अक्षर आकार:

श्रीमूकाम्बिकायाः अष्टोत्तरशतनामावलिः

Shri MukambikA Ashtottarashatanamavali

श्रीमूकाम्बिकायाः अष्टोत्तरशतनामावलिः

जय जय शङ्कर ! ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ! ॐ श्रीनाथादितनूत्थश्रीमहाक्ष्म्यै नमो नमः । ॐ भवभावित चित्तेजः स्वरूपिण्यै नमो नमः । ॐ कृतानङ्गवधूकोटि सौन्दर्यायै नमो नमः । ॐ उद्यदादित्यसाहस्रप्रकाशायै नमो नमः । ॐ देवतार्पितशस्त्रास्त्रभूषणायै नमो नमः । ॐ शरणागत सन्त्राणनियोगायै नमो नमः । ॐ सिंहराजवरस्कन्धसंस्थितायै नमो नमः । ॐ अट्टहासपरित्रस्तदैत्यौघायै नमो नमः । ॐ महामहिषदैत्येन्द्रविघातिन्यै नमो नमः । ॐ पुरन्दरमुखामर्त्यवरदायै नमो नमः । ॐ कोलर्षिप्रवरध्यानप्रत्ययायै नमो नमः । ॐ श्रीकण्ठक्लृप्तश्रीचक्रमध्यस्थायै नमो नमः । ॐ मिथुनाकारकलितस्वभावायै नमो नमः । ॐ इष्टानुरूपप्रमुखदेवतायै नमो नमः । ॐ तप्तजाम्बूनदप्रख्यशरीरायै नमो नमः । ॐ केतकीमालतीपुष्पभूषितायै नमो नमः । ॐ विचित्ररत्नसंयुक्तकिरीटायै नमो नमः । ॐ रमणीयद्विरेफालिकुन्तलायै नमो नमः । ॐ अर्धशुभ्रांशु विभ्राजल्ललाटायै नमो नमः । ॐ मुखचन्द्रान्तकस्तूरीतिलकयै नमो नमः । ॐ मनोज्ञवक्रभ्रूवल्लीयुगलायै नमो नमः । ॐ रजनीशदिनेशाग्निलोचनायै नमो नमः । ॐ करुणारससंसिक्तनेत्रान्तायै नमो नमः । ॐ चाम्पेयकुसुमोद्भासिनासिकायै नमो नमः । ॐ तारकाभनसारत्नभासुरायै नमो नमः । ॐ सद्रत्नखचितस्वर्णताटङ्कायै नमो नमः । ॐ रत्नादर्शप्रतीकाशकपोलायै नमो नमः । ॐ ताम्बूलशोभितवरस्मितास्यायै नमो नमः । ॐ कुन्दकुट्मलसङ्काशदशनायै नमो नमः । ॐ फुल्लप्रवालरदनवसनायै नमो नमः । ॐ स्वकान्तस्वान्तविक्षोभिचिबुकायै नमो नमः । ॐ मुक्ताहारलसत्कम्बुकन्धरायै नमो नमः । ॐ साष्टापदाङ्गदभुजचतुष्कायै नमो नमः । ॐ शङ्खचक्रवराभीतिकराब्जायै नमो नमः । ॐ मतङ्गजमहाकुम्भवक्षोजायै नमो नमः । ॐ कुचभारनमन्मञ्जुमध्यमायै नमो नमः । ॐ तटित्पुञ्जाभकौशेयसुचेलायै नमो नमः । ॐ रम्यकिङ्किणिकाकाञ्चीरञ्जितायै नमो नमः । ॐ अतिमञ्जुलरम्भोरुद्वितयायै नमो नमः । ॐ माणिक्यमुकुटाष्ठीवसंयुक्तायै नमो नमः । ॐ देवेशमुकुटोद्दीप्तपदाब्जायै नमो नमः । ॐ भार्गवाराध्यगाङ्गेयपादुकायै नमो नमः । ॐ मत्तदन्तावलोत्तंसगमनायै नमो नमः । ॐ कुङ्कुमागरुभद्रश्रीचर्चिताङ्ग्यै नमो नमः । ॐ सचामरामरीरत्नवीजितायै नमो नमः । ॐ प्रणताखिलसौभाग्यप्रदायिन्यै नमो नमः । ॐ दानवार्दितशक्रादिसन्नुतायै नमो नमः । ॐ धूम्रलोचन दैतेयदहनायै नमो नमः । ॐ चण्डमुण्डमहाशीर्षखण्डनायै नमो नमः । ॐ रक्तबीजमहादैत्यशिक्षकायै नमो नमः । ॐ मदोद्धतनिशुम्भाख्यभञ्जनायै नमो नमः । ॐ घोरशुम्भासुराधीशनाशनायै नमो नमः । ॐ मधुकैटभसंहारकारणायै नमो नमः । ॐ विरिञ्चिमुखसङ्गीतसमज्ञायै नमो नमः । ॐ सर्वबाधाप्रशमनचरित्रायै नमो नमः । ॐ समाधिसुरथक्ष्माभृदर्चितायै नमो नमः । ॐ मार्कण्डेयमुनिश्रेष्ठसंस्तुतायै नमो नमः । ॐ व्यालासुरद्विषद्विष्णुस्वरूपिण्यै नमो नमः । ॐ क्रूरवेत्रासुरप्राणमारणायै नमो नमः । ॐ लक्ष्मीसरस्वतीकालीवेषाढ्यायै नमो नमः । ॐ सृष्टिस्थितिलयक्रीडातत्परायै नमो नमः । ॐ ब्रह्मोपेन्द्रगिरीशादिप्रतीक्षायै नमो नमः । ॐ अमृताब्धिमणिद्वीपनिवासिन्यै नमो नमः । ॐ निखिलानन्दसन्दोहविग्रहायै नमो नमः । ॐ महाकदम्बविपिनमध्यगायै नमो नमः । ॐ अनेककोटिब्रह्माण्डजनन्यै नमो नमः । ॐ मुमुक्षुजनसन्मार्गदर्शिकायै नमो नमः । ॐ द्वादशान्तषडम्भोजविहारायै नमो नमः । ॐ सहस्रारमहापद्मसदनायै नमो नमः । ॐ जन्मप्रमुखषड्भाववर्जितायै नमो नमः । ॐ मूलाधारादिषट्चक्रनिलयायै नमो नमः । ॐ चराचरात्मकजगत्सम्प्रोतायै नमो नमः । ॐ महायोगिजनस्वान्तनिशान्तायै नमो नमः । ॐ सर्ववेदान्तसत्सारसंवेद्यायै नमो नमः । ॐ हृदिनिक्षिप्तनिःशेषब्रह्माण्डायै नमो नमः । ॐ राजराजेश्वरप्राणवल्लभायै नमो नमः । ॐ तुषाराचलराजन्यतनयायै नमो नमः । ॐ सर्वात्मपुण्डरीकाक्षसहोदर्यै नमो नमः । ॐ मूकीकृतमहामूकदानवायै नमो नमः । ॐ दुष्टमूकशिरः शैलकुलिशायै नमो नमः । ॐ कुटजोपत्यकामुख्यनिवासायै नमो नमः । ॐ वरेण्यदक्षिणार्धाङ्गमहेशायै नमो नमः । ॐ ज्योतिश्चक्रासनाभिख्यपीठस्थायै नमो नमः । ॐ नवकोटिमहदुर्गासंवृतायै नमो नमः । ॐ विघ्नेशस्कन्दवीरेशवत्सलायै नमो नमः । ॐ कलिकल्मषविध्वंससमर्थायै नमो नमः । ॐ षोडशार्णमहामन्त्रमन्दिरायै नमो नमः । ॐ पञ्चप्रणवलोलम्बपङ्कजायै नमो नमः । ॐ मिथुनार्चनसंहृष्टहृदयायै नमो नमः । ॐ वसुदेवमनोभीष्टफलदायै नमो नमः । ॐ कंसासुरवरारातिपूजितायै नमो नमः । ॐ रुक्मिणीसत्यभामादिवन्दितायै नमो नमः । ॐ नन्दगोपप्रियागर्भसम्भूतायै नमो नमः । ॐ कंसप्राणापहरणसाधनायै नमो नमः । ॐ सुवासिनीवधूपूजासुप्रीतायै नमो नमः । ॐ शशाङ्कशेखरोत्सङ्गविष्ठरायै नमो नमः । ॐ विभुधारिकुलारण्यकुठारायै नमो नमः । ॐ सञ्जीवनौषधत्रातत्रिदशायै नमो नमः । ॐ मातृसौख्यार्थि पक्षीशसेवितायै नमो नमः । ॐ कटाक्षलब्धशक्रत्व प्रद्युम्नायै नमो नमः । ॐ इन्द्रक्लृप्तोत्सवोत्कृष्टप्रहृष्टायै नमो नमः । ॐ दारिद्र्यदुःखविच्छेदनिपुणायै नमो नमः । ॐ अनन्यभावस्वर्गापवर्गदायै नमो नमः । ॐ अप्रपन्न भवत्रासदायकायै नमो नमः । ॐ निर्जिताशेषपाषण्डमण्डलायै नमो नमः । ॐ शिवाक्षिकुमुदाह्लादचन्द्रिकायै नमो नमः । ॐ प्रवर्तितमहाविद्याप्रधानायै नमो नमः । ॐ सर्वशक्त्यैकरूप श्रीमूकाम्बायै नमो नमः ॥ इति मूकाम्बिकाष्टोत्तरशतनामावलिः सम्पूर्णा ॥