अक्षर आकार:

श्रीमूकाम्बिका पञ्चरत्न स्तोत्रम्

shrI mUkAmbikA pancharatna stotram

श्रीमूकाम्बिका पञ्चरत्न स्तोत्रम्

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् । हेलालालितनीलकुन्तलधरां नीलोत्पलीयांशुकां कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥ बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् । शङ्खं चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥ मध्यान्हार्कसहस्रकोटिसदृशां मायान्धकारस्थितां मायाजालविराजितां मदकरीं मारेण संसेविताम् । शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥ कल्याणीं कमलेक्षणां वरनिधिं मन्दार चिन्तामणिं कल्याणी घनसंस्थितां घनकृपां मायां महावैष्णवीम् । कल्याणीं भगवतीं विकर्मशमनां काञ्चीपुरीं कामदां कल्याणीं त्रिपुरां शिवेन सहितां ध्यायामि मूकाम्बिकाम् ॥ ४॥ कालाम्भोधरकुन्तलां स्मितमुखीं कर्पूर हारोज्ज्वलां कर्णालम्बितहेमकुण्डलधरां माणिक्य काञ्चीधराम् । कैवल्यैक्यपरायणां कलमुखीं पद्मासने संस्थितां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ५॥ मन्दार कुन्द कुमुदोत्पल मल्लिकाब्जैः श‍ृंगार वेष सुर पूजित वन्दिताग्रीम् । मन्दार कुन्द कुमुदोत्पल सुन्दराङ्गी मूकाम्बिके मयि नि देहि कृपा कटाक्षम् ॥ This pancharatna is similar to Mookambika Stotram Verses 1,2,3,6 and 7 with slight variation.