अक्षर आकार:

श्रीमूकाम्बिकाष्टकम्

Shri Mukambika Ashtakam

श्रीमूकाम्बिकाष्टकम्

नमस्ते जगद्धात्रि सद्‍ब्रह्मरूपे नमस्ते हरोपेन्द्रधात्रादिवन्दे । नमस्ते प्रपन्नेष्टदानैकदक्षे नमस्ते महालक्ष्मि कोलापुरेशि ॥ १॥ विधिः कृत्तिवासा हरिर्विश्वमेतत्- सृजत्यत्ति पातीति यत्तत्प्रसिद्धं कृपालोकनादेव ते शक्तिरूपे नमस्ते महालक्ष्मि कोलापुरेशि ॥ २॥ त्वया मायया व्याप्तमेतत्समस्तं धृतं लीयसे देवि कुक्षौ हि विश्वम् । स्थितां बुद्धिरूपेण सर्वत्र जन्तौ नमस्ते महालक्ष्मि कोलापुरेशि ॥ ३॥ यया भक्तवर्गा हि लक्ष्यन्त एते त्वयाऽत्र प्रकामं कृपापूर्णदृष्ट्या । अतो गीयसे देवि लक्ष्मीरिति त्वं नमस्ते महालक्ष्मि कोलापुरेशि ॥ ४॥ पुनर्वाक्पटुत्वादिहीना हि मूका नरास्तैर्निकामं खलु प्रार्थ्यसे यत् निजेष्टाप्तये तेन मूकाम्बिका त्वं नमस्ते महालक्ष्मि कोलापुरेशि ॥ ५॥ यदद्वैतरूपात्परब्रह्मणस्त्वं समुत्था पुनर्विश्वलीलोद्यमस्था । तदाहुर्जनास्त्वां च गौरीं कुमारीं नमस्ते महालक्ष्मि कोलापुरेशि ॥ ६॥ हरेशादि देहोत्थतेजोमयप्र- स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे । महायोगिकोलर्षिहृत्पद्मगेहे नमस्ते महालक्ष्मि कोलापुरेशि ॥ ७॥ नमः शङ्खचक्राभयाभीष्टहस्ते नमः त्र्यम्बके गौरि पद्मासनस्थे । नमस्तेऽम्बिके नमः स्वर्णवर्णे प्रसन्ने शरण्ये नमस्ते महालक्ष्मि कोलापुरेशि ॥ ८॥ इदं स्तोत्ररत्नं कृतं सर्वदेवै- र्हृदि त्वां समाधाय लक्ष्म्यष्टकं यः । पठेन्नित्यमेष व्रजत्याशु लक्ष्मीं स विद्यां च सत्यं भवेत्तत्प्रसादात् ॥ ९॥ P. R. Ramamurthy, Shree, PSA Easwaran