अक्षर आकार:

श्रीमातङ्गीस्तोत्रपुष्पाञ्जलिः

Shri Matangi Stotra Pushpanjali

श्रीमातङ्गीस्तोत्रपुष्पाञ्जलिः

अस्ति नानाविधंशस्तं वस्तुनावैणिकेन वः । अमृताम्बुनिधेर्मध्ये माणिक्य द्वीपमाश्रये ॥ १॥ सुधातरङ्ग सञ्चारिमारुतस्पर्श शीतलम् । कल्पद्रुमकदम्बालि पारिजातपटीरकैः ॥ २॥ निवडीकृतमुद्यानं निषेवेनिर्भरोत्सवम् । तदलसलतोन्मीलत्कुसुमामोद मेदुरम् ॥ ३॥ जागर्ति मानसे मत्केतरुणं नीपकाननम् । तस्यान्तरालतरलामुक्तमुक्तालताततेः ॥ ४॥ ज्योतिर्मयमहन्नौमिमहितं रत्नमण्डपम् । सरस्वत्या च लक्ष्म्या च पूर्वादिद्वारभूमिषु ॥ ५॥ शङ्खपद्मनिधिभ्यां च सतताध्युषि संस्तुवे । इन्द्रादीन्लोकपालान् च सायुधान् सपरिच्छदान् ॥ ६॥ मण्डपस्यबहिर्भागेऽप्यष्टदिक्षु क्रमस्थितान् । अथध्यायामि रत्नार्चिरयत्नाकॢप्तदीपिकाम् ॥ ७॥ हरिचन्दन संलिप्तां हारिणीं मणिदीपिकाम् । तत्रत्रिकोण पञ्चाराष्टारषोडशपत्रकैः ॥ ८॥ अष्टाष्टधारवेदास्त्रैश्चिन्मयं वक्त्र मीमहे । तस्यमध्ये कृतानासाम साधारण वैभवाम् ॥ ९॥ इन्दुरेखावतीमेणी लोचनां वेणिशालिनीम् । हासांशूल्लासनासीर नासाभरण मौक्तिकाम् ॥ १०॥ मदरक्तकपोलश्री मग्नमाणिक्य दर्पणाम् । आनन्दहारिणीं तालिदलताटङ्कधारिणीम् ॥ ११॥ उच्चपीनकुचामच्छहारां तुच्छवलग्नकाम् । सुकुमारभुजावल्ली वेल्लत्कङ्कणरिङ्खणाम् ॥ १२॥ वामस्तनमुखन्यस्त वीणावादविनोदिनीम् । वलिनाभिनभोभूत काञ्ची हारिप्रभां शुभाम् ॥ १३॥ न्यस्तैकचरणां पद्मे सलीलासालसाननाम् । अनर्ध्यलावण्यवतीं मादिनीं वर्ण मातृकाम् ॥ १४॥ अनङ्ग शक्तिजीवातु तद्विक्षेप हराङ्गनाम् । त्र्यस्रेरतिं प्रीतिमपि प्रणमामि मनोभवाम् ॥ १५॥ द्रावणंरोषणञ्चैव बन्धनं मोहनं तथा । अस्त्रमुन्मादनाख्यं च पञ्चमं पातु मे हृदि ॥ १६॥ कामराजं च कन्दर्पं मन्मथं मकरध्वजम् । मनोभवं च पञ्चार कोणाग्रावस्थितं स्तुमः ॥ १७॥ ब्राह्मीं माहेश्वरीं चैवकौमारीं वैष्णवीमपि । वाराहीमपि माहेन्द्रीं च चामुण्डां चण्डिकां नुमः ॥ १८॥ लक्ष्मीः सरस्वतीचैव रतिः प्रीतिस्तथैव च । कीर्तिश्शान्तिच पुष्टिश्चतुष्टिरित्यष्टकं भजे ॥ १९॥ वामाज्येष्ठा च रौद्री च शान्तिः श्रद्धासरस्वती । क्रियाशक्तिश्च लक्ष्मीश्च सृष्टिश्चैवतु मोहिनी ॥ २०॥ तथापुर्णादिने चाश्वासिनीवाली तथैव च । विद्युन्मालिन्यथसुरा नन्दाद्या नागवद्धिका ॥ २१॥ इतिषोडश शक्तीनां मण्डलं मानयामहे । असिताङ्गो रुरुश्चण्ड क्रोधनोन्मत्तभैरवाः ॥ २२॥ कपालीभीषणश्चैव संहारश्चेति पान्त्वमी । मातङ्गीं सिद्धलक्ष्मीं च महामातङ्गिकामपि ॥ २३॥ महतीं सिद्धलक्ष्मीं च तुर्यां च तदुपास्महे । गणनाथश्च दुर्गा च वटुकः क्षेत्रपोऽवतु ॥ २४॥ शक्तिरूपाणि चाङ्गानि मनसाङ्गी करोम्यहम् । हंसमूर्तिः स च परः प्रकाशानन्द देशिकः ॥ २५॥ पूर्णोनित्यश्चवरुणः पातु मां पञ्चदेशिकी । शिवेत्वांशेषकादेवि मातङ्गेश्वरि मानये ॥ २६॥ ईक्षे च मानसेमत्के क्षेत्रपालं कृपालयम् । शुकिनी शोकनिर्हन्त्री सवीणावेणि भासुरा ॥ २७॥ सुरार्चिता प्रसन्ना च संविद्भवति शाम्भवी ॥ २८॥ मदेनशोणा पदपाङ्गकोणा विभक्तवीणा निगमप्रवीणा । एणाङ्क चूडाकरुणाधुरीणा प्रीणातु वः पोषित पुष्पवाणा ॥ २९॥ संविन्मयंरुद्र वसन्नतोषिनः साधकीन्द्र भृङ्गकुलः । कमपुष्पाञ्जलि रेषमतां मातङ्गकन्यका याः ॥ ३०॥ इति श्रीमातङ्गीस्तोत्रपुष्पाञ्जलिः समाप्ता ॥