अक्षर आकार:

श्रीमीनाक्षीमणिमालाष्टकम्

shrImInAkShImaNimAlAShTakam

श्रीमीनाक्षीमणिमालाष्टकम्

मधुरापुरिनायिके नमस्ते मधुरालापिशुकाभिरामहस्ते । मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां विधेहि धन्ये ॥ १॥ कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते । मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि कृपां विधेहि शान्ते ॥ २॥ कुचयुग्मविधूतचक्रवाके कृपयापालितसर्वजीवलोके । मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निधेहि पाके ॥ ३॥ विधिवाहनजेतृकेलियाने विमतामोटनपूजितापदाने । मधुरेक्षणभावभूतमीने मयि मीनाक्षि कृपां विधेहि दीने ॥ ४॥ तपनीयपयोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे । मदनारिपरिग्रहे कृतार्थे मयि मीनाक्षि कृपां विधेहि सार्थे ॥ ५॥ कलकीरकलोक्तिनाददक्षे कलितानेकजगन्निवासिरक्षे । मदनाशुगहल्लकान्तपाणे मयि मीनाक्षि कृपां कुरु प्रवीणे ॥ ६॥ मधुवैरिविरिञ्चिमुख्यसेव्ये मनसा भावितचन्द्रमौलिसव्ये । तरसा परिपूरितयज्ञहव्ये मयि मीनाक्षि कृपां विधेहि भव्ये ॥ ७॥ जगदम्ब कदम्बमूलवासे कमलामोदमुखेन्दुमन्दहासे । मदमन्दिरहारिदृग्विलासे मयि मीनाक्षि कृपां विधेहि दासे ॥ ८॥ पठतामनिशं प्रभातकाले मणिमालाष्टकमष्टभूतिदायी । घटिताशतचातुरीं प्रदद्या- त्करुणापूर्णकटाक्षसन्निवेशात ॥ ९॥ इति श्रीमीनाक्षीमणिमालाष्टकं सम्पूर्णम् ।