अक्षर आकार:

मूर्तिरहस्यम्

mUrtirahasyam

मूर्तिरहस्यम्

श्रीगणेशाय नमः ॥ ऋषिरुवाच ॥ नन्दा भगवती नाम या भविष्यति नन्दजा । सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् ॥ १॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा । देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २॥ कनकाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा । इदिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना ॥ ३॥ या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ । तस्याः स्वरूपं वक्ष्यामि श‍ृणु सर्वभयापहम् ॥ ४॥ रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा । रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ ५॥ रक्ततीक्ष्णनखा रक्तदशना रक्तदंष्ट्रिका । पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ ६॥ वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥ दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ ७॥ कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी । भक्तान्सपाययेद्देवी सर्वकामदुधौ स्तनौ ॥ ८॥ खङ्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ९॥ अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् । इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १०॥ अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ११॥ शाकम्भरी नीलवर्णा नीलोत्पलविलोचना । गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२॥ सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी । मुष्टिं शिलीमुखैः पूर्णं कमलं कमलालया ॥ १३॥ पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् । काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम् ॥ १४॥ कार्मुकं च स्फुरत्कान्ति बिभर्ति परमेश्वरी । शाकम्भरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता ॥ १५॥ शाकम्भरीं स्तुवन्ध्यायन् जपन्सम्पूजयन्नमन् । अक्षव्यमश्नुते शीघ्रमन्नपानादि सर्वशः ॥ १६॥ भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा । विशाललोचना नारी वृत्तपीनघनस्तनी ॥ १७॥ चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती । एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १८॥ तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् । चित्रभ्रमरसङ्काशा महामारीति गीयते ॥ १९॥ इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप । जगन्मातुश्चडिकायाः कीर्तिताः कामधेनवः ॥ २०॥ इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् । व्याख्यानं दिव्यमूर्तीनामधीष्वावहितः स्वयम् ॥ २१॥ देव्या ध्यानं तवाख्यातं गुह्याद्गुह्यतरं महत् । तस्मात्सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २२॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मूर्तिरहस्यं सम्पूर्णम् ॥ अध्याय १६ See also prAdhAnikarahasyam and vaikRitikarahasyaM