अक्षर आकार:

श्रीराजराजेश्वरीमातृभक्तिस्तुतिः

Matribhakti Stuti

श्रीराजराजेश्वरीमातृभक्तिस्तुतिः

ॐ भूमौ धर्मविनाशमीक्ष्य दिविजैः सिद्धैश्चतुर्भिर्मुदा विज्ञप्ता सनकादिभिर्भगवती दुःखार्तिहन्त्री सताम् । पुत्रीभूय स्वयं च तैरनुदिनं संसेविता या परा ख्याता साऽवतु नोऽत्र जोनदिदितः(१) श्रीराजराजेश्वरी ॥ १॥ दोषैर्दुष्टमऽनेकधा क्षितितलं संवीक्ष्य धर्मध्वज(२)- व्याजात्कश्यपधर्मदग्धविमलं(३) तीर्थैश्च संस्कारितम् । श्रीकश्मीरतले सुमेरुसविधे देशं गता या स्वयं ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ २॥ बाल्ये नर्मसु कृष्णगीःषु (४) च य(५)देतीत्थं भुवि ख्यापने प्रोद्युक्ता विविधात्तपुण्यसरणिः पाषाणमूर्त्यादिषु । या व्यक्तं शिव(६)विष्णवित्यऽविरतं नामार्चनादिस्रुतेः ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ३॥ (७)पातिव्रत्यविधेरऽतीव च सती लोकेषु ख्यातौ रता पाठे होमविधावऽतिथियजने श्राद्धे बलौ यक्षसाम् । पत्युश्चाशयतोऽन्वहं विदधती भक्त्या सुवाचाऽपि या ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ४॥ गार्हस्थ्यं सफलीविधाय तनुजीभूतैः पुरा(८)सिद्धकै स्तद्द्वारा च स्वयं वन(९)स्थवृषतः स्वायाससाध्यैर्धनैः । सक्ता स्वी(१०)यकुटीगतातिथिजने तीर्था(११)टने या (१२)व्रते ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ५॥ Footnote १ ``ज्योनदिदि '' इति नाम्ना ख्याता । २ पाखाण्डमिषेण । ३ कश्यपमुनितपसा भस्मीभूतविविधपापम् । ४ भगवद्गीतासु । ५ यदा यदाहि धर्मस्येति वाक्यार्थख्यापने । ६ हे शिव, हे विष्णो इत्थं नित्यमेव नामभिः । पूजादिनविविधभक्तिमार्गाच्च व्यक्तीकृतविविधधर्ममार्गा । ७ पतिव्रतस्त्रीनियमानां ख्यापनाय । पत्युर्वृत्त्यनुराधात्पञ्चयज्ञतत्पराऽसीदित्यर्थः । ८ पुरोक्तैः सनकादिभिः पुत्रीभूतैर्गार्हस्थ्यफलं पितृऋणमुक्तिं विधाय । ९ वानप्रस्थधर्मतः । १० कुटीचकसंन्यासा क्रमेण गृहागतसज्जनसेवायां सक्ता । ११ तीर्थयात्रासु । १२ चातुर्मासादिव्रतानुष्ठानक्रमेषु च सक्ताऽभूदित्यर्थः ॥ येन्दोः कीर्तिमधो(१)करी यतिजनेष्वाऽगुप्तदानार्पणैः सम्मानैर्महतां सुपेशलवचोयोगैर्मुदा मानिनाम् । सद्वाक्यैश्च शमादिधर्मविषयैर्युक्तैविरक्तात्मनां ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ६॥ या सूर्यस्य च शक्ति(२)माप्य हसती कामाद्यरेस्तापनैलिङ्गा(३)- ऽवृत्तिसुशासनेश्च शमितैः स्वीयैर्मनोधर्मभिः । मोहाद्या(४)ऽन्ध्यसुवृत्तमानसवतां ज्ञानप्रकाशप्रदा ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ८॥ ऐश्वर्यं स्वजनेषु तापमरिषु स्वान्ते शमं नैरृ(५)तिं दुष्टेष्वेव समृद्धिमिष्टनि(६)वहे देहात्मबुद्धिं चितौ(७) । सन्न्यस्याऽत्मधिया(८) विविक्तमहिमा याऽगाच्च स्वे (९)धामनि ख्याता साऽवतु नोऽत्र जोनदिदितः श्रीराजराजेश्वरी ॥ ८॥ धर्मे दाक्ष्यकृतिं मनोमलहृतिं स्वास्थ्यस्थितिं देह(१०)के निर्माधु(११)र्यसृतिं गिरोऽतिशयतो भक्तिस्रुतिं स्वेश्व(१२)रे । मात्राकारतयोल्लसत्परचितेर्दद्यात्कृतेयं स्तुति- र्मातुर्भक्तिहृताशयैश्च पडरूश्रीगोविन्दकौलैर्नृणाम् ॥ ९॥ मात्रष्टकं पठेद्यस्तु मातृभक्तो जितेन्द्रियः आयुरारोग्यमैश्वर्यमिहा(१३)ऽन्ते सोऽप्नुयात्पराम् ॥ १०॥ इति श्रीमच्छ्रीदत्तात्रेयकुलोत्पन्नपडरू इत्युपहित गोविन्दकौलानुज्ञया दैवज्ञकेशवभट्टविरचिता मातृभक्तिस्तुतिः ॥ Footnote १ तिरस्कुर्वती सर्वथा प्रह्लादकत्वात् । वियोगिनां दाहकत्वाच्चेन्दोः । २ प्रतापनयुतप्रकाशनशक्तिं अस्यास्तु तापत्रयप्रशमनयुत प्रकाश शक्तिवत्त्वात् इति भावः । ३ धर्मिष्टानां चिह्नैर्नत्वनुष्ठानैरावृत्तिः स्वधर्मावरणं नतु स्वोद्धारकरणं येषां तेषां धर्मव्याख्यानात्मप्रशासनैश्च । ४ कामादिभिरावृत्तान्तः करणानां प्रकाशदा । ५ अलक्ष्मीम् । ६ मित्रवर्गे । ७ स्वरूपे । ८ आत्माऽपरोक्षेण प्राप्ताऽद्वैतस्वरूपवृत्तिः । ९ कैवल्यात्मनि १० सूक्ष्मे देहे अन्तःकरणदोषनाशं स्थूले स्वास्थ्यं च । ११ निरतिशयतो माधुर्यप्रसृतिम् । १२ स्वेष्टदेवे भक्तिमार्गं च । इयं स्तुतिः पाठकानां मनुष्याणाम् । १३ इह लोके भुक्तिं, परलोके च मुक्तिमाप्नुयात् ॥