण्डयुग्मं स्कन्धं सम्पत्प्रदा सदा । ॐ श्रीं कमलवासिन्यै स्वाहा पृष्ठं सदाऽवतु ॥ ११॥ ॐ ह्रीं श्रीं पद्मालयायै स्वाहा वक्षः सदाऽवतु । पातु श्रीर्मम कङ्कालं बाहुयुग्मं च ते नमः ॥ १२॥ ॐ ह्रीं श्रीं लक्ष्म्यै नमः पादौ पातु मे सन्ततं चिरम् । ॐ ह्रीं श्रीं नमः पद्मायै स्वाहा पातु नितम्बकम् ॥ १३॥ ॐ श्रीं महालक्ष्म्यै स्वाहा सर्वाङ्गं पातु मे सदा । ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मां पातु सर्वतः ॥ १४॥ इति ते कथितं वत्स सर्वसम्पत्करं परम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १५॥ गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ स सर्वविजयी भवेत् ॥ १६॥ महालक्ष्मीर्गृहं तस्य न जहाति कदाचन । तस्यच्छायेव सततं सा च जन्मनि जन्मनि ॥ १७॥ इदं कवचमज्ञात्वा भजेल्लक्ष्मीं स मन्दधीः । शतलक्षप्रजापेऽपि न मन्त्रः सिद्धिदायकः ॥ १८॥ नारायण उवाच । दत्त्वा तस्मै च कवचं मन्त्रं वै षोडशाक्षरम् । सन्तुष्टश्च जगन्नाथो जगतां हितकारणम् ॥ १९॥ ॐ ह्रीं श्रीं क्लीं नमो महालक्ष्म्यै स्वाहा । ददौ तस्मै च कृपया चेन्द्राय च महामुने ॥ २०॥ ध्यानं च सामवेदोक्तं गोपनीयं सुदुर्लभम् । सिद्धैर्मुनीन्द्रैर्दुष्प्राप्यं ध्रुवं सिद्धिप्रदं शुभम् ॥ २१॥ श्वेतचम्पकवर्णाभां शतचन्द्रसमप्रभाम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २२॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् । कस्तूरीबिन्दुमध्यस्थं सिन्दूरं भूषणं तथा ॥ २३॥ अमूल्यरत्नरचितकुण्डलोज्ज्वलभूषणम् । बिम्रती कबरीभारं मालतीमाल्यशोभितम् ॥ २४॥ सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् । शान्तां च श्रीहरेः कान्तां तां भजेज्जगतां प्रसूम् ॥ २५॥ ध्यानेनानेन देवेन्द्रो ध्यात्वा लक्ष्मीं मनोहराम् । भक्त्या सम्पूज्य तस्यै च चोपचारांस्तु षोडश ॥ २६॥ स्तुत्वाऽनेन स्तवेनैव वक्ष्यमाणेन वासव । नत्वा वरं गृहीत्वा च लभिष्यसि च निर्वृतिम् ॥ २७॥ स्तवनं श‍ृणु देवेन्द्र महालक्ष्म्याः सुखप्रदम् । कथयामि सुगोप्यं च त्रिषु लोकेषु दुर्लभम् ॥ २८॥ नारायण उवाच । देवि त्वां स्तोतुमिच्छामि न क्षमाः स्तोतुमीश्वराः । बुद्धेरगोचरां सूक्ष्मां तेजोरूपां सनातनीम् । अत्यनिर्वचनीयां च को वा निर्वक्तुमीश्वरः ॥ २९॥ स्वेच्छामयीं निराकारां भक्तानुग्रहविग्रहाम् । स्तौमि वाङ्मनसोः पारां किंवाऽहं जगदम्बिके ॥ ३०॥ परां चतुर्णां वेदानां पारबीजं भवार्णवे । सर्वसस्याधिदेवीं च सर्वासामपि सम्पदाम् ॥ ३१॥ योगिनां चैव योगानां ज्ञानानां ज्ञानिनां तथा । वेदानां वै वेदविदां जननीं वर्णयामि किम् ॥ ३२॥ यया विना जगत्सर्वमबीजं निष्फलं ध्रुवम् । यथा स्तनन्धयानां च विना मात्रा सुखं भवेत् ॥ ३३॥ प्रसीद जगतां माता रक्षास्मानतिकातरान् । वयं त्वच्चरणाम्भोजे प्रपन्नाः शरणं गताः ॥ ३४॥ नमः शक्तिस्वरूपायै जगन्मात्रे नमो नमः । ज्ञानदायै बुद्धिदायै सर्वदायै नमो नमः ॥ ३५॥ हरिभक्तिप्रदायिन्यै मुक्तिदायै नमो नमः । सर्वज्ञायै सर्वदायै महालक्ष्म्यै नमो नमः ॥ ३६॥ कुपुत्राः कुत्रचित्सन्ति न कुत्रापि कुमातरः । कुत्र माता पुत्रदोषं तं विहाय च गच्छति ॥ ३७॥ स्तनन्धयेभ्य इव मे हे मातर्देहि दर्शनम् । कृपां कुरु कृपासिन्धो त्वमस्मान्भक्तवत्सले ॥ ३८॥ इत्येवं कथितं वत्स पद्मायाश्च शुभावहम् । सुखदं मोक्षदं सारं शुभदं सम्पदः प्रदम् ॥ ३९॥ इदं स्तोत्रं महापुण्यं पूजाकाले च यः पठेत् । महालक्ष्मीर्गृहं तस्य न जहाति कदाचन ॥ ४०॥ इत्युक्त्वा श्रीहरिस्तं च तत्रैवान्तरधीयत । देवो जगाम क्षीरोदं सुरैः सार्धं तदाज्ञया ॥ ४१॥ ॥ इति श्रीब्रह्मवैवर्तमहापुराणे गणपतिखण्डे नारदनारायणसंवादे लक्ष्मीस्तवकवचपूजाकथनं नाम द्वाविंशोऽध्यायः ॥ २२॥