अक्षर आकार:

मातृदेवीलीलास्तुतिः

Matridevi Lila Stuti

मातृदेवीलीलास्तुतिः

ॐ सदा व्रतैः सतां गतैः सुशास्त्रमार्गवेदितै- श्चराचरेषु सत्त्वकेषु वासरं(१) गवेषयन् । स्वचिद्धनं स्वमातृतोऽद्य लब्धवांस्तु यद्यऽहं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १॥ (२)स्वदक्षदोर्गतं रदाऽक्षसूत्रकं सुमूषकासनं च वामदोर्गतं कुठारमोदकं त्रिदृक् । सुदीर्घ(३)कुक्षिशुण्डकं भुजङ्गहारि रक्तभं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ २॥ यदेव मुक्तविद्रुमाऽसिताऽच्छ(४)पीतपञ्चकं(५), त्रिलोचनं किरीटचन्द्रशोभितं द्विजैः(६) श्रि(७)तम् । श्रुतिक्षि(८)तिर्भवार्तिहृत् सुहंसवाहनं श्रुतौ(९) सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ३॥ (१०)सुमेरुश‍ृङ्गपीठगं सुरक्तवर्णभं सदा मृगेन्द्रवाहनं भुजङ्गहारि दुष्टदैत्यहृत् । हया(११)धिदिग्भुजैश्च भीरु(१२)सप्तकेन यद्वृतं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ४॥ सुकीलप(१३)र्वतस्थितं सुकील(१४)वृन्दमालितं, चतुर्भुजं किरीटचन्द्रशोभि दुष्टभक्षकम् । त्रिदृक्च यत्सुपूजितं सदाऽन्नपानदैर्जनैः सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ५॥ सरोऽ(१५)न्तरे (१६)सुनागगं विव(१७)र्णभृञ्जलान्तरे, भुजङ्गहारि पायसप्रियं जयप्रदं नृणाम् । सुरागिणां दुरात्मनां भयप्रदं जटेन्दु यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ६॥ Footnote १ प्रत्यहं नित्यादिकर्ममार्गैः स्वस्वरूपानन्दमन्वेषयन् । २ सर्वात्मतां प्रकटयति । ३ लम्बोदरं दीर्घनासं च गणेशाकृति यत् । ४ सितम् । ५ मुक्ताविद्रुमहेमनीलधवलछायात्मकपञ्चशिरस्कम् । ६ वेदाभिप्रायज्ञैः ७ महागायत्रीस्वरूपेण स्वीकृतम् । ८ वेदभूः । ९ वेदे च प्रथितं यत् । १० काश्मीरे प्रसिद्धश्रीचक्रेश्वराख्यपर्वतस्थितम् । ११ अष्टाधिकदशभुजैः । १२ अमादिदेवीसप्तकेन वृतं शारिकात्म यत् । १३ काश्मीरे प्रसिद्धज्वालापर्वतगम् । १४ ज्वालादेवी नामकं यत् । १५ सरसां मध्ये कश्मीरे तु ``तुलमुल'' इति संज्ञके ग्रामेऽनेकनागानां मध्ये प्रसिद्धम् । १६ श्रीमहाराज्ञीनागस्थितम् । १७ जलान्तर्विविधरूपप्रकाशकं राज्ञीसंज्ञकं यत् । निलिम्पपञ्चम(१)ञ्चगं सुनीलभं त्रिलोचनं त्रिपूर्षु सुन्दरं सुरारिघातकं भयापहम् । कदम्बवाटिकागतं सुभक्तभीतिहारि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ७॥ यदेव वैष्णवैश्चतुर्भुजं च नीलसुन्दरं गदाऽरि(२)शङ्खपद्मकौस्तुभोज्ज्वलं हृदा धृतम् । सुपीतवस्त्रमा(३)भृतं खगासनं स्वचिद्घनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ८॥ नृमुण्डस्रग्युतं भुजङ्गभूषितं शिवायुतं सुपञ्च(४)कं त्रिलोचनं श्मशानभूमिशायि यत् । जटेन्दु भुक्तिमुक्तिदं सप्रेतकं वृषासनं सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ९॥ अरोग(५)ताऽच्छताप्रतापधी(६)स्वधीसुखाऽभया- ऽसुबन्ध(७)ताधृतिप्रसन्नताजयात्मशक्तिभिः । (८)इनेन्दुभौमसौम्यजीवभार्गवादिरूपि यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १०॥ कृपाणखेटशङ्खशूलबाणचापतर्जनी- रथाङ्गशोभिदोर्व(९)नं सुदूर्वयाऽनुगं रुचा । हया(१०)रिमूर्ध्नि संस्थितं सुरारिरक्तपं च (११)यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ ११॥ सिताऽसिताऽर्कभं(१२) रमाशिवाश्रुतिप्रसूपति प्रदाकुशत्रु(१३)गोसिताङ्गवाहि चैकशीर्षकम् । शरास्यकं चतुर्मुखं यदेव मागुण(१४)क्रमात् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १२॥ अनेकशीर्षपाददोःश्रवाक्षिवक्षसास्यकं सहस्रवस्त्रवर्णभूषणायुधाकृतिश्रितम् । अनेकपत्र(१५)शस्त्रनागसत्त्वकर्मभृच्च यत् सुजोनदीदिनामकं नमामि तत्सुभक्तितः ॥ १३॥ Footnote १ ब्रह्मविष्णुरुद्रेश्वरसदाशिवाख्यपञ्चदेवात्मपर्यङ्क- स्थितं त्रिपुरसुन्दरीस्वरूपं यत् । २ सुदर्शनचक्रं ३ लक्ष्मीयुतं विष्णुरूपं यत् । ४ सुपञ्चशिरस्कं शिवात्मकं यत् । ५ नवग्रहाणां तु । ``आरोग्यं तरणिः शशी विमलतां भौमः प्रतापोदयं बुद्धिं शीतकरात्मजः सुरगुरुर्ज्ञानं सुखं भार्गवः । धैर्यं सूर्यसुतश्च राहुरभयं केतुः प्रसादं ध्रुवः शौर्यं कुम्भसमुद्भवोप्यथ जयं दिश्यन्तु सर्वे ग्रहाः'' इत्यात्मकाः चिच्छक्तय एवेत्यर्थः । ६ ज्ञानम् । ७ शौर्यम् । ८ एकादशग्रहात्म । ९ भुजाष्टकं । १० महिषोत्तमाङ्गस्थितम् । ११ श्रीदुर्गाख्यं । १२ रक्तवर्णम् । १३ गरुडवृषहंसाधिरूढम् । १४ मायायाः सत्वतमोरजसामुपाधितः विष्णुशिवब्रह्मात्मकं यत् । १५ वाहनं विराडात्मकं यत् । पडूरगोविन्दकौलजं हि जोनदीदिभा(१)वनं पठेत् हृदीद्धभा(२)वनो विधाय तत्पदद्वयम् । मतिं श्रुतौ रमां गृहे यशो जनेषु दीयतेऽन्विह(३) त्वऽमुत्र तस्य निर्भयं(४) चिदीश्वरी पदम् ॥ १४॥ Footnote (१) भक्तिः सर्वात्मकाद्यशक्त्यनुभवविस्फुरणात्मिका, ``बहूनां जन्मनामन्ते'' इति गीतासु । (२) तीव्रभक्तिमान् । (३) भक्तियुक्तपाठादनन्तरमेव । (४) कैवल्यं इति श्रीमद्दत्तात्रेयवंशीय पडरू इत्युपहितगोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृदेवीलीलास्तुतिः समाप्ता ।