अक्षर आकार:

श्रीमातङ्गी अष्टोत्तरशतनामावलिः

Shri Matangi Ashtottarashatanamavalih

श्रीमातङ्गी अष्टोत्तरशतनामावलिः

ॐ महामत्तमातङ्गिनीसिद्धिरूपायै नमः । ॐ योगिन्यै नमः । ॐ भद्रकाल्यै नमः । ॐ रमायै नमः । ॐ भवान्यै नमः । ॐ भवप्रीतिदायै नमः । ॐ भूतियुक्तायै नमः । ॐ भवाराधितायै नमः । ॐ भूतिसम्पत्कर्यै नमः । ॐ धनाधीशमात्रे नमः । १० ॐ धनागारदृष्ट्यै नमः । ॐ धनेशार्चितायै नमः । ॐ धीरवापीवराङ्ग्यै नमः । ॐ प्रकृष्टप्रभारूपिण्यै नमः । ॐ कामरूपप्रहृष्टायै नमः । ॐ महाकीर्तिदायै नमः । ॐ कर्णनाल्यै नमः । ॐ करालीभगायै घोररूपायै नमः । ॐ भगाङ्ग्यै नमः । ॐ भगाह्वायै नमः । २० ॐ भगप्रीतिदायै नमः । ॐ भीमरूपायै नमः । ॐ भवान्यै नमः । ॐ महाकौशिक्यै नमः । ॐ कोशपूर्णायै नमः । ॐ किशोरीकिशोरप्रियानन्देहायै नमः । ॐ महाकारणाकारणायै नमः । ॐ कर्मशीलायै नमः । ॐ कपालिप्रसिद्धायै नमः । ॐ महासिद्धखण्डायै नमः । ३० ॐ मकारप्रियायै नमः । ॐ मानरूपायै नमः । ॐ महेश्यै नमः । ॐ महोल्लासिनीलास्यलीलालयाङ्ग्यै नमः । ॐ क्षमाक्षेमशीलायै नमः । ॐ क्षपाकारिण्यै नमः । ॐ अक्षयप्रीतिदायै नमः । ॐ भूतियुक्तायै नमः । ॐ भवान्यै नमः । ॐ भवाराधितायै नमः । ४० ॐ भूतिसत्यात्मिकायै नमः । ॐ प्रभोद्भासितायै नमः । ॐ भानुभास्वत्करायै नमः । ॐ धराधीशमात्रे नमः । ॐ धरागारदृष्ट्यै नमः । ॐ धरेशार्चितायै नमः । ॐ धीवराधीवराङ्ग्यै नमः । ॐ प्रकृष्टप्रभारूपिण्यै नमः । ॐ प्राणरूपप्रकृष्टस्वरूपायै नमः । ॐ स्वरूपप्रियायै नमः । ५० ॐ चलत्कुण्डलाकामिन्यै नमः । ॐ कान्तयुक्तायै नमः । ॐ कपालाचलायै नमः । ॐ कालकोद्धारिण्यै नमः । ॐ कदम्बप्रियायै नमः । ॐ कोटरीकोटदेहायै नमः । ॐ क्रमायै नमः । ॐ कीर्तिदायै नमः । ॐ कर्णरूपायै नमः । ॐ काक्ष्म्यै नमः । ६० ॐ क्षमाङ्ग्यै नमः । ॐ क्षयप्रेमरूपायै नमः । ॐ क्षपायै नमः । ॐ क्षयाक्षायै नमः । ॐ क्षयाह्वायै नमः । ॐ क्षयप्रान्तरायै नमः । ॐ क्षवत्कामिन्यै नमः । ॐ क्षारिणीक्षीरपूर्णायै नमः । ॐ शिवाङ्ग्यै नमः । ॐ शाकम्भर्यै नमः । शाकदेहायै ७० ॐ महाशाकयज्ञायै नमः । ॐ फलप्राशकायै नमः । ॐ शकाह्वायै नमः । ॐ शकाह्वाशकाख्यायै नमः । ॐ शकायै नमः । ॐ शकाक्षान्तरोषायै नमः । ॐ सुरोषायै नमः । ॐ सुरेखायै नमः । ॐ महाशेषयज्ञेपवीतप्रियायै नमः । ॐ जयन्त्यै नमः । ८० ॐ जयायै नमः । ॐ जाग्रतीयोग्यरूपायै नमः । ॐ जयाङ्गायै नमः । ॐ जपध्यानसन्तुष्टसंज्ञायै नमः । ॐ जयप्राणरूपायै नमः । ॐ जयस्वर्णदेहायै नमः । ॐ जयज्वालिनीयामिन्यै नमः । ॐ याम्यरूपायै नमः । ॐ जगन्मातृरूपायै नमः । ॐ जगद्रक्षणायै नमः । ९० ॐ स्वधावौषडन्तायै नमः । ॐ विलम्बाविलम्बायै नमः । ॐ षडङ्गायै नमः । ॐ महालम्बरूपासिहस्तायै नमः । ॐ पदाहारिणीहारिण्यै नमः । ॐ हारिण्यै नमः । ॐ महामङ्गलायै नमः । ॐ मङ्गलप्रेमकीर्त्यै नमः । ॐ निशुम्भच्छिदायै नमः । ॐ शुम्भदर्पत्वहायै नमः । १०० ॐ आनन्दबीजादिमुक्तस्वरूपायै नमः । ॐ चण्डमुण्डापदामुख्यचण्डायै नमः । ॐ प्रचण्डाप्रचण्डायै नमः । ॐ महाचण्डवेगायै नमः । ॐ चलच्चामरायै नमः । ॐ चामराचन्द्रकीर्तये नमः । ॐ सुचामीकराचित्रभूषोज्ज्वलाङ्ग्यै नमः । ॐ सुसङ्गीतगीतायै नमः । १०८ इति श्रीमातङ्ग्यष्टोत्तरशतनामावलिः सम्पूर्णा ॥