अक्षर आकार:

श्रीमूकाम्बिकास्तोत्रम्

shrI mUkAmbikA stotra

श्रीमूकाम्बिकास्तोत्रम्

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् । हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकां कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥ बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् । शङ्खञ्चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥ मध्यान्हार्कसहस्रकोटिसदृशां मायान्धकारस्थितां मायाजालविराजितां मदकरीं मारेण संसेविताम् । शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥ सन्ध्यारागसमाननां त्रिनयनां सन्मानसैः पूजितां चक्राक्षाभयकम्बुशोभितकरां प्रालम्बवेणीयुताम् । ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां तां शिवां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ४॥ चन्द्रादित्यसमानकुण्डलधरां चन्द्रार्ककोटिप्रभां चन्द्रार्काग्निविलोचनां शशिमुखीं इन्द्रादिसंसेविताम् । भक्ताभीष्टवरप्रदां त्रिनयनां चिन्ताकुलध्वंसिनीं मन्त्रारादि वने स्थितां मणिमयीं ध्यायामि मूकाम्बिकाम् ॥ ५॥ कल्याणीं कमलेक्षणां वरनिधिं वन्दारुचिन्तामणिं कल्याणाचलसंस्थितां घनकृपां मायां महावैष्णवीम् । कल्यां कम्बुसुदर्शनाऽभयकरां शम्भुप्रियां कामदां कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥ ६॥ कालाम्भोधरकुण्डलाञ्चितमुखां कर्पूरवीटीयुतां कर्णालम्बितहेमकुण्डलधरां माणिक्यकाञ्चीधराम् । कैवल्यैकपरायणां कलमुखीं पद्मासने संस्थितां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥७॥ नानाकाञ्चिविचित्रवस्त्रसहितां नानाविधैर्भूषितां नानापुष्पसुगन्धमाल्यसहितां नानाजनासेविताम् । नानावेदपुराणशास्त्रविनुतां नानाकलिद्रप्रथां नानारूपधरां महेशमहिषीं ध्यायामि मूकाम्बिकाम् ॥ ८॥ राकातारकनायकोज्वलमुखीं श्रीकामकाम्यप्रदां शोकारण्यधनञ्जयप्रतिनिभां कोपाटवीचन्द्रिकाम् । श्रीकान्तादिसुरार्चितां स्त्रियमिमां लोकावलीनाशिनीं लोकानन्दकरीं नमामि शिरसा ध्यायामि मूकाम्बिकाम् ॥ ९॥ काञ्चीकिङ्किणिकङ्कणाञ्चितकरां मञ्जीरहारोज्वलां चञ्चत्काञ्चनकिरीटकटिदामाश्लेषभूषोज्ज्वलाम् । किञ्चित्काञ्चनकञ्चुके मणिमये पद्मासने संस्थितां पञ्चाद्यञ्चितसञ्चरीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १०॥ सौवर्णाम्बुजमध्यकाञ्चिनयनां सौदामिनीसन्निभां शङ्खंचक्रवराभयानि दधतीं इन्दोः कलां बिभ्रतीम् । ग्रीवेयासक्तहारकुण्डलधरां आखण्डलादिस्तुतां मायां विन्ध्यनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ ११॥ श्रीमन्विभवेन सुरैर्मुनिगणैरप्सरोपास्य सेव्यां मन्त्रारादिसमस्तदेववनितैः संशोभमानां शिवाम् । सौवर्णाम्बुजधारिणीं त्रिनयनां मोहादि कामेश्वरीं मूकाम्बां सकलेशसिद्धिवरदां वन्दे परां देवताम् ॥ १२॥ इति श्रीमूकाम्बिकास्तोत्रम् सम्पूर्णम् ॥ Verses 1,2,3,6 and 7 together (with slight variation) form Mookambika Pancharatna stotra.