अक्षर आकार:

मातङ्गिनीकवचं

Matangini Kavacham

मातङ्गिनीकवचं

श्रीदेव्युवाच साधु साधु महादेव कथयस्व सुरेश्वर । मातङ्गीकवचन्दिव्यं सर्वसिद्धिकरन्नृणाम् ॥ १॥ श्री ईश्वर उवाच श‍ृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् । गोपनीयं महादेवि मौनी जापं समाचरेत् ॥ २॥ अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिर्विराट् छन्दो मातङ्गी देवता चतुर्वर्गसिद्धये विनियोगः ॥ ॐशिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी । तोडला कर्णयुगलन्त्रिपुरा वदनं मम ॥ ३॥ पातु कण्ठे महामाया हृदि माहेश्वरी तथा । त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥ ४॥ ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया । महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥ ५॥ अङ्गम्प्रत्यङ्गकञ्चैव सदा रक्षतु वैष्णवी । ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥ ६॥ ललाटे रक्षयेन्नित्यं महापिशाचिनीति च । नेत्राभ्यां सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥ ७॥ महापिशाचिनी पायान्मुखे रक्षतु सर्वदा । लज्जा रक्षतु मान्दन्ते चोष्ठौ संमार्जनीकरी ॥ ८॥ चिबुके कण्ठदेशे तु चकारत्रितयम्पुनः । सविसर्गं महादेवी हृदयम्पातु सर्वदा ॥ ९॥ नाभिं रक्षतु मा लोला कालिकावतु लोचने । उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥ १०॥ उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका । भुजौ रक्षतु शर्वाणी हृदयञ्चण्डभूषणा ॥ ११॥ जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका । विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥ १२॥ नैरृत्यां सुदया रक्षेद्वायव्याम्पातु लक्ष्मणा । ऐशान्यां रक्षयेद्देवी मातङ्गी शुभकारिणी ॥ १३॥ रक्षेत्सुरेशा चाग्नेये बगला पातु चोत्तरे । ऊर्द्ध्वम्पातु महादेवी देवानां हितकारिणी ॥ १४॥ पाताले पातु मा नित्यँ वशिनी विश्वरूपिणी । प्रणवञ्च तता माया कामबीजञ्च कूर्च्चकम् ॥ १५॥ मातङ्गिनी ङेयुतास्त्रँ वह्निजायावधिर्मनुः । सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥ १६॥ इति ते कथितन्देवि गुह्याद्गुह्यतरम्परम् । त्रैलोक्यमङ्गलन्नाम कवचन्देवदुर्लभम् ॥ १७॥ य इदम्प्रपठेन्नित्यञ्जायते सम्पदालयम् । परमैश्वर्यमतुलम्प्राप्नुयान्नात्र संशयः ॥ १८॥ गुरुमभ्यर्च्च्य विधिवत्कवचम्प्रपठेद्यदि । ऐश्वर्यं सुकवित्वञ्च वाक्सिद्धिँ लभते ध्रुवम् ॥ १९॥ नित्यन्तस्य तु मातङ्गी महिला मङ्गलञ्चरेत् । ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ २०॥ ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः । तन्दृष्ट्वा साधकन्देवि लज्जायुक्ता भवन्ति ते ॥ २१॥ कवचन्धारयेद्यस्तु सर्वसिद्धिँलभेद्ध्रुवम् । राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत् ॥ २२॥ सिद्धो भवति सर्वत्र किमन्यैर्बहु भाषितैः । इदं कवचमज्ञात्वा मातङ्गीँ यो भजेन्नरः ॥ २३॥ अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः । गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥ २४॥ तस्मै मातङ्गिनी देवी सर्वसिद्धिम्प्रयच्छति ॥ २५॥ इति नन्द्यावर्ते उत्तरखण्डे त्वरितफलदायिनी मातङ्गिनीकवचं समाप्तम् ॥