अक्षर आकार:

महागायत्रीलीलास्तुती

Mahagayatrililastuti

महागायत्रीलीलास्तुती

ॐ अथ महागायत्रीलीलास्तुतिः । सदा गवेषयन् जगत्रयेषु वेदमातरं चिदात्मना कृतस्थितं समत्र चाद्य लब्धवान् । उदस्रु गददं महोदयात्प्रणौमि भक्तिनौकया सुदुस्तरं द्रुतं तितीर्षुरापदर्णवम् ॥ १॥ सुहीनलोकपातिनी सतां कृपाऽतिशोभते ह्यत्सुधांशुचक्षुषे क्षयाम्ब ! माद्यशं जनम् । नवापि हीयते तवेषदीशि ! पालनेननो भवाद्यतः कुपुत्रता न भासते प्रसूह्रदि ॥ २। नमामि मुक्तविद्रुमप्रतप्तहाटकाऽसिता- वदातवर्णसुन्दरैः षडर्धलोललोचनैः । सरोजषण्डबान्धवप्रतप्तपावकप्रभैः किरीटरत्नरञ्जितैः सुधांशुखण्डमण्डितैः ॥ ३॥ मुखैर्दशार्धसंमितैर्विराजमानविग्रहां सुरेशचापसप्रभां समस्तदेववन्दिताम् । वराभयाङ्कुशान्वितैः कपालशूल शंख- चक्रसारसद्वयीगुणाङ्कितैः करैर्विराजिताम् ॥ ४॥ भवद्रुमस्य मूलतां गतां मुनीन्द्रवन्दिताम् अखण्ड भावमण्डलप्रकाशकारिणीं शिवाम् । समस्तदेवतामयीं समस्त सिद्धिदयिनीम् पूर्वरूप विग्रहां सरस्वतीं भवार्तिहाम् ॥ ५॥ शुचीन्दुसूर्यलोचनां शुचीन्दुसूर्य विग्रहाम् शुचीन्दुसूर्यसङ्गमस्वभावशालिनीं शुभाम् । पदद्वयानुकम्पितस्वशक्तिचक्रसेवितां परेशशक्तिमुत्तमां भजे त्रिलोकसुन्दरीम् ॥ ६॥ महामहेश्वरी जगद्विसर्गसुस्थितिक्षय- स्वतंत्रता शरीरिणी बभूव या महेशितुः । द्विपत्रितादिभेदतो लतायमानविग्रहा त्रयीश्वरी सदा तु सा जगङ्जयाय जायताम् ॥ ७॥ नमामि तन्मुखारविन्दपञ्चकं मलापहं गलैकनालकं सदाविकासि भक्तिसम्भवम् । स्वभक्तहंससेवितं शुचीन्दुपद्मबन्धवः प्रतीकभूतविग्रहा गता हि यत्र पञ्चताम् ॥ ८॥ भवार्णवेऽतिदुःसहस्मराधिदिग्धमानसं षडूर्मिनित्यपीडितं जनं दिधीर्षुमानसा । श्रुतिध्वनिस्फुरन्मुखारविन्दभूसुरैः सदा त्रिसन्ध्यमीश्वरी नुताऽस्तु सा सुखप्रदा हि नः ॥ ९॥ त्रयीप्रसूः स्वदृष्टिपातधूतभक्तकल्मषा समैर्जुनैर्नुता मुदा स्ववर्णधर्मभेदतः । निलिम्पनिम्नगामिषेण पादद्यौतजं जलं यदीयमागतं क्षिर्ति तनोतु नः शिवं तु सा ॥ १०॥ स्वदम्भवञ्चिताखिलं कुभोगसक्तमानसं सदाऽशुचिं कुमार्गगं शठं च शङ्कसे यदि । कथं स्वपादचिन्तनोत्थवैभवं नहीश्वरि ! यतोङ्व्रिचिन्तकं दयादृशेक्षसे न माद्यशम् ॥ ११॥ अनेकदोषदूषितेष्वनिर्विवेचना सती स्वतंत्रशक्तिरीश्वरी भवाधनाशकारिणी । कृपामयीम् दृशं विधाय सा स्वभक्तिपात्रितं स्वपत्कजे मधुव्रतं करोतु मामहर्निशम् ॥ १२॥ त्रिसन्ध्यमिष्टदैवतं सुकेशवास्यजं स्तवं स्मरन् हृदीद्धभावनो विधाय वेदमातरम् । विधूय पापसंचयं वितीर्य कीर्तिमुत्तमाम्- इह त्वमुत्र कैवलं पदं स याति निर्भयम् ॥ १३॥ इति श्रीमहागायत्रीलीलास्तुतिः ।