अक्षर आकार:

महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्

mahAlakShmIchaturviMshatinAmastotram

महालक्ष्मीचतुर्विंशतिनामस्तोत्रम्

नमःश्रियै लोकधात्र्यै ब्रह्ममात्रे नमो नमः । नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ॥ प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः । नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः ॥ विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः । पक्वबिल्वफलापीनतुञ्गस्तन्यै नमो नमः ॥ सुरक्तपद्मपत्राभकरपादतले शुभे । सरत्नाञ्गदकेयूरकाङ्चीनूपुरशोभिते ॥ यक्षकर्दमसंलिप्तसर्वाञ्गे कटकोज्ज्वले । माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषिते ॥ ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजे । पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे ॥ ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः । प्रसीदास्मान् कृपादृष्टिपातैरालोकयाब्धिजे ॥ ये स्थानहीनाः स्वस्थानात् श्रुत्वा स्थानमवाप्नुयुः । इति श्रीवेङ्कटेशमहिषी महालक्ष्मीचतुर्विंशतिनामस्तोत्रम् ॥