अक्षर आकार:

ललिताऽष्टोत्तरशतनामावली

lalitAaShTottarashatanAmAvaliH

ललिताऽष्टोत्तरशतनामावली

अथ ललिताऽष्टोत्तरशतनामावलिः ॥ ॐ शिवप्रियायै नमः । ॐ शिवाराध्यायै नमः । ॐ शिवेष्टायै नमः । ॐ शिवकोमलायै नमः । ॐ शिवोत्सवायै नमः ॥ ५॥ ॐ शिवरसायै नमः । ॐ शिवदिव्यशिखामण्यै नमः । ॐ शिवपूर्णायै नमः । ॐ शिवघनायै नमः । ॐ शिवस्थायै नमः ॥ १०॥ ॐ शिववल्लभायै नमः । ॐ शिवाभिन्नायै नमः । ॐ शिवार्धाङ्ग्यै नमः । ॐ शिवाधीनायै नमः । ॐ शिवंकर्यै नमः ॥ १५॥ ॐ शिवनामजपासक्तयै नमः । ॐ शिवसान्निध्यकारिण्यै नमः । ॐ शिवशक्त्यै नमः । ॐ शिवाध्यक्षायै नमः । ॐ शिवकामेश्वर्यै नमः ॥ २०॥ ॐ शिवायै नमः । ॐ शिवयोगीश्वरीदेव्यै नमः । ॐ शिवाज्ञावशवर्तिन्यै नमः । ॐ शिवविद्यातिनिपुणायै नमः । ॐ शिवपञ्चाक्षरप्रियायै नमः ॥ २५॥ ॐ शिवसौभाग्यसम्पन्नायै नमः । ॐ शिवकैङ्कर्यकारिण्यै नमः । ॐ शिवाङ्कस्थायै नमः । ॐ शिवासक्तायै नमः । ॐ शिवकैवल्यदायिन्यै नमः ॥ ३०॥ ॐ शिवक्रीडायै नमः । ॐ शिवनिधये नमः । ॐ शिवाश्रयसमन्वितायै नमः । ॐ शिवलीलायै नमः । ॐ शिवकलायै नमः ॥ ३५॥ ॐ शिवकान्तायै नमः । ॐ शिवप्रदायै नमः । ॐ शिवश्रीललितादेव्यै नमः । ॐ शिवस्य नयनामृतायै नमः । ॐ शिवचिण्तामणिपदायै नमः ॥ ४०॥ ॐ शिवस्य हृदयोज्ज्वलायै नमः । ॐ शिवोत्तमायै नमः । ॐ शिवाकारायै नमः । ॐ शिवकामप्रपूरिण्यै नमः । ॐ शिवलिङ्गार्चनपरायै नमः ॥ ४५॥ ॐ शिवालिङ्गनकौतुक्यै नमः । ॐ शिवालोकनसंतुष्टायै नमः । ॐ शिवलोकनिवासिन्यै नमः । ॐ शिवकैलसनगरस्वामिन्यै नमः । ॐ शिवरञ्जिन्यै नमः ॥ ५०॥ ॐ शिवस्याहोपुरुषिकायै नमः । ॐ शिवसंकल्पपूरकायै नमः । ॐ शिवसौन्दर्यसर्वाङ्ग्यै नमः । ॐ शिवसौभाग्यदायिन्यै नमः । ॐ शिवशब्दैकनिरतायै नमः ॥ ५५॥ ॐ शिवध्यानपरायणायै नमः । ॐ शिवभक्तैकसुलभायै नमः । ॐ शिवभक्तजनप्रियायै नमः । ॐ शिवानुग्रहसम्पूर्णायै नमः । ॐ शिवानन्दरसार्णवायै नमः ॥ ६०॥ ॐ शिवप्रकाशसंतुष्टायै नमः । ॐ शिवशैलकुमारिकायै नमः । ॐ शिवास्यपङ्कजार्काभायै नमः । ॐ शिवान्तःपुरवासिन्यै नमः । ॐ शिवजीवातुकलिकायै नमः ॥ ६५॥ ॐ शिवपुण्यपरंपरायै नमः । ॐ शिवाक्षमालासंतृप्तायै नमः । ॐ शिवनित्यमनोहरायै नमः । ॐ शिवभक्तशिवज्ञानप्रदायै नमः । ॐ शिवविलासिन्यै नमः ॥ ७०॥ ॐ शिवसंमोहनकर्यै नमः । ॐ शिवसाम्राज्यशालिन्यै नमः । ॐ शिवसाक्षात्ब्रह्मविद्यायै नमः । ॐ शिवताण्डवसाक्षिण्यै नमः । ॐ शिवागमार्थतत्त्वज्ञायै नमः ॥ ७५॥ ॐ शिवमान्यायै नमः । ॐ शिवात्मिकायै नमः । ॐ शिवकार्यैकचतुरायै नमः । ॐ शिवशास्त्रप्रवर्तकायै नमः । ॐ शिवप्रसादजनन्यै नमः ॥ ८०॥ ॐ शिवस्य हितकारिण्यै नमः । ॐ शिवोज्ज्वलायै नमः । ॐ शिवज्योतिषे नमः । ॐ शिवभोगसुखंकर्यै नमः । ॐ शिवस्य नित्यतरुण्यै नमः ॥ ८५॥ ॐ शिवकल्पकवल्लर्यै नमः । ॐ शिवबिल्वार्चनकर्यै नमः । ॐ शिवभक्तार्तिभञ्जनायै नमः । ॐ शिवाक्षिकुमुदज्योत्स्नायै नमः । ॐ शिवश्रीकरुणाकरायै नमः ॥ ९०॥ ॐ शिवानन्दसुधापूर्णायै नमः । ॐ शिवभाग्याब्धिचन्द्रिकायै नमः । ॐ शिवशक्त्यैक्यललितायै नमः । ॐ शिवक्रीडारसोज्ज्वलायै नमः । ॐ शिवप्रेममहारत्नकाठिन्यकलशस्तन्यै नमः ॥ ९५॥ ॐ शिवलालितलाक्षार्द्रचरणांबुजकोमलायै नमः । ॐ शिवचित्तैकहरणव्यालोलघनवेणिकायै नमः । ॐ शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजायै नमः । ॐ शिवेतरमहातापनिर्मूलामृतवर्षिण्यै नमः । ॐ शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषितायै नमः ॥ १००॥ ॐ शिवसम्पूर्णविमलज्ञानदुग्धाब्धिशायिन्यै नमः । ॐ शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दितायै नमः । ॐ शिवमायासमाक्रान्तमहिषासुरमर्दिन्यै नमः । ॐ शिवदत्तबलोन्मत्तशुम्भाद्यसुरनाशिन्यै नमः । ॐ शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिन्यै नमः ॥ १०५॥ ॐ शिवातिप्रियभक्तादिनन्दिभृङ्गिरिटिस्तुतायै नमः । ॐ शिवानलसमुद्भूतभस्मोद्धूलितविग्रहायै नमः । ॐ शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दर्यै नमः । इति श्रीललिताष्टोत्तरशतनामावलिः सम्पूर्णा ॥