अक्षर आकार:

मान्धातृशैलेश्वरीस्तोत्र

mAndhAtRishaileshvarI stotra

मान्धातृशैलेश्वरीस्तोत्र

श्री गणेशाय नमः ॥ वन्दे नीलकलेवरां त्रिनयनांदंष्ट्राकरालाननां, घण्टा मर्मशरावमुण्ड भुजगैः खट्वाङ्गशूलासिभिः । आरूढाष्टभुजां किरीटरशनाघोषादिभिर्भूषणै - राशीर्षाङ्घ्रिविटङ्कितां भगवतीम् मान्धातृशैलेश्वरीम् ॥ १॥ मञ्जीरैर्मुखरीकृताङ्घ्रियुगलां सन्ध्याभ्रशोणांबरां चञ्चद्घोरकृपाणपाणिकमला मुज्जृम्भितभ्रूलतां । सारंभप्रसरत्स्फुलिङ्ग नयनामुच्चाट्टहासस्वनैर् निर्धूताखिलसद्भयामनुभजे मान्धातृशैलेश्वरीम् ॥ २॥ वन्दे वक्षसिवृक्णदानवशिरो मालामयं कञ्चुकं, कर्णे कुञ्जरकुण्डलं कटितटे भोगीन्द्रकाञ्चीगुणम् । हस्तेदारिकरक्तपङ्किलमुखं धृत्वा खलानां भयं, शिष्टानामभयं च या दिशति तां मान्धातृशैलेश्वरीम् ॥ ३॥ स्मेरापाङ्गविलोकविभ्रमरसैः शूलादिभिश्चायुधैः - साधूनां च दुरात्मनां च हृदयग्रन्थिंसकौतूहलम् । कृन्तन्तीम् भुवनत्रयैकजननीं वात्सल्यवारान्निधिं वन्देऽस्मत् कुलदेवतां शरणदां मान्धातृशैलेश्वरीम् ॥ ४॥ शुद्धान्तःकरणस्य शम्भुचरणां भोजेप्रपन्नात्मनो, निष्कामस्य तपोधनस्य, जगतां श्रेयोविधानार्थिनः । मान्धातुर्हितकारिणीं गिरिसुता पुत्रीं कृपावर्षिणीं वन्दे भक्तपरायणां भगवतीम् मान्धातृशैलेश्वरीम् ॥ ५॥ कैलासादवतीर्यभार्गववरक्षोणीगते पावन - क्षेत्रेसन्निहितांसदा हरिहरब्रह्म्यादिभिः पूजितां । भक्तानुग्रहकातरां, स्थिरचरप्राणिव्रजस्याम्बिकां मान्धातुर्वशवर्तिनीमनुभजे मान्धातृशैलेश्वरीम् ॥ ६॥ संख्यातीतभटैर्वृतेनरिपुणा सामूतिरिक्षोणिपे नाक्रान्तस्यनिजाङ्घ्रिमात्रशरणस्यात्यल्पसेनाभृतः प्राणंवल्लुवभूमिपस्यतिलशस्तेषांशिरच्छेदनै - रक्षन्तीमनुकम्पयानुकलये मान्धातृशैलेश्वरीम् ॥ ७॥ तुर्यस्थानविहारिणीमशरणानुद्धर्तुमाकांक्षिणी - मार्षोर्व्यामवतारिणीं भृगुवरक्षेत्रेस्थिरावासिनीम् । भक्तानामभयङ्करीमविरलोत्सर्पत् कृपानिर्झरीं वाताधीश सहोदरीं परिभजे मान्धातृशैलेश्वरीम् ॥ ८॥