अक्षर आकार:

श्रीलक्ष्मीलहरी

shrIlakShmIlaharI

श्रीलक्ष्मीलहरी

श्रीगणेशाय नमः । समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचाम्- अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः । ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥ समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि । यमासाद्योन्माद्यद्द्विपनियुतगण्डस्थलगलन्- मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥ २॥ उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः । सुरास्तं गायन्ति स्फुरिततनुगङ्गाधरमुखास्- तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥ समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां विदूरे दानान्धद्विरदकलभोद्दामनिनदः । बहिर्द्वारे तेषां भवति हयहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४॥ अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः । उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहरन्- नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५॥ नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्- कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः । लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरणश्- चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६॥ प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः । नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७॥ प्रभातप्रोन्मीलत्कमलवनसञ्चारसमये शिखाः किञ्जल्कानां विदधति रुजं यत्र मृदुलाः । तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८॥ स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरैर्- निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः । अमन्दं स्यन्दन्ते वदनकमलादत्य कृतिनो विविक्तौ वै कल्पाः सततमविकल्पा नवगिरः ॥ ९॥ शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे । जपेद्यः स्वच्छन्दं स हि पुनरमन्दं गजघटाम्- अदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ १०॥ स्मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । यया पातं पातं पदकमलयोः पर्वतचरो हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥ ११॥ हरन्तो निःशङ्कं हिमकरकलानां रुचिरतां किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् । विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा ममान्तःसन्तापं तव चरणशोणाम्बुजनखाः ॥ १२॥ मिषान्माणिक्यानां विगलितनिमेषं निमिषताम्- अमन्दं सौन्दर्य तव चरणयोरम्बुधिसुते । पदालङ्काराणां जयति कलनिक्वाणनपटुर्- उदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥ १३॥ मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया जटालं ते जङ्घायुगलमघभङ्गाय भवतु । भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४॥ हरद्गर्वं सर्वं करिपतिकराणां मृदुतया भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् । लसज्जानुज्योत्स्ना तरणिपरिणद्धं जलधिजे तवोरुद्वन्द्वं नः श्लथयतु भवोरुज्वरभयम् ॥ १५॥ कलक्वाणां काञ्चीं मणिगणजटालामधिवहन्- वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् । मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥ १६॥ जगन्मिथ्याभूतं मम निगदतां वेदवचसाम्- अभिप्रायो नाद्यावधि हृदयमध्याविशदयम् । इदानीं विश्वेषां जनकमुदरं ते विमृशतो विसन्देहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७॥ अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्- निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि । असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥ १८॥ निदानं श‍ृङ्गांरप्रकरमकरन्दस्य कमले महानेवालम्बो हरिनयनरोलम्बवरयोः । निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९॥ गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् । पदं यावन्नयस्यत्यहह विनिमग्नैव सहसा नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥ २०॥ कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरणनवलीलानिपुणयोर्- ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥ २१॥ हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वन्द्वद्युतिदमनदीक्षाधिगुरुताम् । तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ २२॥ अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते दयापीयूषाम्भोनिधिसहजसंवासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मनाङ्ग मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३॥ मृणालीनां लीलाः सहजलवणिम्ना लघयतां चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः । लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥ २४॥ अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५॥ अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां रसज्ञामज्ञानां क इव कमले मंथरयतु । त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥ २६॥ समाहारः श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसन्तापसरणेः । प्रहारः सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७॥ अलङ्कुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्- तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८॥ तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । हरिः कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९॥ अभूदप्रत्यूहः सकलहरिदुल्लासनविधिर्- विलीनो लोकानां स हि नयनतापोऽपि कमले । तवास्मिन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्चेतोविधुरयमुदेति स्म जलधेः ॥ ३०॥ मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां द्विजानां ते हीरावलिविहितनीराजनरुचाम् । इयं ज्योत्स्ना कापि स्रवदमृतसंदोहसरसा ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥ ३१॥ कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् । वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२॥ कपोले ते दोलायितललितलोलालकवृते विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम् । स्वकीयानां बन्दीकृतमसहमानैरिव बलान्- निबध्योर्ध्वं कृष्टा तिमिरनिकुरम्बैर्विधुकला ॥ ३३॥ प्रसादो यस्यायं नमदमितगीर्वाणमुकुट- प्रसर्पज्जोत्स्नाभिश्चरणतलपीठार्चितविधिः । दृगम्भोजं तत्ते गतिहसितमत्तेभगमने वने लीनैर्दीनैः कथय कथमीयादिह तुलाम् ॥ ३४॥ दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा । दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥ ३५॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैर्दीनां लीनामनिशमवधानातिशयिनी ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६॥ प्रभाजालैः प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् । महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७॥ निवासो मुक्तानां निबिडतरनीलाम्बुदनिभस्- तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मिन्कालागरुबहुलसौरभ्यनिवहैः पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥ ३८॥ विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः । निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणैर्- नमस्यामो दामोदरगृहिणी दारिद्र्यदलिताः ॥ ३९॥ अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे लुठन्तं बालं मामविरलगलद्बाष्पजटिलम् । सुधासेकस्निग्धैरतिमसृणमुग्धैः करतलैः स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ ४०॥ रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे । परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१॥ ॥ इति पण्डितराजश्रीजगन्नाथविरचिता लक्ष्मीलहरी समाप्ता ॥