अक्षर आकार:

श्रीमूकाम्बिका सुप्रभातं

Shri Mukambika Suprabhatam

श्रीमूकाम्बिका सुप्रभातं

उत्तिष्ठोत्तिष्ठ मूकाम्बा उत्तिष्ठ जगदीश्वरि । निद्रां मुञ्च महामाये त्रिलोकीं परिपालय ॥ १॥ ब्रह्मर्षिसिद्धमुनिसङ्घमुपेत्य देवि त्वद्द्वारदेशमधितिष्ठति दर्शनार्थम् । निद्रां जहि ह्यमलभक्तजनानुकम्पे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २॥ ब्रह्मेन्द्ररुद्रवरुणा भगवाननन्त- शेषो धनेश शशिभास्करवह्निमुख्याः । तत्त्वं त्वदीयमवगन्तुमुपस्थितास्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३॥ वाल्मीकिकश्यपपराशरगौतमादि- भृग्वङ्गिरा सनकनारदवामदेवाः । द्वार्यागताः सगुणरूपमुपासितुं ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४॥ विद्याधरप्रमथकिन्नरयक्षनाग- गन्धर्वसिद्धपितरश्च समास्थितास्ते । द्रष्टुं तवाङ्घ्रियुगलं कृतकृत्यतार्थं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ५॥ त्वद्दर्शनाय विधिवद्विहिताग्निहोत्रा तिष्ठन्त्युपायनकरा ऋषयो मुनीन्द्राः । उत्तिष्ठ जागृहि महेश्वरि मुञ्च निद्रां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ६॥ क्षेत्रं महद्फलदमन्यसुकर्मकर्तुः कोलापुरं तव महीतलपुण्यभूमिम् । आयान्ति साधकजनास्तपसेऽतिदूरात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ७॥ इत्थं पुरश्चरणयोग्यमतिप्रशान्तं क्षेत्रं पवित्रमिह सिद्धजना वसन्ति । त्वत्सन्निधौ भवभयार्तिविनाशनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ८॥ त्रैयन्तवेद्यविभवे निगमातिदूरे सृष्टिस्थितिप्रलयकारिणि सर्वनाथे । भक्तार्तिनाशिनि सदाचरणप्रसन्ने मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ९॥ कल्याणि मङ्गलमये निजबोधरूपे भक्तेष्टदाननिरते भवसिन्धुसेतो । कोलर्षिनारदमुखैरुपगीतकीर्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १०॥ श्रीमन्महेश्वरि सदाशिववल्लभेति कामेश्वरीति भजतां भयहारिणीति । वागीश्वरीति मनसां वचसामगम्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ११॥ सर्वाश्रिते जननि चन्द्रकलावतंसे कम्भासुरासुहरशक्तिधरे भवानि । मूकाम्बिकेति सततं प्रवदन्ति सन्तः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १२॥ इन्द्रादि सर्वविबुधामलशक्तिराशे मूकासुराख्यखलदानवदर्पनाशे । चन्द्रार्धधारिणि लसच्छुभभालदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १३॥ शैलाधिराजतनये परदिव्यरूपे शुम्भासुरप्रमुखदैत्यविनाशशीले । सद्वृत्तभक्तजनदुःखभयार्तिहन्त्रि मुकाम्बिके परशिवे तव सुप्रभातम् ॥ १४॥ त्वं भक्तरक्षणविधौ विविधस्वरूपं धृत्वा विनाशयसि दुष्टजनं सलीलम् । एतेन ते प्रकटिता भजकानुकम्पा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १५॥ ज्योतिर्मयं निखिलदैवतसारभूतं सर्वार्तिहं मुनिसुरार्चितदिव्यलिङ्गम् । कोलापुरे लसति गर्भगृहे त्वदीये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १६॥ निष्कामभक्तनिवहाच्च सकामकाच्च जिज्ञासवत्सहृदयाच्च नितान्तभक्त्या । स्वस्वाधिकारमनुसृत्य भजन्ति सर्वे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १७॥ श्रद्धालवो जपतपश्चरणानुरक्ताः कुर्वन्ति साधनमसह्यमपि त्वदीयाः । सिद्धिं प्रयान्ति च ततत्पदमग्रहेण variation ततः परमश्रमेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १८॥ संसारसागरसमुद्धराणैकहेतोः सर्वाभिलाषमपहाय भजन्त्यनन्याः। तेषां प्रसीदसि मनोरथपूरणाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १९॥ त्वत्पादपद्मभजनार्चनतत्पराणां मातर्भयं भरसि भावुकसज्जनानाम् । त्वत्सेवनाद्विगतकल्मषमानसानां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २०॥ सौम्यं वपुः सुललितं तव सुप्रसन्नं शिष्टेषु कोमलतमं सदयं तथापि । दुष्टेषु निर्दयमतीव भयं करोति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २१॥ सञ्चिन्तये यदि गतं तव सौम्यरूपं श्रीपाञ्चजन्यवरदाभयचक्रहस्तम् । पद्मासनोपरि रतं स्मितहास्ययुक्तं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २२॥ आलस्यदोषनिहताः खलु भाग्यहीनाः प्रारब्धकर्म बलवन्मनुजा वदन्ति । ते तु प्रयत्नविमुखाः प्रपतन्ति दुःखे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २३॥ चित्तस्य शुद्धिमखिलस्य ममास्तु कर्म सत्कर्मशुद्धहृदये मनुजो विकारी । शुद्धिं विना न मनसो निजबोधलाभः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २४॥ सर्वत्र चञ्चलतरं भ्रममाणदीनं मां पालय ह्यविरतं दययेति मातः । विश्वासतस्तवपदं शरणं प्रपद्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २५॥ नाहं तपश्चरणमर्चनसाधनं वा जानामि कर्तुमभयं कुरु पाहि मातः । जाने न केवलविधिं किमपीह दीनः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २६॥ भावेन देशमनिशं वशमानयन्ति भावोऽपि कारणमतः कवयो वदन्ति । त्याकेशसादृशमिहाद्य भवानि भावं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २७॥ यद्भावनान्वितहृदा भवतीं भजन्ति तद्भावनानुसरणं च तव स्वभावः । तस्माद्भजामि भवबन्धविमोचनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २८॥ यादन्तरङ्गदमनं विषयेषु शान्तिः दान्तिश्च बाह्यविषयेषु विनिग्रहाख्या । शीतोष्णदुःखसूखयोः सहनं तितिक्षा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २९॥ वेदोक्तकर्मनिचयाचरणेन नित्यं वाक्कायमानसिकपापसमूलनाशम् । वाञ्छन्ति भावुकजनस्त्वदनुग्रहेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३०॥ शक्तिस्तु सर्वजगतां तव देव्यधीना विश्वं सृजस्यवसि हंसि च देवि काले । लिलेयमीश्वरि तवातुलदिव्यरूपे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३१॥ मोहान्धकारचरमूढजनो न चैतत् जानाति देवि जगतीति तवैव माया । मायास्वरूपमवलम्ब्य तनोषि विश्वं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३२॥ सृष्ट्वा चराचरमिदं जगदात्मशक्त्या तस्मिन्प्रविश्य विविधं च तनोषि रूपम् । तस्मान्न चास्ति किमपीह विना त्वयात्र मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३३॥ धूम्राक्षलोहितभवौ मधुकैटभौ च चण्डं च मुण्डमपि शुम्भनिशुम्भ सौख्यौ । दुर्गेति हंसि जगतः सुखशान्तिसिद्ध्यै मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३४॥ दुर्गेति दुर्गतिहरं तव नामधेयं श्रीशाम्भवीति च सुखङ्करमप्रमेयम् । संसारसागरसमुद्धरणं शिवेति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३५॥ तेजोमयं सुरमणीयमति प्रसन्नं अत्यन्तसुन्दरमतीव मनोभिरामम् । स्वेच्छाधृतं ललितरूपमिदं त्वदीयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३६॥ सच्चित्सुखं तु निगमागमशास्त्रसारं ज्ञानं तु शोभनमतीन्द्रियकं सुवेद्यम् । श्रुत्यैव सद्गुरुमुखादधिगम्यमम्ब मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३७॥ केचित् स्वकर्मफलमेव वदन्ति धीराः भक्तिं तथा नवविधामपरे महान्तः । अन्ये विरक्तिमतुलां परमाप्तिमाहुः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३८॥ श्रद्धासि देवि निखिलागमकर्ममूला भ्रान्तिश्च मोहजननेन भयार्तिमूला । त्वत्सेवया जनहितं विधितुं समर्थः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३९॥ कामेश्वरि प्रणतभक्तजनानुकम्पे सर्वान्तरङ्गयमुने परिपूर्णरूपे । मामुद्धरोद्धर भवाद्भवतापहन्त्रि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४०॥ बुद्धिप्रचोदिनि चराचरविश्वरूपे निष्कल्मषं कुरु महेशि ममान्तरङ्गम् । मज्जन्मसार्थकमिहास्तु तव प्रसादात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४१॥ सा त्वं दयामयि मयेप्सित भुक्तिमुक्तिं सर्वं प्रदापय जगज्जननीशपूज्ये । सर्वज्ञतासि तव देवि महानुभावे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४२॥ ऐश्वर्यवन्तरहितं कमलालये त्वं ज्ञानं च सर्वविषयं तव देहि मह्यम् । आनन्दतुन्दिलमनोरथमप्रमेयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४३॥ एकापि सर्वगतया त्वमनेकरूपा अन्तो न लभ्यत इति त्वमनन्तरूपा । सूक्ष्मातिसूक्ष्मकतया त्वमलक्ष्यरूपा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४४॥ शान्तं विशिष्टकमनीयकलाविचित्रं सान्निध्यपूर्णमतिसुन्दरमन्दिरं ते । प्राराजते कुटजपर्वतमूलदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४५॥ अष्टाधिकेषु विविधेष्वपि शक्तिपीठेषु अष्टादशेष्वपि तथा नवकोटिमूर्तिः । एकाप्यनेकशुभरूपधरा विभासि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४६॥ नानुष्ठितं किमपि सार्थककारि कार्यं लब्ध्वापि चोत्तमजनिं सुविचारमग्नम् । तापत्रयार्थभयभीतमिमं प्रपाहि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४७॥ त्वन्नामरूपममलं निगमार्थसारं नित्यं निरञ्जनमनन्तमजं पुराणम् । ब्रह्मेति शाश्वतमखण्डसुखं वदन्ति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४८॥ स्वान्तःसुखाय वरदे सुमतिप्रकाशं कृत्वाव मामिति पुनःपुनरर्थयामि । सच्चित्सुखानुभवशान्तिहृदं कुरुष्व मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४९॥ त्वद्दासदासगणनायकसत्यशास्त्री याचत्यनन्तभव आर्तजनानुकम्पे । भक्तिं प्रयच्छ भवतापविनाशयित्रि कोलापूरेश्वरि शिवे तव सुप्रभातम् ॥ ५०॥ मङ्गलं तेऽस्तु मूकाम्बा मङ्गलं सर्वमङ्गले । मङ्गलं तव सद्रूपं त्रैलोक्यं मङ्गलं कुरु ॥ ५१॥ इति श्रीमूकाम्बिका सुप्रभातं समाप्तम् ।