अक्षर आकार:

मातङ्गीस्तोत्रम् ३

Matangi Stotram 3

मातङ्गीस्तोत्रम् ३

ईश्वर उवाच - आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विस्तृतकीर्तिमापः । अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिपरेण चान्ये ॥ १॥ नमामि देवीं नवचन्द्रमौलेर्मातङ्गिनीं चन्द्रकलावतंसाम् । आम्नायप्राप्तिप्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण ॥ २॥ विनम्रदेवासुरमौलिरन्तैर्विराजितन्ते चरणारविन्दम् । अकृत्रिमाणावचसाविशुक्लम्पदाम्पदं शिक्षितनूपुराभ्याम् (भजन्ति ये देवि महीपतीनं व्रजन्ति ते सम्पदमादरेण) ॥ ३॥ कृतार्थयन्तीं पदवीं पदाभ्यामास्फालयन्तीङ्कलवल्लकीन्ताम् । मातङ्गिनीं सद्धृदयान्धिनोमि लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४॥ तालीदलेनार्पितकर्णभूषां माध्वीमदोद्घूर्णितनेत्रपद्माम् । घनस्तनीं शम्भुवधून्नमामि तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५॥ चिरेण लक्ष्यान्नवलोमराज्यां स्मरामि भक्त्या जगतामधीशे । बलित्रयाढ्यन्तव मध्यमम्ब नीलोत्पलांशुश्रियमावहन्तीम् ॥ ६॥ कान्त्या कटाक्षैः कमलाकराणाङ्कदम्बमालाञ्चितकेशपाशाम् । मातङ्गकन्यां हृदि भावयामि ध्यायेयमारक्तकपोलबिम्बाम् ॥ ७॥ बिम्बाधरन्यस्तललामवश्यमालोललीलालकमायताक्षम् । मन्दस्मितन्ते वदनं महेशि स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८॥ मातङ्गिनीवागधिदेवतान्तां स्तुवन्ति ये भक्तियुता मनुष्याः । परां श्रियन्नित्यमुपाश्रयन्ति परत्र कैलासतले वसन्ति ॥ ९॥ उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां गौरीं सञ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् । गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं मत्तस्मेरमुखीं नमामि सुमुखीं शावासनांसेदुषीम् ॥ १०॥ इति रुद्रयामले मातङ्गीस्तोत्रं समाप्तम् ॥