अक्षर आकार:

मातङ्गी स्तोत्रम्

Matangi Stotram

मातङ्गी स्तोत्रम्

नमामि वरदां देवीं सुमुखीं सर्वसिद्धिदाम् । सूर्यकोटिनिभां देवीं वह्निरूपां व्यवस्थिताम् ॥ १॥ रक्तवस्त्र नितम्बां च रक्तमाल्योपशोभिताम् । गुंजाहारस्तनाढ्यान्तां परंज्योतिस्वरूपिणीम् ॥ २॥ मारणं मोहनं वश्यं स्तम्भनाकर्ष दायिनी । मुण्ड कर्त्रिं शरावामां परंज्योतिस्वरूपिणीम् ॥ ३॥ स्वयम्भुकुसुम प्रीतां ऋतुयोनिनिवासिनीम् । शवस्थां स्मेरवदनां परंज्योतिस्वरूपिणीम् ॥ ४॥। रजस्वला भवेन्नित्यं पूजेष्टफलदायिनी । मद्यप्रियं रतिमयीं परंज्योतिस्वरूपिणीम् ॥ ५॥ शिवविष्णुविरञ्चीनां साद्यां बुद्धिप्रदायिनीम् । असाध्यं साधिनीं नित्यां परंज्योतिस्वरूपिणीम् ॥ ६॥ रात्रौ पूजा बलियुतां गोमांस रुधिरप्रियाम् । नानाऽलङ्कारिणीं रौद्रीं पिशाचगणसेविताम् ॥ ७॥ इत्यष्टकं पठेद्यस्तु ध्यानरूपां प्रसन्नधीः । शिवरात्रौ व्रतेरात्रौ वारूणी दिवसेऽपिवा ॥ ८॥ पौर्णमास्याममावस्यां शनिभौमदिने तथा । सततं वा पठेद्यस्तु तस्य सिद्धि पदे पदे ॥ ९॥ इति एकजटा कल्पलतिका शिवदीक्षायान्तर्गतम् मातङ्गी स्तोत्रं सम्पूर्णम् ॥