अक्षर आकार:

श्रीमीनाक्ष्यष्टकम्

Shri Minakshi Ashtakam

श्रीमीनाक्ष्यष्टकम्

श्रीमीनाक्ष्यष्टकम् ॥ माधुर्ये महिमे महागिरिसुते मल्लादि संहारिणि मूलाधारकृते महामरकते शोभे महासुन्दरि । मातङ्गि महिमे महासुरवधे मन्त्रोत्तमे माधवि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ १॥ नानारत्नविभूषणे नवगणे शोभे महासुन्तरि नित्यानन्दवरे निरूपणगुणे निम्नोन्नते पङ्कजे । नाट्ये नाटकवेषधारिणि शिवे नादे कालनर्तकि(?) मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ २॥ कामक्रोधनिवारणे करुणालये कात्यायनि सन्मते कारुण्याकृतिके किरातवरदे कं गं क बीजाङ्कुरे । कामार्थं तव सिद्धिहेतुकमिदं भक्त्या भवत्सन्निधौ मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ३॥ षट्चक्रान्तगते षडाननवरे षड्बीजरक्षाङ्कुरे षोडाधारकले षडक्षरि शिवे क्षोणी महाक्षीयते । क्षन्तव्यं जननि क्षमा रम शिवे क्षीराब्धि मध्यान्तरे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ४॥ वामे नीलदलाक्षि पुष्परसिके बाले महाकुङ्कुमे अन्ये पाणिवराब्जभक्तजननि नित्यं परश्रेयसि । बाले बन्धुवराङ्गिणि बहुविधे भूचक्रसञ्चारिणि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ५॥ रागस्तोत्रविचारवेदविभवे रम्ये रतोल्लासिनि राजीवेक्षणि राज राङ्गणरणे राजाधिराजेश्वरि । राज्ञि राजससत्त्वतामसगुणे राधे रमासोदरि मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ६॥ सारास्ये सरसीरुहस्य जननि साम्राज्यदानेक्षणि साम्यासाम्य चाष्टकलासुखवने सान्दीपनीसेविते । सत्यानन्दसुधे च सुन्दरफले स्वाधिष्ठचक्रान्तरे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ७॥ कर्पूरारुणकुङ्कुमार्चितपदे क्षीराब्धिशोभे शिवे गायत्रि करुणाकटाक्षविनुते कन्दर्पकान्तिप्रदे । कल्याणाष्टसुरार्चिते सुकविते कारुण्यवारान्निधे मीनाक्षि मधुराम्बिके महिमये मां पाहि मीनाम्बिके ॥ ८॥ इति राजपूजित श्रीकुलन्तयानन्द(बालानन्द)स्वामिना विरचितं श्रीमीनाक्ष्यष्टकं सम्पूर्णम् ।