अक्षर आकार:

महालक्ष्मीचतुर्विंशतिनामावलिः

mahAlakShmIchaturviMshatinAmAvaliH

महालक्ष्मीचतुर्विंशतिनामावलिः

श्रीवेङ्कटेशमहिषी महलक्ष्मी प्रीत्यर्थं श्रीवेङ्कटेशमहिषीमहालक्ष्मी चतुर्विंशति नामभिः श्रीवेङ्ककटेशमहिषी महालक्ष्म्यर्चनं करिष्ये ॥ अस्य श्रीमहलक्ष्मी चतुर्विंशतिनाम मन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीमहालक्ष्मीर्देवता । श्रीवेङ्कटेशमहिषीमहालक्ष्मीप्रीत्यर्धे जपे विनियोगः । ध्यानम् - ईशानां जगतोस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १ ॐ श्रियै नमः । २ ॐ लोकधात्र्यै नमः । ३ ॐ ब्रह्ममात्रे नमः । ४ ॐ पद्मनेत्रायै नमः । ५ ॐ पद्ममुख्यै नमः । ६ ॐ प्रसन्नमुखपद्मायै नमः । ७ ॐ पद्मकान्त्यै नमः । ८ ॐ बिल्ववनस्थायै नमः । ९ ॐ विष्णुपत्न्यै नमः । १० ॐ विचित्रक्षौमधारिण्यै नमः । ११ ॐ पृथुश्रोण्यै नमः । १२ ॐ पक्वबिल्वफलापीनतुङ्गस्थन्यै नमः । १३ ॐ सुरक्तपद्मपत्राभकरपादतलायै नमः । १४ ॐ शुभायै नमः । १५ ॐ सरत्नाङ्गदकेयूरकाङ्चीनूपुरशोभितायै नमः । १६ ॐ यक्षकर्दमसंलिप्तसर्वाङ्गायै नमः । १७ ॐ कटकोज्ज्वलायै नमः । १८ ॐ माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैर्विभूषितायै नमः । १९ ॐ ताटङ्कैरवतंसैश्च शोभमानमुखाम्बुजायै नमः । २० ॐ पद्महस्तायै नमः । २१ ॐ हरिवल्लभायै नमः । २२ ॐ ऋग्यजुस्सामरूपायै नमः । २३ ॐ विद्यायै नमः । २४ ॐ अब्धिजायै नमः ॥ एवं चतुर्विंशतिनामभिः बिल्वपत्रैर्लक्ष्म्यर्चनं कुर्यात् । सर्वाभीष्टसिद्धिर्भवति ॥ इति चतुर्विंशतिनामावलिः ।