अक्षर आकार:

ललितास्तवरत्नं महर्षिदूर्वासः प्रणीतम्

lalitAstavaratnam by Durvasa

ललितास्तवरत्नं महर्षिदूर्वासः प्रणीतम्

आर्या द्विशती च ॥ श्री ललितास्तवरत्नम् पारायण क्रमः ॥ वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमपरागशोणं कुवल्यिनीजार-कोरकापीडम् ॥ अस्य श्री ललितास्तवरत्नमालामहामन्त्रस्य । भगवान् श्रीदुर्वासा ऋषिः । पंक्तिः छन्दः । सपरिवारश्रीललितामहात्रिपुरसुन्दरी देवता ॥ ऐं तापिञ्चमेचकाभां तालीदलरचित कर्णताटङ्काम् । ताम्बूलपूरितमुखीं ताम्राधरबिम्बदरहासाम् ॥ इति बीजम् ॥ सौः धूर्तानामतिदूरा वार्ता शेषावलग्न कमनीया । आर्तालीशुभदात्री वार्ताली भवतु वाञ्चितार्थाय ॥ इति शक्तिः ॥ क्लीं आदिमरसावलम्बां अनिदम्प्रथमाक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननींमन्तः कलयामि सुन्दरीमनिशम् ॥ इति कीलकम् ॥ मम सपरिवारश्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा सर्वाभीष्टसिद्ध्यर्थे पारायणे विनियोगः । कुङ्कुमललामभास्वन्निटिलां कुटिलतरछिल्लिका युगलाम् । नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ अङ्गुष्टाभ्यां नमः । हृदयाय नमः ॥ १॥ अङ्कुरित मन्दहासां अरुणाधरकान्तिविजितबिम्बाभाम् । कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥ तर्जनीभ्यां नमः । शिरसे स्वाहा ॥ २॥ कर्पूरसान्द्रवीटीकबलितवदनारविन्दकमनीयाम् । कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ मध्यमाभ्यां नमः । शिखायै वषट् ॥ ३॥ कल्हारदामकोमल भुजयुगल स्फुरित रत्नकेयूराम् । करपद्ममूलविलसत् काञ्चनमयकटकवलयसन्दोहाम् ॥ अनामिकाभ्यां नमः । कवचाय हुं ॥ ४॥ पाणिचतुष्टयविलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्राम् । कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ कनिष्टिकाभ्यां नमः । नेत्रत्रयाय वौषट् ॥ ५॥ कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् । उन्मस्तकानुकम्पामुत्तरलापाङ्कपोषितानङ्गाम् ॥ करतलकरपृष्टाभ्यां नमः । अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ६॥ ॥ ध्यानम् ॥ आदिमरसावलम्बाम् अनिदम्प्रथमोक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १॥ नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः । नन्दितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ २॥ पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि । रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ ३॥ कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे । वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ ४॥ लमित्यादि पञ्चपूजा ॥ ततः पारायणान्तरमं हृदयादिन्यासं विधाय ध्यात्वा पञ्चोपचारेः सम्पूजयेत् ॥ ॥ महर्षिदुर्वासः प्रणीतं श्री ललितास्तवरत्नम् ॥ ॥ आर्या द्विशती ॥ वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमपरागशोणं कुवलयिनीजार-कोरकापीडम् ॥ १॥ स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः । काञ्चन निकुञ्जवाटी कन्दलदमरीप्रपञ्च सङ्गीतः ॥ २॥ हरिहयनैऋतमारुतहरितामन्तेष्ववस्थितं तस्य । विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ ३॥ मध्ये पुनर्मनोहररत्नरुचिस्तबक रञ्जितदिगन्तम् । उपरि चतुः शतयोजनमुत्तङ्ग श‍ृङ्गम्पुङ्गवमुपासे ॥ ४॥ तत्र चतुः शतयोजनपरिणाहं देव शिल्पिना रचितम् । नानासालमनोज्ञं नमाम्यहं नगरं आदिविद्यायाः ॥ ५॥ प्रथमं सहस्रपूर्वक षट्शतसंख्याक योजनं परितः । वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययो रूपम् ॥ ६॥ तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः । घटयतु मुदं द्वितीयो घण्टास्तनसार निर्मितः सालः ॥ ७॥ उभयोरन्तरसीमन्युद्दाम भ्रमररञ्जितोदारम् । उपवमनमुपास्महे वयमूरीकृत मन्दमारुत स्यन्दम् ॥ ८॥ आलिङ्ग्य भद्रकालीमासीनस्तत्र हरिशिलाश्यामाम् । मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९॥ तार्त्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः । ताम्रेण रचितमूर्तिस्तनुतादा चन्द्रतारकं भद्रम् ॥ १०॥ मध्ये तयोश्च मणिमयपल्लवशाखा प्रसूनपक्ष्मलिताम् । कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ ११॥ तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् । आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्रः ॥ १२॥ नमत तदुत्तरभागे नाकिपथोल्लङ्घि श‍ृङ्गसङ्घातम् । सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ १३॥ सालद्वयान्तराले सरलालिकपोत-चाटुसुभगायाम् । सन्तानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४॥ तत्र तपनादिरूक्षः साम्राज्ञीचरण सान्द्रितस्वान्तः । शुक्र शुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ १५॥ उत्तरसीमनि तस्योन्नतशिखरोत्कम्पि हाटकपताकः । प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ १६॥ प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा । हरिचन्दनद्रुवाटीहरतादामूलमस्मदनुतापम् ॥ १७॥ तत्र नभश्री मुख्यैस्तरुणी वर्गैः समन्वितः परितः । वज्राट्टऋहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८॥ मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे । भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ १९॥ अनयोर्मध्ये सन्ततमङ्कूरद्दिव्यकुसुमगन्धायाम् । मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ २०॥ तस्यामिषोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः । अभ्यर्चयन् स जीयादम्बामामोदमेदुरैः कुसुमैः ॥ २१॥ तस्यर्षिसंख्ययोजनदूरे देदीप्यमानश‍ृङ्गौघः । कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ २२॥ मध्ये तयोर्मरुत्पथ लङ्घिथविट-पाग्रविरुतकलकण्ठा । श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३॥ तस्यामतिप्रियाभ्यां सहखेलन् सहसहस्य लक्ष्मीभ्याम् । सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४॥ उत्तरतस्तस्य महानुद्भट हुत्भुक्षि स्वारुणः मयूखः । तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥ २५॥ कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् । कलयामि सूनकोरककन्दलितामोद-तुन्दिलसमीराम् ॥ २६॥ तस्यामति-शिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् । शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ २७॥ तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलित-मधुगन्धम् । सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणी-शरणम् ॥ २८॥ तत्रालये विशाले तपनीयारचित-तरल-सोपाने । माणिक्य मण्डपान्तर्महिते सिंहासने मणीखचिते ॥ २९॥ बिन्दु-त्रिपञ्च-कोण-द्विप-नृप-वसु-वेद-दल-कुरेखाढ्ये । चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ ३०॥ तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् । ताम्बूलपूरितमुखीं ताम्राधरबिम्बदृष्टदरहासाम् ॥ ३१॥ कुङ्कुमपङ्किलदेहां कुवलय-जीवातु-शावकावतंसाम् । कोकनदशोणचरणां कोकिल-निक्वाण-कोमलालापाम् ॥ ३२॥ वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् । मुक्ताललन्तिकाञ्चित मुग्धालिक-मिलित-चित्रकोदाराम् ॥ ३३॥ करविधृतकीरशावक-कल-निनद-व्यक्त-निखिल-निगमार्थाम् । वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥ ३४॥ आपाटलांशुकधरां आदिरसोन्मेषवासित कटाक्षाम् । आम्नायसारगुलिकां आद्यां सङ्गीतमातृकां वन्दे ॥ ३५॥ तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः । शमयतु मम सन्तापं सालो नवमः स पुष्परागमयः ॥ ३६॥ अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः । सिंहासनेश्वरीमनुचिन्तन-निस्तन्द्र-सिद्धनीरन्ध्राः ॥ ३७॥ तत्सालोत्तरदेशे तरुणजपा-किरण-धोरणी-शोणः । प्रशमयतु पद्मरागप्राकारो मम पराभवं दशमः ॥ ३८॥ अन्तरभूकृतवासाननयोरपनीत चित्तवैमत्यान् । चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥ ३९॥ सारङ्गवाहयोजनदूरेऽऽसङ्घटित केतनस्तस्य । गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ ४०॥ वप्रद्वयान्तरोर्व्यां वटुकैर्विविधैश्च योगिनी बृन्दैः । सततं समर्चितायाः सङ्कर्षिण्याः प्रणौमि चरणाब्जम् ॥ ४१॥ तापसयोजनदूरे तस्य समुत्तुङ्गः गोपुरोपेतः । वाञ्छापूर्त्यै भवताद्वज्रमणी-निकर-निर्मितो वप्रः ॥ ४२॥ वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः । रम्भादिविबुधवेश्याः रचयन्तु महान्तमस्मदानन्दम् ॥ ४३॥ तत्र सदा प्रवहन्ति तटिनी वज्राभिधा चिरं जीयात् । चटुलोर्मिजालनृत्यत् कलहंसीकुलकलक्वणितपुष्टा ॥ ४४॥ रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या । वज्रप्रदानतोषितवज्रिमुखत्रिदश-विनुतचारित्रा ॥ ४५॥ तस्योदीच्यां हरिति स्तवकितसुषमावलीढ-वियदन्तः । वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥ ४६॥ अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् । कार्कोटकादिनागान् कलयामः किं च बलिमुखान्दनुजान् ॥ ४७॥ गन्धवहसंख्य-योजनदूरे गगनोर्ध्वजाङ्घिकस्तस्य । वासवमणिप्रणीतो वरणो वर्धयतु वैदुषीं विशदाम् ॥ ४८॥ मध्यक्षोण्यामनयोर्महेन्द्रनीलात्मकानि च सरांसि । शातोदरी सहायान्भूपालानपि पुनः पुनः प्रणुमः ॥ ४९॥ आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः । मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु वप्रः ॥ ५०॥ आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरन्दरः श्रीमान् । अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥ ५१॥ तत्कोणे व्यजनस्रुक्तोमरपात्रस्रुवान्न शक्तिधरः । स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ ५२॥ दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः । त्रिपुरपदाब्जभक्तस्तिरयतु मम निखिलमंहंसां निकरम् ॥ ५३॥ तस्यैव पश्चिमायां दिशि दलितेन्दीवर प्रभाश्यामः । खेटासि यष्टिधारी खेदानपनयतु यातुधानो मे ॥ ५४॥ तस्या उत्तरदेशे धवलाङ्गो विपुलझष वरारूढः । पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥ ५५॥ वन्दे तदुत्तरहरित्कोणे वायुं चमूरूवरवाहम् । कोरकित तत्वबोधान्गोरक्ष प्रमुख योगिनोऽपि मुहुः ॥ ५६॥ तरुणीरिडाप्रधानास्तिस्रो वातस्य तस्य कृतवासाः । प्रत्यग्रकापिशायनपान-परिभ्रान्त-लोचनाः कलये ॥ ५७॥ तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् । अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥ ५८॥ तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे । कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥ ५९॥ तत्पुरुषोडशवरणस्थलभाजस्तरुणचन्द्रचूडालान् । रुद्राध्याये पठितान् रुद्राणीसहचरान् भजे रुद्रान् ॥ ६०॥ पवमानसंख्ययोजनदूरे बालतृण्मेचकस्तस्य । सालो मरकतरचितः सम्पदमचलां श्रियं च पुष्णातु ॥ ६१॥ आवृति युग्मान्तरतो हरितमणी-निवहमेचके देशे । हाटक-ताली-विपिनं हालाघटघटित-विटपमाकलये ॥ ६२॥ तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् । मरकतसौधमनोज्ञं दद्यादायूषि दण्डनाथायाः ॥ ६३॥ सदने तव हरिन्मणिसङ्घटिते मण्डपे शतस्तम्भे । कार्त्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४॥ बिन्दुत्रिकोणवर्तुलषडस्रवृत्तद्वयान्विते चक्रे । सञ्चारिणी दशोत्तरशतार्ण-मनुराजकमलकलहंसी ॥ ६५॥ कोलवदना कुशेशयनयना कोकारिमण्डितशिखण्डा । सन्तप्तकाञ्चनाभा सन्ध्यारुण-चेल-संवृत-नितम्बा ॥ ६६॥ हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता । कूलङ्कषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७॥ धूर्तानामतिदूरावार्ताशेषावलग्नकमनीया । आर्तालीशुभदात्री वार्ताली भवतु वाञ्छितार्थाय ॥ ६८॥ तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः । प्रणमत जम्भिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥ ६९॥ पूर्वोक्तसंख्ययोजनदूरे पूयांशुपाटलस्तस्य । विद्रावयतु मदार्तिं विद्रुमसालो विशङ्कटद्वारः ॥ ७०॥ आवरणयोर्महर्निशमन्तरभूमौ प्रकाशशालिन्याम् । आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ॥ ७१॥ वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः । सालो नानारत्नैः संघटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२॥ अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् । माणिख्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ ७३॥ तत्र स्तिथं प्रसन्नं तरुणतमालप्रवालकिरणाभम् । कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥ ७४॥ शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकृपम् । मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिका रुचिरम् ॥ ७५॥ नालीकदलसहोदरनयनाञ्चलघटितमनसिजाकूतम् । कमलाकठिणपयोधरकस्तूरी-धुसृणपङ्किलोरस्कम् ॥ ७६॥ चाम्पेयगन्धिकैश्यं शम्पासब्रह्मचारिकौशेयम् । श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७॥ कम्बुसुदर्शनविलसत्-करपद्मं कण्ठलोलवनमालम् । मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८॥ तद्वरणोत्तरभागे तारापति-बिम्बचुम्बिनिजश‍ृङ्गः । विविधमणी-गणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥ ७९॥ प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकर-सङ्कीर्णाम् । नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥ ८०॥ प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् । श‍ृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१॥ तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् । अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२॥ तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् । मुक्तामय-कलहंसी-मुद्रित-कनकारविन्दसन्दोहाम् ॥ ८३॥ शक्रोपलमयभृङ्गीसङ्गीतोन्मेषघोषितदिगन्ताम् । काञ्चनमयाङ्गविलसत्कारण्डवषण्ड-ताण्डवमनोज्ञाम् ॥ ८४॥ कुरुविन्दात्म-कहल्लक-कोरक-सुषमा-समूह-पाटलिताम् । कलये सुधास्वरूपां कन्दलितामन्दकैरवामोदाम् ॥ ८५॥ तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् । सिन्दूर-पाटलाङ्गीं सितकिरणाङ्कूरकल्पितवतंसाम् ॥ ८६॥ पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् । कुटिलकवरीं कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७॥ निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमश‍ृङ्गजलैः । परिषिञ्चन्तीं परितस्तारां तारुण्यगर्वितां वन्दे ॥ ८८॥ प्रागुक्तसङ्ख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् । अनयोरन्तरकक्ष्यामष्टापदपुष्टमेदिनीं रुचिराम् ॥ ८९॥ कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् । शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥ ९०॥ माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् । अमृतेशीत्यभिधानामन्तः कलयामि वारुणीं देवीम् ॥ ९१॥ सौवर्णकेनिपातनहस्ताः सौन्दर्यगर्विता देव्यः । तत्पुरतः स्थितिभाजो वितरन्त्वस्माकमायुषो वृद्धिम् ॥ ९२॥ तस्य पृषदश्वयोजनदूरेऽहङ्कारसालमतितुङ्गम् । वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ ९३॥ विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र । वेलातिलङ्घ्यवीचीकोलाहलभरितकूलवनवाटीम् ॥ ९४॥ तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् । श्यामलकञ्चुकलसितां श्यामा-विटबिम्बडम्बरहरास्याम् ॥ ९५॥ आभुग्नमसृणचिल्लीहसितायुग्मशरकार्मुकविलासाम् । मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६॥ कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् । कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७॥ तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् । मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८॥ तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते । आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥ ९९॥ चक्षुष्मतीप्रकाशनशक्तिच्छाया-समारचितकेलिम् । माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदये ॥ १००॥ इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् । अत्यन्त-शिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१॥ तत्र प्रकाशमानं तारानिकरैश्च (सर्वतस्सेव्यम् ) परिष्कृतोद्देशम् । अमृतमयकान्तिकन्दलमन्तः कलयामि कुन्दसितमिन्दुम् ॥ १०२॥ श‍ृङ्गारसालमीडे श‍ृङ्गोल्लसितं तदुत्तरे भागे । मध्यस्थले तयोरपि महितां श‍ृङ्गारपूर्विकां परिखाम् ॥ १०३॥ तत्र मणिनौस्थिताभिस्तपनीयारचितश‍ृङ्गहस्ताभिः । श‍ृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ १०४॥ श‍ृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् । चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ १०५॥ मणिसदन सालयोरधिमध्यं दशतालभूमिरुहदीर्घैः । पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६॥ मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः । सन्ततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ १०७॥ पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् । कलहंसीकुलकलकलकूलङ्कषनिनदनिचयकमनीयाम् ॥ १०८॥ पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् । देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः । वलयितमूर्तिर्भगवान् वह्निः कोशोन्नतश्चिरं पायात् ॥ १०९॥ तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् । द्वादशकलासमेतो ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ ११०॥ तस्मिन् दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्यम् । चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११॥ अमृते तस्मिन्नभितो विहरन्त्यो विविधतरणिभाजः । षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ ११२॥ तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् । सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिलाः कलाश्च सन्तापम् ॥११३॥ कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य । कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४॥ पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् । भवनानि शर्मणे नो भवन्तु भासा प्रदीपितजगन्ति ॥ ११५॥ सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् । तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥ ११६॥ तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् । चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७॥ तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् । रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ ११८॥ भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः । रचयतु मुदं रथेन्द्रः सचिवेशान्याः समस्तवन्द्यायाः ॥ ११९॥ कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शताङ्कमूर्धन्यम् । रुद्रदिशि रत्नधाम्नो रुचिरशलाका प्रपञ्चकञ्चुकितम् ॥ १२०॥ परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः । कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥ १२१॥ प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे । मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥ १२२॥ योजनयुगलाभोगा तत्कोशपरिणाहयैव भित्त्या च । चिन्तामणिगृह-भूमिर्जीयादाम्नायमयचतुर्द्वारा ॥ १२३॥ द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः । विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥ १२४॥ मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये । बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् १२५॥ चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः । अणिमादिसिद्धयो मामवन्तु देवी प्रभास्वरूपिण्यः ॥ १२६॥ अणिमादिसिद्धिफलकस्योपरिहरिणाङ्कखण्डकृतचूडाः । भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाय मातरोऽस्माकम् ॥ १२७॥ तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः । सङ्क्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दशमुद्राः ॥ १२८॥ फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे । दीव्यन्तु प्रकटाख्यास्तासां कर्त्रीं च भगवती त्रिपुरा ॥ १२९॥ तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः । कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखण्डाः ॥ १३०॥ सर्वाशापरिपूरकचक्रेऽस्मिन् गुप्तयोगिनी सेव्याः । त्रिपुरेशी मम दुरितं तुद्यात् कण्ठावलम्बिमणिहारा ॥ १३१॥ तस्योपरि मणिपीठे ताम्राम्भोरुहदलप्रभाशोणाः । ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२॥ सङ्क्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् । गोप्त्री गुप्तराख्याः गोपायतुमां कृपार्द्रया दृष्ट्या ॥ १३३॥ संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः । आलोलनीलवेणीरन्तः कलयामि यौवनोन्मत्ताः ॥ १३४॥ सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् । शक्तीश्च सम्प्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५॥ मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये । सन्ततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ १३६॥ सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री । त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७॥ तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः । सर्वज्ञाद्या देव्यः सकलाः सम्पादयन्तु मम कीर्तिम् ॥ १३८॥ चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् । मनसि निगर्भासहितां मन्ये त्रिपुरमालिनी देवीम् ॥ १३९॥ सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः । वन्दे वशिनीमुख्याः शक्तीः सिन्दूररेणुशोणरुचः ॥ १४०॥ श्रीसर्वरोगहारिणिचक्रेऽस्मिन्त्रिपुरपूर्विकां सिद्धाम् । वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१॥ वशिनीगृहोपरिष्टाद् विंशतिहस्तोन्नते महापीठे । शमयन्तु शत्रुबृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२॥ शस्त्रसदनोपरिष्टा वलये वलवैरिरत्नसङ्घटिते । कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ १४३॥ चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री । त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ १४४॥ कामेश्वरीगृहोपरिवलये विविधमनुसम्प्रदायज्ञाः । चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥ १४५॥ नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे । कामेश्याद्या नित्याःकलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६॥ नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये । कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७॥ सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ । पञ्चब्रह्माकारां मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८॥ परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः । मायामयी यवनिका मम दुरितं हरतु मेचकच्छाया ॥ १४९॥ मञ्चस्योपरि लम्बन्मदनीपुन्नागमालिकाभरितम् । हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ १५०॥ पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः । अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥ १५१॥ फलकं सदाशिवमयं प्रणौमि सिन्दूररेणुकिरणाभम् । आरभ्याङ्गेशीनां सदनात्कलितं च रत्नसोपानम् ॥ १५२॥ पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् । पर्यङ्कोपरिघटितं पातु चिरं हंसतूलशयनं नः ॥ १५३॥ तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् । आवृन्तपुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४॥ सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् । कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५॥ पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् । तरलापाङ्गतरङ्गितशफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ १५६॥ मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् । विद्रुमसहोदराधरविसृमरस्मित-किशोरसञ्चारम् ॥ १५७॥ आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् । वीटीसौरभंवीचीद्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ १५८॥ पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् । काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ १५९॥ तस्याङ्कभुवि निषण्णां तरुणकदम्बप्रसूनकिरणाभाम् । शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६०॥ कुङ्कुमललामभास्वन्निटिलां कुटिलतरचिल्लिकायुगलाम् । नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१॥ अङ्कुरितमन्दहासमरुणाधरकान्तिविजितबिम्बाभाम् । कस्तूरीमकरीयुतकपोलसङ्क्रान्तकनकताटङ्काम् ॥ १६२॥ कर्पूरसान्द्रवीटीकबलित वदनारविन्द कमनीयाम् । कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३॥ कल्हारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् । करपद्ममूलविलसत् काञ्चनमयकटकवलयसन्दोहाम् ॥ १६४॥ पाणिचतुष्टय विलसत् पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् । कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५॥ अणुदायादवलग्नामम्बुदशोभासनाभि-रोमलताम् । माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६॥ करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् । प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७॥ कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् । उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८॥ आदिमरसावलम्बामनिदं प्रथमोक्तिवल्लरीकलिकाम् । आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥ १६९॥ कस्तु क्षितौ पटीयान्वस्तुस्तोतुं शिवाङ्कवास्तव्यम् । अस्तु चिरन्तनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ १७०॥ प्रभुसम्मितोक्तिगम्ये परमशिवोत्सङ्गतुङ्गपर्यङ्कम् । तेजः किञ्चन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१॥ मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् । कैरविणीविटचूडं कैवल्यायास्तु किञ्चन महो नः ॥ १७२॥ अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् । क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३॥ भृङ्गरुचिसङ्गरकरापाङ्गं श‍ृङ्गारतुङ्गमरुणाङ्गम् । मङ्गलमभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४॥ प्रपदजितकूर्ममूर्मिलकरुणं भर्मरुचिनिर्मथनदेहम् । श्रितवर्म मर्म शम्भोः किञ्चन नर्म मम शर्मनिर्मातु ॥ १७५॥ कालकुरलालिकालिमकन्दलविजितालिवि धृतमणिवालि । मिलतु हृदि पुलिनजलघनं बहुलित गलगरलकेलि किमपि महः ॥ १७६॥ कुङ्कुमतिलकितफाला कुरुविन्दच्छायपाटलदुकूला । करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ १७७॥ पुष्पन्धयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः । जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥ १७८॥ तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि । कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥ १७९॥ असितकचमायताक्षं कुसुमशरं कुलमुद्वहकृपार्द्रम् । आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ॥ १८०॥ कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दि कण्ठदघ्नकृपाम् । कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ १८१॥ अरविन्दकान्त्यरुन्तुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः । छन्दः कन्दलमन्दिरमन्तः पुरमैन्दुशेखरं वन्दे ॥ १८२॥ बिम्बनिकुरुम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् । कम्बुगलमम्बुदकुचं बिम्बोकं कमपि चुम्बतु मनो मे ॥ १८३॥ कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् । चम्पकरुचिरसुवेषैः सम्पादितकान्त्यलंकृतदिगन्तम् ॥ १८४॥ शम्पारुचिभरगर्हा सम्पादक क्रान्ति कवचित दिगन्तम् । सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ १८५॥ उद्यद्दिनकरशोणानुत्पलबन्धुस्तनन्धयापीडान् । करकलितपुण्ड्रचापान् कलये कानपि कपर्दिनः प्राणान् ॥ १८६॥ रशनालसज्जघनया रसनाजीवातु-चापभासुरया । घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनय ॥ १८७॥ सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया । भासा कयापि चेतो नासामणि शोभिवदनया भरितम् ॥ १८८॥ नवयावकाभसिचयान्वितया गजयानया दयापरया । धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥ १८९॥ अलमलमकुसुमबाणैः बिम्बशोणैः पुण्ड्रकोदण्डैः । अकुमुदबान्धवचूडैरन्यैरिह जगति दैवतं मन्यैः ॥ १९०॥ कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः । करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ १९१॥ नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः । नन्दित गिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ १९२॥ कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे । सीम्ने चिरन्तनगिरां भूम्ने कस्मैचिदादधे प्रणतिम् ॥ १९३॥ कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः । कूलङ्कषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४॥ कोकणदशोण चरणात् कोमल कुरलालि विजितशैवालात् । उत्पलसुगन्धि नयनादुररीकुर्मो न देवतमान्याम् ॥ १९५॥ आपाटलाधराणामानीलस्निग्धबर्बरकचानाम् । आम्नाय जीवनानामाकूतानां हरस्य दासोऽस्मि ॥ १९६॥ पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु । मग्नं मनोमदीयं कास्वपि कामारि जीवनाडीषु ॥ १९७॥ ललिता पातु शिरो मे ललाटाम्बा च मधुमतीरूपा । भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८॥ पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् । अधरोष्टमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९॥ कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् । श‍ृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥ २००॥ स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे । पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ २०१॥ कोदण्डिनी च वक्षः कुक्षिं चाव्यात् कुलाचलतनूजा । कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखण्डा ॥ २०२॥ ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् । जङ्घे च षोडशी मे पायात् पादौ च पाशसृणि हस्ता ॥ २०३॥ प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा । शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४॥ भार्या रक्षतु गौरी पायात् पुत्रांश्च बिन्दुगृहपीठा । श्रीविद्या च यशो मे शीलं चाव्याश्चिरं महाराज्ञी ॥ २०५॥ पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि । रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ २०६॥ कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे । वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ २०७॥ अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये । उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोलाः ॥ २०८॥ वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् । चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् ॥ २०९॥ कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् । प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥ २१०॥ शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् । अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ २११॥ मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् । चन्द्रवतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥ २१२॥ ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः । प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ २१३॥ सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् । सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ २१४॥ ॥ इति महर्षिदुर्वासः प्रणीतं ललितास्तवरत्नं सम्पूर्णम् ॥