अक्षर आकार:

श्रीललितास्तोत्रम्

Shri Lalitastotram

श्रीललितास्तोत्रम्

कथनीयं किं वाञ्छितमम्ब पुरस्ते न सर्वज्ञा । किं त्वं शैलेशसुते पूरय वाञ्छां ममाशु करुणाब्धे ॥ १॥ एतावता तव स्यात्का हानिः कामवैरिपुण्यतते । पश्य दृगग्रेण जनं क्लिष्टमिमं बहुविधैर्दुःखैः ॥ २॥ ईडितपदे सुराग्र्यैरीशानप्रभृतिभिर्निजेष्टाप्त्यै । ईप्सितवितरणनिर्जितकल्पतरो रोहिणीशशिशुचूडे ॥ ३॥ लक्ष्यं भूयादक्ष्णोर्ललनारत्नं ललाटनयनस्य । क्व नु मम हेतुविहीनापारकृपाजन्मगेहमगजन्म ॥ ४॥ ह्रीमान्को वा न भवति गिरिजे त्वत्पादपङ्कजं स्तोतुम् । पद्मजषण्मुखफणिराण्मुख्या अपि यत्र मूकतां यान्ति ॥ ५॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीललितास्तोत्रं सम्पूर्णम् ।