अक्षर आकार:

ललिता स्तवराजः ब्रह्माण्डमहापुराणे

lalitA stavarAjaH from brahmANDamahApurANa

ललिता स्तवराजः ब्रह्माण्डमहापुराणे

देवा ऊचुः जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय कामकलात्मिके ॥ ३.१३.१॥ जयकारि च वामाक्षि जय कामाक्षि सुन्दरि । जयाखिलसुराराध्ये जय कामेशि मानदे ॥ ३.१३.२॥ जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके । जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३.१३.३॥ जय श्रीकण्ठदयिते जय श्रीललितेऽम्बिके । जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ ३.१३.४॥ जातस्य जायमानस्य इष्टापूर्तस्य हेतवे । नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ३.१३.५॥ कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने । नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ३.१३.६॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे देवि महतोऽपि महीयसि ॥ ३.१३.७॥ परात्परतरे मातस्तेजस्तेजीयसामपि । अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ३.१३.८॥ रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् । हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ३.१३.९॥ दृशश्चन्द्रार्कदहना दिशस्ते बाहवोऽम्बिके । मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ ३.१३.१०॥ क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः । आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ३.१३.११॥ दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते । शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ ३.१३.१२॥ धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते । यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ ३.१३.१३॥ स्तनौ स्वाहास्वधाऽऽकरौ लोकोज्जीवनकारकौ । प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ ३.१३.१४॥ प्रत्याहारस्त्विन्द्रियाणि ध्यानं ते धीस्तु सत्तमा । मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ ३.१३.१५॥ महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव । भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ ३.१३.१६॥ यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी । आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ ३.१३.१७॥ हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ ३.१३.१८॥ नामरूपविभागं च या करोति स्वलीलया । तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा । नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ ३.१३.१९॥ (या देवी परमाशक्तिः परब्रह्माभिधायिनी । ब्रह्मानन्दाभिदायिन्यै तस्यै देव्यै नमो नमः ॥) यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः । पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ ३.१३.२०॥ या ससर्जादिधातारं सर्गादावादिभूरिदम् । दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ ३.१३.२१॥ यथा धृता तु धरणी ययाऽऽकाशममेयया । यया धृता यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ ३.१३.२२॥ (यदन्तरस्थं त्रिदिवं यदाधारोऽन्तरिक्षकः । यन्मयश्चाखिलो लोकः तस्य देवै नमो नमः ॥) यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् । यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ ३.१३.२३॥ नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै । नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ ३.१३.२४॥ नमोनमस्ते जगदेकमात्रे नमोनमस्ते जगदेकपित्रे । नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥ ३.१३.२५॥ नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यै । नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शाम्भवि सर्वशक्त्यै ॥ ३.१३.२६॥ अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् । अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमम्ब वर्णये ॥ ३.१३.२७॥ प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि । प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ ३.१३.२८॥ इति स्तुत्वा महादेवीं देवाः सर्वे सवासवाः । भूयो भूयो नमस्कृत्य शरणं जग्मुरञ्जसा ॥ ३.१३.२९॥ ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् । वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३.१३.३०॥ इन्द्र उवाच यदि तुष्टासि कल्याणि वरं दैत्येन्द्रपीडिताः । दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ ३.१३.३१॥ श्रीदेव्युवाच अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् । अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ ३.१३.३२॥ निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा । ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ ३.१३.३३॥ भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा । विद्याविनयसम्पन्ना नीरोगा दीर्घजीविनः ॥ ३.१३.३४॥ पुत्रमित्रकलत्राढ्या भवन्तु मदनुग्रहात् । इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ ३.१३.३५॥ आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ ३.१३.३६॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः ॥