अक्षर आकार:

श्रीमातङ्गीसहस्रनामस्तोत्रम्

Shri Matangi Sahasranamastotram

श्रीमातङ्गीसहस्रनामस्तोत्रम्

अथ मातङ्गीसहस्रनामस्तोत्रम् ईश्वर उवाच श‍ृणु देवि प्रवक्ष्यामि साम्प्रतन्तत्त्वतः परम् । नाम्नां सहस्रम्परमं सुमुख्याः सिद्धये हितम् ॥ सहस्रनामपाठी यः सर्वत्र विजयी भवेत् । पराभवो न तस्यास्ति सभायाव्वा महारणे ॥ यथा तुष्टा भवेद्देवी सुमुखी चास्य पाठतः । तथा भवति देवेशि साधकः शिव एव सः ॥ अश्वमेधसहस्राणि वाजपेयस्य कोटयः । सकृत्पाठेन जायन्ते प्रसन्ना सुमुखी भवेत् ॥ मतङ्गोऽस्य ऋषिश्छन्दोऽनुष्टुब्देवी समीरिता । सुमुखी विनियोगः स्यात्सर्वसम्पत्तिहेतवे ॥ एवन्ध्यात्वा पठेदेतद्यदीच्छेत्सिद्धिमात्मनः । देवीं षोडशवार्षिकीं शवगताम्माध्वीरसाघूर्णितां श्यामाङ्गीमरुणाम्बराम्पृथुकुचाङ्गुञ्जावलीशोभिताम् । हस्ताभ्यान्दधतीङ्कपालममलन्तीक्ष्णान्तथा कर्त्त्रिकान्ध्यायेन्मानसपङ्कजे भगवतीमुच्छिष्टचाण्डालिनीम् ॥ ॐ सुमुखी शेमुषीसेव्या सुरसा शशिशेखरा । समानास्या साधनी च समस्तसुरसन्मुखी ॥ सर्वसम्पत्तिजननी सम्मदा सिन्धुसेविनी । शम्भुसीमन्तिनी सौम्या समाराध्या सुधारसा ॥ सारङ्गा सवली वेलालावण्यवनमालिनी । वनजाक्षी वनचरी वनी वनविनोदिनी ॥ वेगिनी वेगदा वेगा बगलस्था बलाधिका । काली कालप्रिया केली कमला कालकामिनी ॥ कमला कमलस्था च कमलस्थाकलावती । कुलीना कुटिला कान्ता कोकिला कलभाषिणी ॥ कीराकेलिकरा काली कपालिन्यपि कालिका । केशिनी च कुशावर्त्ता कौशाम्भी केशवप्रिया ॥ काली काशी महाकालसङ्काशा केशदायिनी । कुण्डला च कुलस्था च कुण्डलाङ्गदमण्डिता ॥ कुण्डपद्मा कुमुदिनी कुमुदप्रीतिवर्द्धिनी । कुण्डप्रिया कुण्डरुचिः कुरङ्गनयना कुला ॥ कुन्दबिम्बालिनदनी कुसुम्भकुसुमाकरा । काञ्ची कनकशोभाढ्या क्वणत्किङ्किणिकाकटिः ॥ कठोरकरणा काष्ठा कौमुदी कण्डवत्यपि । कपर्द्दिनी कपटिनी कठिनी कलकण्डिनी ॥ कीरहस्ता कुमारी च कुरूढकुसुमप्रिया । कुञ्जरस्था कुजरता कुम्भी कुम्भस्तनी कला ॥ कुम्भीकाङ्गा करभोरूः कदली कुशशायिनी । कुपिता कोटरस्था च कङ्काली कन्दलालया ॥ कपालवासिनी केशी कम्पमानशिरोरुहा । कदम्बरी कदम्बस्था कुङ्कुमप्रेमधारिणी ॥ कुटुम्बिनी कृपायुक्ता क्रतुः क्रतुकरप्रिया । कात्यायनी कृत्तिका च कार्त्तिकी कुशवर्त्तिनी ॥ कामपत्नी कामदात्री कामेशी कामवन्दिता । कामरूपा कामरतिः कामाख्या ज्ञानमोहिनी ॥ खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खगा । खरगा खरनादा च खरस्था खेलनप्रिया ॥ खरांशुः खेलनी खट्वाखराखट्वाङ्गधारिणी। खरखण्डिन्यपि ख्यातिः खण्डिता खण्डनप्रिया ॥ खण्डप्रिया खण्डखाद्या खण्ढसिन्धुश्च खण्डिनी । गङ्गा गोदावरी गौरी गोतम्यपि च गौतमी ॥ गङ्गा गया गगनगा गारुडी गरुडध्वजा । गीता गीतप्रिया गेया गुणप्रीतिर्ग्गुरुर्गिरी । गौर्गौरी गण्डसदना गोकुला गोःप्रतारिणी । गोप्ता गोविन्दिनी गूढा गूढविग्रस्तगुञ्जिनी ॥ गजगा गोपिनी गोपी गोक्षाजयप्रिया गणा । गिरिभूपालदुहिता गोगा गोकुलवासिनी ॥ घनस्तनी घनरुचिर्ग्घनोरुग्घननिस्स्वना । घुङ्कारिणी घुक्षकरी घूघूकपरिवारिता ॥ घण्टानादप्रिया घण्टा घोटा घोटकवाहिनी । घोररूपा च घोरा च घृतप्रीतिर्ग्घृताञ्जनी ॥ घृताची घृतवृष्टिश्च घण्टा घटघटावृता । घटस्था घटना घातकरी घातनिवारिणी ॥ चञ्चरीकी चकोरी च च चामुण्डा चीरधारिणी । चातुरी चपला चञ्चुश्चिता चिन्तामणिस्थिता ॥ चातुर्वर्ण्यमयी चञ्चुश्चोराचार्या चमत्कृतिः । चक्रवर्तिवधूश्चित्रा चक्राङ्गी चक्रमोदिनी ॥ चेतश्चरी चित्तवृत्तिश्चेतना चेतनप्रिया । चापिनी चम्पकप्रीतिश्चण्डा चण्डालवासिनी ॥ चिरञ्जीविनी तच्चिन्ता चिञ्चामूलनिवासिनी । छूरिका छत्रमध्यस्था छिन्दा छिन्दकरी छिदा ॥ छुच्छुन्दरी छलप्रीतिश्छुच्छुन्दरनिभस्वना । छलिनी छत्रदा छिन्ना छिण्टिच्छेदकरी छटा ॥ छद्मिनी छान्दसी छाया छरू छन्दाकरीत्यपि । जयदा जयदा जाती जायिनी जामला जतुः ॥ जम्बूप्रिया जीवनस्था जङ्गमा जङ्गमप्रिया । जवापुष्पप्रिया जप्या जगज्जीवा जगज्जनिः ॥ जगज्जन्तुप्रधाना च जगज्जीवपराजवा । जातिप्रिया जीवनस्था जीमूतसदृशीरुचिः ॥ जन्या जनहिता जाया जन्मभूर्ज्जम्भसी जभूः । जयदा जगदावासा जायिनी ज्वरकृच्छ्रजित् ॥ जपा च जपती जप्या जपाहा जायिनी जना । जालन्धरमयीजानुर्ज्जालौका जाप्यभूषणा ॥ जगज्जीवमयीजीवा जरत्कारुर्ज्जनप्रिया । जगती जननिरता जगच्छोभाकरी जवा ॥ जगतीत्राणकृज्जङ्घा जातीफलविनोदिनी । जातीपुष्पप्रिया ज्वाला जातिहा जातिरूपिणी ॥ जीमूतवाहनरुचिर्ज्जीमूता जीर्णवस्त्रकृत् । जीर्णवस्त्रधरा जीर्णा ज्वलती जालनाशिनी ॥ जगत्क्षोभकरी जातिर्ज्जगत्क्षोभविनाशिनी । जनापवादा जीवा च जननीगृहवासिनी ॥ जनानुरागा जानुस्था जलवासा जलार्त्तिकृत् । जलजा जलवेला च जलचक्रनिवासिनी ॥ जलमुक्ता जलारोहा जलजा जलजेक्षणा । जलप्रिया जलौका च जलांशोभवती तथा ॥ जलविस्फूर्ज्जितवपुर्ज्ज्वलत्पावकशोभिनी । झिञ्झा झिल्लमयी झिञ्झाझणत्कारकरी जया ॥ झञ्झी झम्पकरी झम्पा झम्पत्रासनिवारिणी । टङ्कारस्था टङ्ककरी टङ्कारकरणांहसा ॥ टङ्कारोट्टकृतष्ठीवा डिण्डीरवसनावृता । डाकिनी डामिरी चैव डिण्डिमध्वनिनादिनी ॥ डकारनिस्स्वनरुचिस्तपिनी तापिनी तथा । तरुणी तुन्दिला तुन्दा तामसी च तमः प्रिया ॥ ताम्रा ताम्रवती तन्तुस्तुन्दिला तुलसम्भवा । तुलाकोटिसुवेगा च तुल्यकामा तुलाश्रया ॥ तुदिनी तुनिनी तुम्बा तुल्यकाला तुलाश्रया । तुमुला तुलजा तुल्या तुलादानकरी तथा ॥ तुल्यवेगा तुल्यगतिस्तुलाकोटिनिनादिनी । ताम्रोष्ठा ताम्रपर्णी च तमःसङ्क्षोभकारिणी ॥ त्वरिता ज्वरहा तीरा तारकेशी तमालिनी । तमोदानवती तामतालस्थानवती तमी । तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा । तटस्था तिलतैलाक्ता तरुणी तपनद्युतिः ॥ तिलोत्तमा च तिलकृत्तारकाधीशशेखरा । तिलपुष्पप्रिया तारा तारकेशी कुटुम्बिनी ॥ स्थाणुपत्नी स्थिरकरी स्थूलसम्पद्विवर्द्धिनी । स्थितिः स्थैर्यस्थविष्ठा च स्थपतिः स्थूलविग्रहा ॥ स्थूलस्थलवती स्थाली स्थलसङ्गविवर्द्धिनी । दण्डिनी दन्तिनी दामा दरिद्रा दीनवत्सला ॥ देवा देववधूर्द्दित्या दामिनी देवभूषणा । दया दमवती दीनवत्सला दाडिमस्तनी ॥ देवमूर्त्तिकरा दैत्यादारिणी देवतानता । दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ दशादीपस्थिता दोषादोषहा दोषकारिणी । दुर्गा दुर्गार्तिशमनी दुर्गम्या दुर्गवासिनी । दुर्गन्धनाशिनी दुस्स्था दुःखप्रशमकारिणी । दुर्ग्गन्धा दुन्दुभीध्वान्ता दूरस्था दूरवासिनी ॥ दरदामरदात्री च दुर्व्व्याधदयिता दमी । धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ धीरारवा धरित्री च धर्मदा धीरमानसा । धनुर्द्धरा च धमनी धमनीधूर्त्तविग्रहा ॥ धूम्रवर्णा धूम्रपाना धूमला धूममोदिनी । नन्दिनी नन्दिनीनन्दा नन्दिनीइनन्दबालिका ॥ नवीना नर्मदा नर्मनेमिर्न्नियमनिस्स्वना । निर्मला निगमाधारा निम्नगा नग्नकामिनी ॥ नीला निरत्ना निर्वाणा निर्ल्लोभा निर्गुणा नतिः । नीलग्रीवा निरीहा च निरञ्जनजमानवा ॥ निर्गुण्डिका च निर्गुण्डा निर्न्नासा नासिकाभिधा । पताकिनी पताका च पत्रप्रीतिः पयस्विनी ॥ पीना पीनस्तनी पत्नी पवनाशी निशामयी । परापरपराकाली पारकृत्यभुजप्रिया ॥ पवनस्था च पवना पवनप्रीतिवर्द्धिनी । पशुवृद्धिकरी पुष्पी पोषका पुष्टिवर्द्धिनी ॥ पुष्पिणी पुस्तककरा पूर्णिमातलवासिनी । पेशी पाशकरी पाशा पांशुहा पांशुला पशुः ॥ पटुः पराशा परशुधारिणी पाशिनी तथा । पापघ्नी पतिपत्नी च पतिता पतितापती ॥ पिशाची च पिशाचघ्नी पिशिताशनतोषिणी । पानदा पानपात्री च पानदानकरोद्यता ॥ पेयाप्रसिद्धा पीयूषा पूर्णा पूर्णमनोरथा । पतङ्गाभा पतङ्गा च पौनःपुन्यपिबापरा ॥ पङ्किला पङ्कमग्ना च पानीया पञ्जरस्थिता । पञ्चमी पञ्चयज्ञा च पञ्चता पञ्चमाप्रिया ॥ पिचुमन्दा पुण्डरीका पिकी पिङ्गललोचना । प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ प्रेतासना प्रियालस्था पाण्डुघ्नी पीनसापहा । फलिनी फलदात्री च फलश्रीः फलभूषणा ॥ फूत्कारकारिणी रफारी फुल्ला फुल्लाम्बुजानना । स्फुलिङ्गहा स्फीतमतिः स्फीतकीर्त्तिकरी तथा ॥ बालमाया बलारातिर्ब्बलिनी बलवर्द्धिनी । वेणुवाद्या वनचरी विरञ्चिजनयत्यपि ॥ विद्याप्रदा महाविद्या बोधिनी बोधदायिनी । बुद्धमाता च बुद्धा च वनमालावती वरा ॥ वरदा वारुणी वीणा वीणावादनतत्परा । विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ वैद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता । विद्यौघविह्वला वेला वित्तदा विगतज्वरा ॥ विरावा विवरीकारा बिम्बोष्ठी बिम्बवत्सला । विन्ध्यस्था परवन्द्या च वीरस्थानवरा च वित् ॥ वेदान्तवेद्या विजया विजयाविजयप्रदा । विरोगी वन्दिनी वन्ध्या वन्द्यबन्धनिवारिणी ॥ भगिनी भगमाला च भवानी भवनाशिनी । भीमा भीमानना भीमाभङ्गुरा भीमदर्शना ॥ भिल्ली भिल्लधरा भीरुर्ब्भरुण्डाभी भयावहा । भगसर्पिण्यपि भगा भगरूपा भगालया ॥ भगासना भवाभोगा भेरीझङ्काररञ्जिता । भीषणा भीषणारावा वभगत्यहिभूषणा ॥ भारद्वाजा भोगदात्री भूतिघ्नी भूतिभूषणा । भूमिदाभूमिदात्री च भूपतिर्ब्भरदायिनी ॥ भ्रमरी भ्रामरी भाला भूपालकुलसंस्थिता । माता मनोहरा माया मानिनी मोहिनी मही ॥ महालक्ष्मीर्मदक्षीबा मदिरा मदिरालया । मदोद्धता मतङ्गस्था माधवी मधुमर्द्दिनी ॥ मोदा मोदकरी मेधा मेध्यामध्याधिपस्थिता । मद्यपा मांसलोभस्था मोदिनी मैथुनोद्यता ॥ मूर्द्धावती महामाया माया महिममन्दिरा । महामाला महाविद्या महामारी महेश्वरी ॥ महादेववधूमान्या मथुरा मेरुमण्डिता । मेदस्विनी मिलिन्दाक्षी महिषासुरमर्द्दिनी ॥ मण्डलस्था भगस्था च मदिरारागगर्विता । मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ मातङ्गिनी च मातङ्गी मातङ्गतनयापि च । मधुस्रवा मधुरसा बन्धूककुसुमप्रिया ॥ यामिनी यामिनीनाथभूषा यावकरञ्जिता । यवाङ्कुरप्रिया यामा यवनी यवनार्दिनी ॥ यमघ्नी यमकल्पा च यजमानस्वरूपिणी । यज्ञा यज्ञयजुर्यक्षी यशोनिः कम्पकाकारिणी ॥ यक्षिणी यक्षजननी यशोदायासधारिणी । यशस्सूत्रप्रदा यामा यज्ञकर्मकरीत्यपि ॥ यशस्विनी यकारस्था भूयस्तम्भनिवासिनी । रञ्जिता राजपत्नी च रमा रेखा रवी रणा ॥ रजोवती रजश्चित्रा रञ्जनी रजनीपतिः । रोगिणी रजनी राज्ञा राज्यदा राज्यवर्द्धिनी ॥ राजन्वती राजनीतिस्तथा रजतवासिनी । रमणीरमणीया च रामा रामावती रतिः । रेतो रती रतोत्साहा रोगघ्नी रोगकारिणी । रङ्गा रङ्गवती रागा रागा रागज्ञा रागकृद्दया ॥ रामिका रजकी रेवा रजनी रङ्गलोचना । रक्तचर्मधरा रङ्गी रङ्गस्था रङ्गवाहिनी ॥ रमा रम्भाफलप्रीती रम्भोरू राघवप्रिया । रङ्गा रङ्गाङ्गमधुरा रोदसी च महारवा ॥ रोधकृद्रोगहन्त्री च रूपभृद्रोगस्राविणी । बन्दी वन्दिस्तुता बन्धुर्बन्धूककुसुमाधरा ॥ वन्दिता वन्द्यमाना च वैद्रावी वेदविद्विधा । विकोपा विकपाला च विङ्कस्था विङ्कवत्सला ॥ वेदैर्विलग्नलग्ना च विधिविङ्ककरी विधा । शङ्खिनी शङ्खवलया शङ्खमालावती शमी ॥ शङ्खपात्रा शिनी शङ्खस्वनशङ्खगला शशी । शबरी शम्बरी शम्भुः शम्भुकेशा शरासिनी ॥ शवा श्येनवती श्यामा श्यामाङ्गी श्यामलोचना । श्मशानस्था श्मशाना च श्मशानस्थानभूषणा ॥ शमदा शमहन्त्री च शङ्खिनी शङ्खरोषरा । शान्तिश्शान्तिप्रदा शेषा शेषाख्या शेषशायिनी ॥ शेमुषी शोषिणी शेषा शौर्या शौर्यशरा शरी । शापदा शापहा शापाशापपन्था सदाशिवा ॥ श‍ृङ्गिणी श‍ृङ्गिपलभुक् शङ्करी शाङ्करी शिवा । शवस्था शवभुक् शान्ता शवकर्णा शवोदरी ॥ शाविनी शवशिंशाश्रीः शवा च शमशायिनी । शवकुण्डलिनी शैवाशीकरा शिशिराशिना ॥ शवकाञ्ची शवश्रीका शबमाला शवाकृतिः । सवन्ती सङ्कुचा शक्तिश्शन्तनुश्शवदायिनी ॥ सिन्धुस्सरस्वती सिन्धुस्सुन्दरी सुन्दरानना । साधुः सिद्धिप्रदात्री च सिद्धा सिद्धसरस्वती ॥ सन्ततिस्सम्पदा संवच्छङ्किसम्पत्तिदायिनी । सपत्नी सरसा सारा सारस्वतकरी सुधा ॥ सुरासमांसाशना च समाराध्या समस्तदा । समधीस्सामदा सीमा सम्मोहा समदर्शना ॥ सामतिस्सामधा सीमा सावित्री सविधा सती । सवना सवनासारा सवरा सावरा समी ॥ सिमरा सतता साध्वी सध्रीची ससहायिनी । हंसी हंसगतिहंसी हंसोज्ज्वलनिचोलयुक् ॥ हलिनी हालिनी हाला हलश्रीर्हरवल्लभा । हला हलवती ह्येषा हेला हर्षविवर्द्धिनी ॥ हन्तिर्हन्ता हयाहाहाहताहन्तातिकारिणी । हङ्कारी हङ्कृतिर्हङ्का हीहीहाहाहिताहिता ॥ हीतिर्हेमप्रदा हाराराविणी हरिरसम्मता । होरा होत्री होलिका च होमा होमहविर्हविः ॥ हरिणी हरिणीनेत्रा हिमाचलनिवासिनी । लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ॥ लीला लीलावती लोला ललना ललिता लता । ललामलोचना लोभ्या लोलाक्षी सत्कुलालया ॥ लपत्नी लपती लम्पा लोपामुद्रा ललन्तिका । लतिका लङ्घिनी लङ्घा लालिमा लघुमध्यमा ॥ लघीयसी लघूदर्या लूता लूताविनाशिनी । लोमशा लोमलम्बी च लुलन्ती च लुलुम्पती ॥ लुलायस्था बलहरी लङ्कापुरपुरन्दरा । लक्ष्मीर्ल्लक्ष्मीप्रदा लभ्या लाक्षाक्षी लुलितप्रभा ॥ क्षणा क्षणक्षुक्षुक्षिणी क्षमाक्षान्तिः क्षमावती । क्षामा क्षामोदरी क्षेम्या क्षौमभृत्क्षत्रियाङ्गणा ॥ क्षया क्षायाकरी क्षीरा क्षीरदा क्षीरसागरा । क्षेमङ्करी क्षयकरी क्षयकृत्क्षणदा क्षतिः ॥ क्षुद्रिका क्षुद्रिकाक्षुद्रा क्षुत्क्षमा क्षीणपातका । मातुः सहस्रनामेदं सुमुख्यास्सिद्धिदायकम् ॥ यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः । अनाचारात्पठेन्नित्यन्दरिद्रो धनवान्भवेत् ॥ मूकस्स्याद्वाक्पतिर्देवि रोगी नीरोगताव्व्रजेत् । पुत्रार्त्थी पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ वन्ध्यापि सूयते पुत्रव्विदुषस्सदृशङ्गुरोः । सत्यञ्च बहुधा भूयाद्गावश्च बहुदुग्धदाः ॥ राजानः पादनम्रास्स्युस्तस्य हासा इव स्फुटाः । अरयस्सङ्क्षयय्यान्ति मानसा संस्मृता अपि ॥ दर्शनादेव जायन्ते नरा नार्योपि तद्वशाः । कर्त्ता हर्त्ता स्वयवीरो जायते नात्र संशयः ॥ यय्यङ्कामयते कामन्तन्तमाप्नोति निश्चितम् । दुरितन्न च तस्यास्ति नास्ति शोकः कथञ्चन ॥ चतुष्पथेऽर्द्धरात्रे च यः पठेत्साधकोत्तमः । एकाकी निर्ब्भयो वीरो दशावर्त्तस्तवोत्तमम् ॥ मनसा चिन्तितङ्कार्यं तस्य सिद्धिर्न्न संशयः । विना सहस्रनाम्नाय्यो जपेन्मन्त्रङ्कदाचन ॥ न सिद्धिर्ज्जायते तस्य मन्त्रङ्कल्पशतैरपि । कुजवारे श्मशाने वा मध्याह्ने यो जपेत्सदा ॥ कृतकृत्यस्स जायेत कर्त्ता हर्त्ता नृणामिह । रोगार्त्तोऽर्द्धनिशायाय्यः पठेदासनसंस्थितः ॥ सद्यो नीरोगतामेति यदि स्यान्निर्ब्भयस्तदा । अर्द्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् । अष्टोत्तरसहस्रन्तु दशवारञ्जपेत्ततः । सहस्रनाम चैतद्धि तदा याति स्वयं शिवा ॥ महापवनरूपेण घोरगोमायुनादिनी । ततो यदि न भीतिः स्यात्तदा देहीतिवाग्भवेत् ॥ तदा पशुबलिन्दद्यात्स्वयं गृह्णाति चण्डिका । यथेष्टञ्च वरन्दत्त्वा प्रयाति सुमुखी शिवा ॥ रोचनागुरुकस्तूरीकर्प्पूरैश्च सचन्दनैः । कुङ्कुमेन दिने श्रेष्ठे लिखित्वा भूर्ज्जपत्रके ॥ शुभनक्षत्रयोगे च कृतमारुतसक्रियः । कृत्वा सम्पातनविधिन्धारयेद्दक्षिणे करे ॥ सहस्रनाम स्वर्णस्थङ्कण्ठे वा विजितेन्द्रियः । तदायम्प्रणमेन्मन्त्री क्रुद्धस्स म्रियते नरः ॥ दुष्टश्वापदजन्तूनान्न भीः कुत्रापि जायते । बालकानामियं रक्षा गर्ब्भिणीनामपि प्रिये ॥ मोहनस्तम्भनाकर्ष-मारणोच्चाटनानि च । यन्त्रधारणतो नूनञ्जायन्ते साधकस्य तु ॥ नीलवस्त्रे विलिखिते ध्वजायाय्यदि तिष्ठति । तदा नष्टा भवत्येव प्रचण्डाप्यरिवाहिनी ॥ एतज्जप्तम्महाभस्म ललाटे यदि धारयेत् । तद्विलोकन एव स्युः प्राणिनस्तस्य किङ्कराः ॥ राजपत्न्योऽपि विवशाः किमन्याः पुरयोषितः । एतज्जप्तम्पिबेत्तोयम्मासेन स्यान्महाकविः ॥ पण्डितश्च महावादी जायते नात्र संशयः । अयुतञ्च पठेत्स्तोत्रम्पुरश्चरणसिद्धये ॥ दशांशङ्कमलैर्हुत्वा त्रिमध्वाक्तैर्विधानतः । स्वयमायाति कमला वाण्या सह तदालये ॥ मन्त्रो निःकीलतामेति सुमुखी सुमुखी भवेत् । अनन्तञ्च भवेत्पुण्यमपुण्यञ्च क्षयव्व्रजेत् ॥ पुष्करादिषु तीर्त्थेषु स्नानतो यत्फलम्भवेत् । तत्फलल्लभते जन्तुः सुमुख्याः स्तोत्रपाठतः ॥ एतदुक्तं रहस्यन्ते स्वसर्वस्वव्वरानने । न प्रकाश्यन्त्वया देवि यदि सिद्धिञ्च विन्दसि ॥ प्रकाशनादसिद्धिस्स्यात्कुपिता सुमुखी भवेत् । नातः परतरो लोके सिद्धिदः प्राणिनामिह ॥ वन्दे श्रीसुमुखीम्प्रसन्नवदनाम्पूर्णेन्दुबिम्बाननां सिन्दूराङ्कितमस्तकाम्मधुमदोल्लोलाञ्च मुक्तावलीम् । श्यामाङ्कञ्जलिकाकराङ्करगतञ्चाध्यापयन्तीं शुकङ्गुञ्जापुञ्जविभूषणां सकरुणामामुक्तवेणीलताम् ॥ इति श्रीनन्द्यावर्त्ततन्त्रे उत्तरखण्डे मातङ्गीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
The original text is from Muktabodha Indological Research Institute www.muktabodha.org Dyczkowski. Reprint of edition published in 1892. Revision 0 february 9, 2009 Publisher : Shrivenkateshvara press Publication year : 1949