अक्षर आकार:

श्रीमातङ्गीशतनामस्तोत्रम्

Shri Matangi Shatanamastotram

श्रीमातङ्गीशतनामस्तोत्रम्

श्रीभैरव्युवाच - भगवञ्छ्रोतुमिच्छामि मातङ्ग्याः शतनामकम् । यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥ १॥ भैरव उवाच - श‍ृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् । नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ २॥ यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः । नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ ३॥ प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः । सहस्रनामपठने यत्फलं परिकीर्तितम् । तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ ४॥ अस्य श्रीमातङ्गीशतनामस्तोत्रस्य भगवान्मतङ्ग ऋषिः अनुष्टुप् छन्दः मातङ्गी देवता मातङ्गीप्रीतये जपे विनियोगः । महामत्तमातङ्गिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च । भवानी भवप्रीतिदा भूतियुक्ता भवाराधिता भूतिसम्पत्करी च ॥ १॥ धनाधीशमाता धनागारदृष्टिर्धनेशार्चिता धीरवापीवराङ्गी । प्रकृष्टप्रभारूपिणी कामरूपप्रहृष्टा महाकीर्तिदा कर्णनाली ॥ २॥ कराली भगा घोररूपा भगाङ्गी भगाह्वा भगप्रीतिदा भीमरूपा । भवानी महाकौशिकी कोशपूर्णा किशोरीकिशोरप्रियानन्द ईहा ॥ ३॥ महाकारणाकारणा कर्मशीला कपालिप्रसिद्धा महासिद्खण्डा । मकारप्रिया मानरूपा महेशी महोल्लासिनीलास्यलीलालयाङ्गी ॥ ४॥ क्षमाक्षेमशीला क्षपाकारिणी चाक्षयप्रीतिदा भूतियुक्ता भवानी । भवाराधिता भूतिसत्यात्मिका च प्रभोद्भासिता भानुभास्वत्करा च ॥ ५॥ धराधीशमाता धरागारदृष्टिर्धरेशार्चिता धीवराधीवराङ्गी । प्रकृष्टप्रभारूपिणी प्राणरूपप्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ ६॥ चलत्कुण्डला कामिनी कान्तयुक्ता कपालाचला कालकोद्धारिणी च । कदम्बप्रिया कोटरीकोटदेहा क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ ७॥ क्षमाङ्गी क्षयप्रेमरूपा क्षपा च क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च । क्षवत्कामिनी क्षारिणी क्षीरपूर्णा शिवाङ्गी च शाकम्भरी शाकदेहा ॥ ८॥ महाशाकयज्ञा फलप्राशका च शकाह्वा शकाह्वाशकाख्या शका च । शकाक्षान्तरोषा सुरोषा सुरेखा महाशेषयज्ञोपवीतप्रिया च ॥ ९॥ जयन्ती जया जाग्रतीयोग्यरूपा जयाङ्गा जपध्यानसन्तुष्टसंज्ञा । जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ॥ १०॥ जगन्मातृरूपा जगद्रक्षणा च स्वधावौषडन्ता विलम्बाविलम्बा । षडङ्गा महालम्बरूपासिहस्ता पदाहारिणीहारिणी हारिणी च ॥ ११॥ महामङ्गला मङ्गलप्रेमकीर्तिर्निशुम्भच्छिदा शुम्भदर्पत्वहा च । तथाऽऽनन्दबीजादिमुक्तस्वरूपा तथा चण्डमुण्डापदामुख्यचण्डा ॥ १२॥ प्रचण्डाप्रचण्डा महाचण्डवेगा चलच्चामरा चामराचन्द्रकीर्तिः । सुचामीकराचित्रभूषोज्ज्वलाङ्गी सुसङ्गीतगीता च पायादपायात् ॥ १३॥ इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् । गोप्यञ्च सर्वतन्त्रेषु गोपनीयञ्च सर्वदा ॥ १४॥ एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः । त्रिसन्ध्यञ्च महाभक्त्या पठनीयं सुखोदयम् ॥ १५॥ न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् । स्वकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ १६॥ सदैव सन्निधौ तस्य देवी वसति सादरम् । अयोगा ये तवैवाग्रे सुयोगाश्च भवन्ति वै ॥ १७॥ त एवमित्रभूताश्च भवन्ति तत्प्रसादतः । विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥ १८॥ लूताविस्फोटकास्सर्वे शमं यान्ति च तत्क्षणात् । जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ १९॥ अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् । यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् । तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ २०॥ इति श्रीरुद्रयामले मातङ्गीशतनामस्तोत्रं सम्पूर्णम् ॥