अक्षर आकार:

श्रीलोकनायकीपापविनाशेश्वरस्तोत्रम्

Shri Lokanayakipapavinasheshvarastotram

श्रीलोकनायकीपापविनाशेश्वरस्तोत्रम्

(श्रीपापविनाशक्षेत्रे) लोकनायकि कृपामृतराशे पाकचन्द्रविलसत्कचभारे । शोकवारणनिविष्टमनस्के नाकनाथविनुते परिपाहि ॥ १॥ पापानां नाशः स्याद्विशेषतो यत्त्वदङ्घ्रिवीक्षातः । पापविनाशेश्वर इति तस्मान्नामाभवत्तवेशान ॥ २॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीलोकनायकीपापविनाशेश्वरस्तोत्रं सम्पूर्णम् ।