अक्षर आकार:

मातृपञ्चकम्

Matripanchakam

मातृपञ्चकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । मातृगायत्री ॐ मातृदेव्यै च विद्महे । वरदायै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ लक्ष्मीं वरदपत्नीं च क्षान्तां सुप्रियसेविताम् । वीणासङ्गीतलोलां च मन्मातरं नमाम्यहम् ॥ १॥ अन्नपूर्णां बुभुक्षाहां स्वस्तिवाचास्पदां वराम् । सत्कारुण्यगुणामम्बां मन्मातरं नमाम्यहम् ॥ २॥ रोगपीडापहश्लोकां रोगशोकोपशामनीम् । श्लोकप्रियां स्तुतां स्तुत्यां मन्मातरं नमाम्यहम् ॥ ३॥ रामकृष्णप्रियां भक्तां रामायणकथाप्रियाम् । श्रीमद्भागवतप्रीतां मन्मातरं नमाम्यहम् ॥ ४॥ त्यागराजकृतिप्रीतां पुत्रीपुष्पाप्रियस्तुताम् । शतायुर्मङ्गलाशीदां मन्मातरं नमाम्यहम् ॥ ५॥ मङ्गलं मम मात्रे च लक्ष्मीनाम्न्यै सुमङ्गलम् । मङ्गलं प्रियदात्र्यै च मनोगायै सुमङ्गलम् ॥ ६॥ इति मातृपञ्चकं पुत्र्या पुष्पया प्रीत्या मातरि लक्ष्म्यां समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan